३. छन्दसमाधिसुत्तवण्णना
८२५. यो समाधिस्स निस्सयभूतो छन्दो, सो इधाधिप्पेतोति आह ‘‘छन्दन्ति कत्तुकम्यताछन्द’’न्ति. तस्स च अधिपतेय्यट्ठो निस्सयट्ठो, न विना तं छन्दं निस्सायाति आह – ‘‘निस्सायाति निस्सयं कत्वा, अधिपतिं कत्वाति अत्थो’’ति. पधानभूताति सेट्ठभूता, सेट्ठभावो च एकस्सपि चतुकिच्चसाधनवसेन पवत्तिया, ततो एव बहुवचननिद्देसो, पधानसङ्खारट्ठेन पधानसङ्खरणतो. ‘‘छन्दं चे निस्साय…पे… अयं वुच्चति छन्दसमाधी’’ति इमाय पाळिया छन्दाधिपति समाधि छन्दसमाधीति अधिपतिसद्दलोपं कत्वा समासो वुत्तोति विञ्ञायति, अधिपतिसद्दत्थदस्सनवसेन वा छन्दहेतुको, छन्दाधिको वा समाधि छन्दसमाधि. तेन ‘‘छन्दसमाधिना चेव पधानसङ्खारेहि पधानभूतसङ्खारेहि च समन्नागता’’ति वक्खति, तं आनेत्वा सम्बन्धो. पधानभूताति वीरियभूता. केचि वदन्ति – ‘‘सङ्खतसङ्खारादिनिवत्तनत्थं पधानग्गहण’’न्ति. अथ वा तं तं विसेसं सङ्खरोतीति सङ्खारो, सब्बम्पि वीरियं. तत्थ चतुकिच्चसाधकतो तदञ्ञस्स निवत्तनत्थं पधानग्गहणन्ति. यथा छन्दो छन्दसमाधिना चेव पधानसङ्खारेहि च समन्नागतो, एवं छन्दसमाधि छन्देन चेव पधानसङ्खारेहि च समन्नागतो. पधानसङ्खारापि छन्देन चेव छन्दसमाधिना च समन्नागताति तीसुपि पदेसु समन्नागतसद्दो योजेतब्बो. तस्माति यस्मा तयोपि छन्दादयो एकचित्तुप्पादपरियापन्ना, तस्मा सब्बे ते धम्मा एकतो कत्वा ‘‘अयं वुच्चति…पे… इद्धिपादो’’ति वुत्तन्ति. एवं छन्दादीनंयेव चेत्थ इद्धिपादभावो वुत्तो, विभङ्गे पन तेसं इद्धिभावो सम्पयुत्तानं इद्धिपादभावो वुत्तोति दस्सेन्तो ‘‘इद्धिपादविभङ्गे पना’’तिआदिमाह.
इदानि नेसं इद्धिपादतापि सम्भवतीति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. तत्थ छन्दञ्हि भावयतो पधानं कत्वा भावेन्तस्स तथा पवत्तपुब्बाभिसङ्खारवसेन इज्झमानो छन्दो इद्धि नाम, तस्स निस्सयभूता पधानसङ्खारा इद्धिपादो नाम. सेसद्वयेपि एसेव नयो. तथा भावयन्तस्स मुख्यतामत्तं सन्धाय वुत्तं, इज्झनत्थो पन सब्बेसं समानन्ति दस्सेन्तो ‘‘सम्पयुत्त…पे… इज्झन्तियेवा’’ति आह.
