१. चापालवग्गो

१. अपारसुत्तवण्णना

८१३. छन्दं निस्साय पवत्तो समाधीति कत्तुकम्यताछन्दं अधिपतिं कत्वा पटिलद्धसमाधि छन्धसमाधि. पधानसङ्खाराति चतुकिच्चसाधकस्स सम्मप्पधानवीरियस्सेतं अधिवचनं. तेहीति छन्दसमाधिपधानसङ्खारेहि. इद्धिया पादन्ति निप्फत्तिपरियायेन इज्झनट्ठेन, इज्झन्ति एताय सद्धा इद्धा वुद्धा उक्कंसगता होन्तीति इमिना वा परियायेन ‘‘इद्धी’’ति सङ्खातानं उपचारज्झानादिकुसलचित्तसम्पयुत्तानं छन्दसमाधिपधानसङ्खारानं अधिट्ठानट्ठेन पादभूतं, सेसचित्तचेतसिकरासिन्ति अत्थो. सा एव च यथावुत्तइद्धि यस्मा हेट्ठिमा हेट्ठिमा उपरिमाय उपरिमाय पादभूता, तस्मा वुत्तं ‘‘इद्धिभूतं वा पादन्ति इद्धिपाद’’न्ति. सेसेसूति वीरियसमाधिआदीसु. तत्थ हि वीरियं चित्तं वीमंसं अधिपतिं कत्वा पटिलद्धसमाधि वीमंसासमाधीति अत्थो वेदितब्बो. इधाति इमस्मिं इद्धिपादसंयुत्ते. एकपरिच्छेदोव अत्थनिद्देसो.

५. इद्धिपदेससुत्तवण्णना

८१७. इद्धिपदेसन्ति इद्धिया एकदेसं. को पन सोति आह – ‘‘तयो च मग्गे तीणि च फलानी’’ति.

६. समत्तसुत्तवण्णना

८१८. समत्तन्ति सामञ्ञस्स समं अत्तनं इज्झनं समत्तं परिपुण्णं. विवट्टपादका एव इद्धिपादा कथिता ‘‘अपारा पारं गमनाय संवत्तन्ती’’तिआदिवचनतो.

१०. चेतियसुत्तवण्णना

८२२. उदेनयक्खस्स चेतियट्ठानेति उदेनस्स नाम यक्खस्स देवायतनसङ्खेपेन इट्ठकाहि कते महाजनस्स चित्तीकतट्ठाने. कतविहारोति भगवन्तं उद्दिस्स तत्थ कतविहारो. वुच्चतीति पुरिमवोहारेन ‘‘उदेनचेतिय’’न्ति वुच्चति. गोतमकादीसुपीति गोतमकचेतियन्ति एवमादीसुपि. एसेव नयोति चेतियट्ठाने कतविहारभावं अतिदिसति. वड्ढिताति भावनापारिपूरिवसेन परिब्रूहिता. पुनप्पुनं कताति भावनाय बहुलीकरणवसेन अपरापरं पवत्तिता आनीता. युत्तयानं विय कताति यथा युत्तमाजञ्ञयानं छेकेन सारथिना अधिट्ठितं यथारुचि पवत्तिमरहति, एवं यथारुचि पवत्तनारहतं गमिता. पतिट्ठानट्ठेनाति अधिट्ठानट्ठेन. वत्थु विय कताति सब्बसो उपक्किलेसविसोधनेन इद्धिविसेसानं पवत्तिट्ठानभावतो सुविसोधितपरिस्सयवत्थु विय कता. अधिट्ठिताति पटिपक्खदूरीभावतो सुभावितभावेन तंतंअधिट्ठानयोग्यताय ठपिता. समन्ततो चिताति सब्बभागेन भावनुपचयं गमिता. तेनाह ‘‘सुवड्ढिता’’ति. सुट्ठु समारद्धाति इद्धिभावनाय सिखप्पत्तिया सम्मदेव संसेविता.

