४. सालसुत्तवण्णना

३७०. यथानुसिट्ठं पटिपज्जमाने अपायदुक्खे अपातनवसेन धारणट्ठेन धम्मो, सासनब्रह्मचरियं, तदेव तदङ्गादिवसेन किलेसानं विनयनट्ठेन विनयोति आह – ‘‘धम्मोति वा…पे… नाम’’न्ति. पटिपक्खधम्मेहि अनभिभूतताय एको उदेतीति एकोदीति लद्धनामो समाधि भूतो जातो एतेसन्ति एकोदिभूता. एत्थ च एकोदिभूताति एतेन उपचारज्झानावहो पुब्बभागिको समाधि वुत्तो. समाहिताति एतेन उपचारप्पनासमाधि. एकग्गचित्ताति एतेन सुभावितो वसिप्पत्तो अप्पनासमाधि वुत्तोति वेदितब्बो. नवकभिक्खूहि भावितसतिपट्ठाना पुब्बभागा. ते हि यथाभूतञाणाय भाविता. यथाभूतञाणन्ति हि सोतापत्तिमग्गञाणं इधाधिप्पेतं. खीणासवेहि भावितसतिपट्ठानापि पुब्बभागा. तेसञ्हि कतकरणीयानं दिट्ठधम्मसुखविहाराय सतिपट्ठानभावना, सेक्खानं पन सतिपट्ठानभावना परिञ्ञत्थाय पवत्ता लोकिया, परिजाननवसेन पवत्ता लोकुत्तराति ‘‘मिस्सका’’ति वुत्तं.