इद्धिपादे असङ्करतो दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ छन्दादयोति छन्दसमाधिपधानसङ्खारा. सेसिद्धिपादेसूति वीरियिद्धिपादादीसु. तत्थ वीरियसमाधिपधानसङ्खारसमन्नागतोति द्विक्खत्तुं वीरियं आगतं, तत्थ पुरिमं समाधिविसेसं, वीरियाधिपतिसमाधि एव वीरियसमाधीति दुतियं समन्नागमङ्गदस्सनं. द्वेयेव हि सब्बत्थ समन्नागमङ्गानि समाधि पधानसङ्खारो च, छन्दादयो समाधिविसेसनानि, पधानसङ्खारो पन पधानवचनेनेव विसेसितो, न छन्दादीहीति न इध वीरियाधिपतिता पधानसङ्खारस्स वुत्ता होति. वीरियञ्च समाधिं विसेसेत्वा ठितमेव समन्नागमङ्गवसेन पधानसङ्खारवचनेन वुत्तन्ति नापि द्वीहि वीरियेहि समन्नागमो वुत्तो होति. यस्मा पन छन्दादीहि विसिट्ठो समाधि, तथापि विसिट्ठेनेव च तेन सम्पयुत्तो पधानसङ्खारो सेसधम्मा च, तस्मा समाधिविसेसनानं वसेन चत्तारो इद्धिपादा वुत्ता, विसेसनभावो च छन्दादीनं तंतंअवस्सयदस्सनवसेन होतीति ‘‘छन्दसमाधि…पे… इद्धिपादो’’ति एत्थ निस्सयत्थेपि पाद-सद्दे उपादायट्ठेन छन्दादीनं इद्धिपादता वुत्ता होति, तेनेव अभिधम्मे उत्तरचूळभाजनिये ‘‘चत्तारो इद्धिपादा छन्दिद्धिपादो’’तिआदिना (विभ. ४५७) छन्दादीनंयेव इद्धिपादता वुत्ता, पञ्हपुच्छके च – ‘‘चत्तारो इद्धिपादा इध भिक्खु छन्दसमाधी’’तिआदिनाव (विभ. ४३१) उद्देसं कत्वापि पुन छन्दादीनंयेव कुसलादिभावो विभत्तो. उपायिद्धिपाददस्सनत्थमेव हि निस्सयिद्धिपाददस्सनं कतं, अञ्ञथा चतुब्बिधता न होतीति अयमेत्थ पाळिवसेन अत्थविनिच्छयो. तत्थ उपायिद्धिपाददस्सनत्थमेवाति छन्दादिके धुरे जेट्ठके पुब्बङ्गमे कत्वा निब्बत्तितसमाधि छन्दाधिपतिसमाधीति छन्दादीनं इद्धिया अधिगमूपायदस्सनं उपायिद्धिपाददस्सनं, तदत्थमेव ‘‘तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति तत्थ तत्थ पाळियं निस्सयिद्धिपाददस्सनं कतं छन्दादिविसिट्ठानंयेव वेदनाक्खन्धादीनं अधिप्पेतत्ता. एवञ्चेतं सम्पटिच्छितब्बं, अञ्ञथा केवलं इद्धिसम्पयुत्तानंयेव खन्धानं वसेन इद्धिपादभावे गय्हमाने तेसं चतुब्बिधता न होति विसेसकारणभावतोति अधिप्पायो.
केचीति उत्तरविहारवासिनो. अनिब्बत्तोति हेतुपच्चयेहि न निब्बत्तो, न सभावधम्मो, पञ्ञत्तिमत्तन्ति अधिप्पायो. वादमद्दनत्थाय होति, अभिधम्मे च आगतो उत्तरचूळवारोति योजना. चत्तारो इद्धिपादातिआदि उत्तरचूळवारदस्सनं. इमे पन उत्तरचूळवारे आगता इद्धिपादा.
रट्ठपालत्थेरो छन्दे सति कथं नानुजानिस्सन्तीति सत्ताहानि भत्तानि अभुञ्जित्वा मातापितरो अनुजानापेत्वा पब्बजित्वा छन्दमेव निस्साय अरहत्तं पापुणीति आह – ‘‘रट्ठपालत्थेरो छन्दं धुरं कत्वा लोकुत्तरधम्मं निब्बत्तेसी’’ति. सोणत्थेरोति सुखुमालसोणत्थेरो. सो हि आयस्मा अत्तनो सुखुमालभावं अचिन्तेत्वा अतिवेलं चङ्कमनेन पादेसु उट्ठितेसुपि उस्साहं अविस्सज्जेन्तो वीरियं धुरं कत्वा लोकुत्तरधम्मं निब्बत्तेसि. सम्भुतत्थेरो ‘‘चित्तवतो चे अलमरियञाणदस्सनविसेसो इज्झेय्य, मय्हं इज्झेय्याति चित्तं धुरं कत्वा लोकुत्तरधम्मं निब्बत्तेसि. मोघराजा ‘‘पञ्ञवतो चे मग्गभावना इज्झेय्य, मय्हं इज्झेय्या’’ति पञ्ञापुब्बङ्गमं पञ्ञाधुरं पञ्ञाजेट्ठकं कत्वा अरहत्तं पापुणीति आह ‘‘मोघराजा वीमंसं धुरं कत्वा लोकुत्तरधम्मं निब्बत्तेसी’’ति. इदानि नेसं अरियानं उपट्ठानुस्साहमन्तजातिसम्पदं निस्साय रञ्ञो सन्तिके लद्धविसेसे अमच्चपुत्ते निदस्सनभावेन दस्सेतुं ‘‘तत्थ यथा’’तिआदिमाह. एत्थ च पुनप्पुनं छन्दुप्पादनं तोसनं विय होतीति छन्दस्स उपट्ठानसदिसता वुत्ता, थामभावतो च वीरियस्स सूरत्तसदिसता, चिन्तनप्पधानत्ता चित्तस्स मन्तसंविधानसदिसता, योनिसोमनसिकार-सम्भूतेसु कुसलधम्मेसु पञ्ञा सेट्ठाति वीमंसाय जातिसम्पत्तिसदिसता वुत्ता.