अनियमेनाति ‘‘यस्स कस्सची’’ति अनियतवचनेन. नियमेत्वाति ‘‘तथागतस्सा’’ति सरूपग्गहणेन नियमेत्वा. आयुप्पमाणन्ति परमायुप्पमाणं वदति. तस्सेव गहणे कारणं ब्रह्मजालवण्णनायं वुत्तनयेनेव वेदितब्बं. महासीवत्थेरो पन महाबोधिसत्तानं चरिमभवे पटिसन्धिदायिनो कम्मस्स असङ्खेय्यायुकतासंवत्तनसमत्थतं हदये ठपेत्वा बुद्धानं आयुसङ्खारस्स परिस्सयविक्खम्भनसमत्थता पाळियं आगता एवाति इमं भद्दकप्पमेव तिट्ठेय्याति अवोच.

खण्डिच्चादीहि अभिसुय्यतीति एतेन यथा इद्धिबलेन जराय न पटिघातो, एवं तेन मरणस्सपि न पटिघातोति अत्थतो आपन्नमेवाति. ‘‘क्व सरो खित्तो, क्वचनि पतितो’’ति अञ्ञथा वुट्ठितेनपि थेरवादेन अट्ठकथावचनमेव समत्थितन्ति दट्ठब्बं. तेनाह ‘‘सो पन न रुच्चति…पे… नियमित’’न्ति.

परियुट्ठितचित्तोति यथा किञ्चि अत्थानत्थं सल्लक्खेतुं न सक्का, एवं अभिभूतचित्तो. सो पन अभिभवो महता उदकोघेन अप्पकस्स उदकस्स अज्झोत्थरणं विय अहोसीति वुत्तं ‘‘अज्झोत्थटचित्तो’’ति. अञ्ञोति थेरतो, अरियेहि वा अञ्ञो यो कोचि परो पुथुज्जनो. पुथुज्जनग्गहणञ्चेत्थ यथा सब्बेन सब्बं अप्पहीनविपल्लासो मारेन परियुट्ठितचित्तो किञ्चि अत्थानत्थं सल्लक्खेतुं न सक्कोति, एवं थेरो भगवता कतं निमित्तोभासं सब्बसो न सल्लक्खेसीति दस्सनत्थं. तेनाह ‘‘मारो ही’’तिआदि. चत्तारो विपल्लासाति असुभे ‘‘सुभ’’न्ति सञ्ञाविपल्लासो, चित्तविपल्लासो, दुक्खे ‘‘सुख’’न्ति सञ्ञाविपल्लासो, चित्तविपल्लासोति इमे चत्तारो विपल्लासा. तेनाति यदिपि इतरे अट्ठ विपल्लासा पहीना, यथावुत्तानं चतुन्नं विपल्लासानं अप्पहीनभावेन. अस्साति थेरस्स.

मद्दतीति फुसनमत्तेन मद्दन्तो विय होति, अञ्ञथा तेन मद्दिते सत्तानं मरणमेव सिया, किं सक्खिस्सति न सक्खिस्सतीति अधिप्पायो. कस्मा न सक्खिस्सति? ननु एस अग्गसावकस्स महिद्धिकस्स महानुभावस्स कुच्छिं पविट्ठोति? सच्चं पविट्ठो, तञ्च खो अत्तनो महानुभावस्स दस्सनत्थं, न विबाधनाधिप्पायेन. विबाधनाधिप्पायेन पन इध ‘‘किं सक्खिस्सती’’ति वुत्तं हदयमद्दनस्स अधिकतत्ता. निमित्तोभासन्ति एत्थ ‘‘तिट्ठतु भगवा कप्प’’न्ति सकलकप्पं अवट्ठानयाचनाय ‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता’’तिआदिना अञ्ञापदेसेन अत्तनो चतुरिद्धिपादभावनानुभावेन कप्पं अवट्ठानसमत्थतावसेन सञ्ञुप्पादनं निमित्तं. तथा पन परियायग्गहणं मुञ्चित्वा उजुकंयेव अत्तनो अधिप्पायविभावनं ओभासो. जानन्तोयेवाति मारेन परियुट्ठितभावं जानन्तो एव. अत्तनो अपराधहेतुको सत्तानं सोको तनुको होति, न बलवाति आह – ‘‘दोसारोपनेन सोकतनुकरणत्थ’’न्ति. किं पन थेरो मारेन परियुट्ठितचित्तकाले पवत्तिं पच्छा जानातीति? न जानाति सभावेन, बुद्धानुभावेन पन जानाति.

