१०. विभङ्गसुत्तवण्णना

८३२. छन्दं उप्पादेत्वाति भावनाछन्दं उप्पादेत्वा. लीनाकारोति भावनाचित्तस्स लयापत्ति. कोसज्जेन वोकिण्णापज्जनं वुत्तं.

एवं पसादाभावेन चित्तस्स विक्खेपापत्ति, तत्थ पसादुप्पादनेन यं सम्पहंसनं इच्छितब्बं, तस्स उप्पादनाकारं दस्सेतुं वुत्तं ‘‘सो बुद्धधम्मसङ्घगुणे आवज्जेत्वा’’तिआदि. वत्थुकामे आरब्भ विक्खित्तो पुनप्पुनं विक्खित्तो होतियेवाति वुत्तं ‘‘अनुविक्खित्तो’’ति. उप्पथं पटिपन्नस्स चित्तस्स दण्डनट्ठेन निग्गण्हनट्ठेन सुत्तानि एव दण्डोति सुत्तदण्डो, तेन सुत्तदण्डेन चित्तं तज्जेत्वा. पञ्चकामगुणे आरब्भ पवत्तो चित्तविक्खेपो पुनप्पुनं उप्पज्जतेवाति वुत्तं ‘‘अनुविक्खित्तो अनुविसटो’’ति.

पुरेपच्छाभावो कम्मट्ठानस्स मनसिकारवसेन उग्गहवसेन वाति तदुभयं दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. अतिलीनादीसु चतूसु ठानेसूति अतिलीनातिपग्गहितसंखित्तअनुविक्खित्तसञ्ञितेसु चतूसु ठानेसु. तत्थ भावनं अनज्झोगाहेत्वाव सङ्कोचो अतिलीनता, अज्झोगाहेत्वा अन्तो सङ्कोचो संखित्तता, अन्तोसङ्खेपो अतिपग्गहितता, अच्चारद्धवीरियता अनुविक्खित्तता. बहिद्धा विसमवितक्कानुभावनं आपज्जन्तो द्वत्तिंसाकारवसेन अट्ठिकसञ्ञावसेन वा गहेतब्बन्ति आह – ‘‘सरीरवसेन वेदितब्ब’’न्ति. तेनाह ‘‘उद्धं पादतला’’तिआदि (दी. नि. २.३७७; म. नि. १.११०).

अञ्ञमञ्ञं असङ्करतो आकिरीयन्ति पकारतो ठपीयन्तीति आकारा, भागाति आह – ‘‘येहि आकारेहीति येहि कोट्ठासेही’’ति. लिङ्गीयति सल्लक्खीयतीति लिङ्गं, सण्ठानं. निमीयति निद्धारेत्वा परिच्छिन्दीयतीति निमित्तं, उपट्ठानं. यो भिक्खूतिआदि आलोकसञ्ञं यो उग्गण्हाति, तं दस्सनं. अङ्गणेति विवटङ्गणे. आलोकसञ्ञं मनसिकरोति रत्तियं. वीरियादीसुपीति यथा ‘‘इध भिक्खु छन्दं उप्पादेत्वा’’ति छन्दे वित्थारनयो वुत्तो, वीरियादीसुपि एसो एव वित्थारनयो योजेतब्बो.

पासादकम्पनवग्गवण्णना निट्ठिता.