७. बोधिपक्खियवग्गवण्णना

५३१-६५०. सत्तानं फलानं हेतुभूतानि ‘‘इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं भावितत्ता’’तिआदिना वुत्तानि, पञ्चिन्द्रियानियेव फलूपचारेन ‘‘सत्त फलानी’’ति वुत्तानि. तानि च पुब्बभागानि ‘‘इमेसं, भिक्खवे, पञ्चन्नं इन्द्रियानं भावितत्ता…पे… सत्तानिसंसा पाटिकङ्खा’’ति वचनतो. तेसन्ति सत्तानं फलानं. ‘‘द्विन्नं फलानं अञ्ञतरं फल’’न्ति एवं अतीतसुत्ते वुत्तानि हेट्ठा द्वे फलानि नामाति वदन्ति. येहि पन इन्द्रियेहि अञ्ञत्र पन अन्तरापरिनिब्बायिं सेसानि फलानि होन्ति, तानि चत्तारि सपुब्बभागानि लोकुत्तरानीति वुत्तं सिया.

इन्द्रियसंयुत्तवण्णना निट्ठिता.