अनत्थे नियोजेन्तो गुणमारणेन मारेति, विरागविबन्धनेन वा जातिनिमित्तताय तत्थ तत्थ जातं मारेन्तो विय होतीति ‘‘मारेतीति मारो’’ति वुत्तं. अतिपापत्ता पापिमा. कण्हधम्मसमन्नागतो कण्हो. विरागादिगुणानं अन्तकरणतो अन्तको. सत्तानं अनत्थावहं पटिपत्तिं न मुञ्चतीति नमुचि. अत्तनो मारपासेन पमत्ते बन्धति, पमत्ता वा बन्धू एतस्साति पमत्तबन्धु. सत्तमसत्ताहतो परं सत्त अहानि सन्धायाह ‘‘अट्ठमे सत्ताहे’’ति, न पन पल्लङ्कसत्ताहादि विय नियतकिच्चस्स अट्ठमसत्ताहस्स नाम लब्भनतो. सत्तमसत्ताहस्स हि परतो अजपालनिग्रोधमूले ब्रह्मुनो सक्कस्स च पटिञ्ञातधम्मदेसनं भगवन्तं ञत्वा ‘‘इदानि सत्ते धम्मदेसनाय मम विसयं अतिक्कामेस्सती’’ति सञ्जातदोमनस्सो हुत्वा ठितो चिन्तेसि, ‘‘हन्दाहं दानि नं उपायेन परिनिब्बापेस्सामि, एवमस्स मनोरथो अञ्ञथत्तं गमिस्सति, मम मनोरथो इज्झिस्सती’’ति चिन्तेत्वा भगवन्तं उपसङ्कमित्वा एकमन्तं ठितो – ‘‘परिनिब्बातु दानि, भन्ते, भगवा’’तिआदिना परिनिब्बानं याचि. तं सन्धाय वुत्तं ‘‘अट्ठमे सत्ताहे’’तिआदि. तत्थ अज्जाति आयुसङ्खारवोस्सज्जनदिवसं सन्धायाह. भगवा चस्स अतिबन्धनाधिप्पायं जानन्तोपि तं अनाविकत्वा परिनिब्बानस्स अकालभावमेव पकासेन्तो याचनं पटिक्खिपि. तेनाह ‘‘न तावाह’’न्तिआदि.

मग्गवसेन ब्यत्ताति सच्चपटिवेधवेय्यत्तियेन ब्यत्ता. तथेव विनीताति मग्गवसेन किलेसानं समुच्छेदविनयेन विनीता. तथा विसारदाति अरियमग्गाधिगमेनेव सत्थुसासने वेसारज्जप्पत्तिया विसारदा, सारज्जकरानं दिट्ठिविचिकिच्छादिपापधम्मानं विगमेन विसारदभावं पत्ताति अत्थो. यस्स सुतस्स वसेन वट्टदुक्खतो निस्सरणं सम्भवति, तं इध उक्कट्ठनिद्देसेन ‘‘सुत’’न्ति अधिप्पेतन्ति आह ‘‘तेपिटकवसेना’’ति. तिण्णं पिटकानं समूहो तेपिटकं, तीणि वा पिटकानि तिपिटकं, तिपिटकमेव तेपिटकं, तस्स वसेन. तदेवाति यं तं तेपिटकं सोतब्बभावेन सुतन्ति वुत्तं, तमेव. धम्मन्ति परियत्तिधम्मं. धारेन्तीति सुवण्णभाजने पक्खित्तसीहवसं विय अविनस्सन्तं कत्वा सुप्पगुणसुप्पवत्तिभावेन धारेन्ति हदये ठपेन्ति. इति परियत्तिधम्मवसेन बहुस्सुतधम्मधरभावं दस्सेत्वा इदानि पटिवेधवसेनपि तं दस्सेन्तो ‘‘अथ वा’’तिआदि वुत्तं. अरियधम्मस्साति मग्गफलधम्मस्स, नवविधस्स वा लोकुत्तरधम्मस्स. अनुधम्मभूतन्ति अधिगमायानुरूपं धम्मभूतं. अनुच्छविकपटिपदन्ति तमेव विपस्सनाधम्ममाह, छब्बिधा विसुद्धियो वा. अनुधम्मन्ति निब्बानधम्मस्स अनुधम्मो, यथावुत्तपटिपदा, तस्सानुरूपं अभिसल्लेखितं अप्पिच्छतादिधम्मं. चरणसीलाति समादाय वत्तनसीला. अनुमग्गफलधम्मो एतिस्साति वा अनुधम्मा, वुट्ठानगामिनिविपस्सना, तस्स चरणसीला. अत्तनो आचरियवादन्ति अत्तनो आचरियस्स सम्मासम्बुद्धस्स वादं. सदेवकस्स लोकस्स आचारसिक्खापनेन आचरियो, भगवा, तस्स वादो, चतुसच्चदेसना.

आचिक्खिस्सन्तीति आदितो कथेस्सन्ति, अत्तना उग्गहितनियामेन परे उग्गण्हापेस्सन्तीति अत्थो. देसेस्सन्तीति वाचेस्सन्ति, पाळिं सम्मा पबोधेस्सन्तीति अत्थो. पञ्ञपेस्सन्तीति पजानापेस्सन्ति, सङ्कासेस्सन्तीति अत्थो. पट्ठपेस्सन्तीति पकारेहि ठपेस्सन्ति, पकासेस्सन्तीति अत्थो. विवरिस्सन्तीति विवटं करिस्सन्ति. विभजिस्सन्तीति विभत्तं करिस्सन्ति. उत्तानीकरिस्सन्तीति अनुत्तानं गम्भीरं उत्तानं पाकटं करिस्सन्ति. सहधम्मेनाति एत्थ धम्म-सद्दो कारणपरियायो ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७२०) वियाति आह ‘‘सहेतुकेन सकारणेन वचनेना’’ति.

सप्पाटिहारियन्ति सनिस्सरणं. यथा परवादं भञ्जित्वा सकवादो पतिट्ठहति, एवं हेतुदाहरणेहि यथाधिगतमत्थं सम्पादेत्वा धम्मं कथेस्सन्ति. तेनाह ‘‘निय्यानिकं कत्वा धम्मं देसेस्सन्ती’’ति, नवविधं लोकुत्तरं धम्मं पबोधेस्सन्तीति अत्थो. एत्थ च ‘‘पञ्ञपेस्सन्ती’’तिआदीहि छहि पदेहि छ अत्थपदानि दस्सितानि, आदितो पन द्वीहि पदेहि छ ब्यञ्जनपदानि. एत्तावता तेपिटकं बुद्धवचनं संवण्णनानयेन सङ्गहेत्वा दस्सितं होति. वुत्तञ्हेतं नेत्तियं (नेत्ति. सङ्गहवार) ‘‘द्वादस पदानि सुत्तं, तं सब्बं ब्यञ्जनञ्च अत्थो चा’’ति.

सिक्खत्तयसङ्गहितन्ति अधिसीलसिक्खादिसिक्खत्तयसङ्गहं. सकलं सासनब्रह्मचरियन्ति अनवसेसं सत्थुसासनभूतं सेट्ठचरियं. समिद्धन्ति सम्मदेव वड्ढितं. झानस्सादवसेनाति तेहि तेहि भिक्खूहि समधिगतझानसुखवसेन. वुड्ढिप्पत्तन्ति उळारपणीतभावूपगमनेन सब्बसो परिवुड्ढिमुपगतं. सब्बपालिफुल्लं विय अभिञ्ञासम्पदाहि सासनाभिवुड्ढिया मत्थकप्पत्तितो. पतिट्ठितवसेनाति पतिट्ठानवसेन, पतिट्ठप्पत्तियाति अत्थो. पटिवेधवसेन बहुनो जनस्स हितं बाहुजञ्ञं. तेनाह ‘‘महाजनाभिसमयवसेना’’ति. पुथु पुथुलं भूतं जातं, पुथुत्तं भूतं पत्तन्ति वा पुथुभूतं. तेनाह ‘‘सब्बाकारेन पुथुलभावप्पत्त’’न्ति. सुट्ठु पकासितन्ति सम्मदेव आदिकल्याणादिभावेन पवेदितं.

सतिं सूपट्ठितं कत्वाति अयं कायादिविभागो अत्तभावसञ्ञितो दुक्खभारो मया एत्तकं कालं वहितो, इदानि पन न वहितब्बो, एतस्स अवहनत्थं चिरतरं कालं अरियमग्गसम्भारो सम्भतो, स्वायं अरियमग्गो पटिविद्धो, यतो इमे कायादयो असुभादितो सभावादितो सम्मदेव परिञ्ञाताति चतुब्बिधम्पि सतिं यथातथं विसये सुट्ठु उपट्ठितं कत्वा. ञाणेन परिच्छिन्दित्वाति यस्मा इमस्स अत्तभावसञ्ञितस्स दुक्खभारस्स वहने पयोजनभूतं अत्तहितं बोधिमूले एव परिसमापितं, परहितं पन बुद्धवेनेय्यविनयनं परिसमापितं मत्थकप्पत्तं, तं दानि मासत्तयेनेव परिसमापनं पापुणिस्सति, तस्मा आह ‘‘विसाखपुण्णमायं परिनिब्बायिस्सामी’’ति, एवं बुद्धञाणेन परिच्छिन्दित्वा सच्चभागेन विनिच्छयं कत्वा. आयुसङ्खारं विस्सजीति आयुनो जीवितस्स अभिसङ्खरणं फलसमापत्तिधम्मं न समापज्जिस्सामीति विस्सजि, तं विस्सज्जनेनेव तेन अभिसङ्खरीयमानं जीवितसङ्खारं न पवत्तयिस्सामीति विस्सजि. तेनाह ‘‘तत्था’’तिआदि.

ठानमहन्ततायपि पवत्तिआकारमहन्ततायपि महन्तो पथवीकम्पो. तत्थ ठानमहन्तताय भूमिचालस्स महन्ततं दस्सेतुं ‘‘तदा…पे… अकम्पित्था’’ति वुत्तं, सा पन जातिखेत्तभूता दससहस्सी लोकधातु एव, न या काचि. या महाभिनीहारमहाजातिआदीसुपि अकम्पित्थ, तदापि तत्तकाय एव कम्पने किं कारणं? जातिखेत्तभावेन तस्सेव आदितो परिग्गहस्स कतत्ता, परिग्गहणञ्चस्स धम्मतावसेन वेदितब्बं. तथा हि पुरिमबुद्धानम्पि तत्तकमेव जातिखेत्तं अहोसि. तथा हि वुत्तं ‘‘दससहस्सी लोकधातु निस्सद्दा होति निराकुला…पे… महासमुद्दो आभुजति, दससहस्सी पकम्पती’’ति च आदि. उदकपरियन्तं कत्वा छप्पकारप्पवेधनेन. अवीतरागे भिंसेतीति भिंसनो, सो एव भिंसनकोति आह ‘‘भयजनको’’ति. देवभेरियोति देवदुन्दुभिसद्दस्स परियायवचनमत्तं, न चेत्थ काचि भेरी देवदुन्दुभीति अधिप्पेता, अथ खो उप्पातभावेन लब्भमानो आकासतो निग्घोससद्दो. तेनाह ‘‘देवो’’तिआदि. देवोति मेघो. तस्स हि तदा अच्छभावेन आकासस्स वस्साभावेन सुक्खगज्जितसञ्ञिते सद्दे निच्छरन्ते देवदुन्दुभिसमञ्ञा. तेनाह ‘‘देवो सुक्खगज्जितं गज्जी’’ति.

पीतिवेगविस्सट्ठन्ति ‘‘एवं चिरतरकालं वहितो अयं अत्तभावसञ्ञितो दुक्खभारो, दानि न चिरस्सेव निक्खिपिस्सामी’’ति सञ्जातसोमनस्सो भगवा सभावेनेव पीतिवेगविस्सट्ठं उदानं उदानेति, एवं उदानेन्तेन अयम्पि अत्थो साधितो होतीति दस्सनत्थं अट्ठकथायं ‘‘कस्मा’’तिआदि वुत्तं.

तुलीयतीति तुलन्ति तुल-सद्दो कम्मसाधनोति दस्सेतुं ‘‘तुलित’’न्ति वुत्तं. अप्पानुभावताय परिच्छिन्नं. तथा हि तं पटिपक्खेन परितो खण्डितभावेन परित्तन्ति वुच्चति. पटिपक्खविक्खम्भनतो दीघसन्तानताय विपुलफलताय च न तुलं न परिच्छिन्नं. येहि कारणेहि पुब्बे अविसेसतो ‘‘महग्गतं अतुल’’न्ति वुत्तं, तानि कारणानि रूपावचरतो आरुप्पस्स सातिसयं विज्जन्तीति अरूपावचरं अतुलन्ति वुत्तं, इतरञ्च तुलन्ति. अप्पविपाकन्ति तीसुपि कम्मेसु यं अप्पविपाकं हीनं, तं तुलं. बहुविपाकन्ति यं महाविपाकं पणीतं, तं अतुलं. यं पनेत्थ मज्झिमं, तं हीनं उक्कट्ठन्ति द्विधा भिन्दित्वा द्वीसु भागेसु पक्खिपितब्बं. हीनत्तिकवण्णनायं वुत्तनयेनेव अप्पबहुविपाकतं निद्धारेत्वा तस्स वसेन तुलातुलभावो वेदितब्बो. सम्भवति एतस्माति सम्भवोति आह ‘‘सम्भव^ हेतुभूत’’न्ति. नियकज्झत्तरतोति ससन्तानधम्मेसु विपस्सनावसेन गोचरासेवनाय च रतो. सविपाकं समानं पवत्तिविपाकमत्तदायिकम्मं सविपाकट्ठेन सम्भवं, न च तं कामादि^ भवाभिसङ्खारकन्ति ततो विसेसनत्थं सम्भवन्ति वत्वा ‘‘भवसङ्खार’’न्ति वुत्तं. ओस्सजीति अरियमग्गेन अवस्सजि. कवचं विय अत्तभावं परियोनन्धित्वा ठितं अत्तनि सम्भूतत्ता अत्तसम्भवं किलेसञ्च अभिन्दीति किलेसभेदसहभाविकम्मोस्सज्जनं दस्सेन्तो तदुभयस्स कारणमाह ‘‘अज्झत्तरतो समाहितो’’ति.

पठमविकप्पे अवसज्जनमेव वुत्तं. एत्थ अवसज्जनाकारोति तं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. तत्थ तीरेन्तोति ‘‘उप्पादो भयं, अनुप्पादो खेम’’न्तिआदिना वीमंसन्तो. तुलेन्तो तीरेन्तोतिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘पञ्चक्खन्धा’’तिआदिं वत्वा भवसङ्खारस्स अवसज्जनाकारं सरूपतो दस्सेति. एवन्तिआदिना पन उदानगाथावण्णनायं आदितो वुत्तमत्थं निगमनवसेन दस्सेति. अभीतभावञापनत्थञ्चाति अयम्पि अत्थो सङ्गहितोति दट्ठब्बं.

चापालवग्गवण्णना निट्ठिता.