५. पपातवग्गो
१. लोकचिन्तासुत्तवण्णना
११११. लोकचिन्तन्ति लोकसन्निवेसपटिसंयुत्तवीमंसाव. ‘‘लोकचित्त’’न्तिपि पाठो, तंतंलोकपरियापन्नं चित्तन्ति अत्थो. नाळिकेरादयोति आदि-सद्देन अवुत्तानं ओसधितिणवनप्पतिआदीनं सङ्गहो. एवरूपन्ति एदिसं अञ्ञम्पि तंतंलोकचित्तं.
विगतचित्तोति अत्तत्थपरत्थतो अपगतवितक्को अद्दस एवं अधिट्ठहिंसूति सम्बन्धो. सम्बरिमायन्ति सम्बरेन असुरिन्देन उप्पादितं असुरमायं, यं ‘‘इन्दजाल’’न्तिपि वुच्चति इन्दस्स मोहनत्थं उप्पादितत्ता. सम्परिवत्तेत्वाति परिधावेत्वा. यथा नेति ने असुरे यथा सो पुरिसो पस्सति, एवं अधिट्ठहिंसु. कस्मा पनेते एवं अधिट्ठहिंसूति? तं पुरिसं तत्थ तथानिसिन्नं दिस्वा ‘‘अयञ्च देवो’’ति आसङ्कन्ता तथा अधिट्ठहित्वा भिसमुळालछिद्देहि पविसित्वा अत्तनो असुरभवनं गता. तेनाह भगवा – ‘‘देवानंयेव मोहयमाना’’ति.
२-३. पपातसुत्तादिवण्णना
१११२-३. मरियादपासाणोति गिज्झकूटपब्बतस्स मरियादपाकारसदिसो महन्तो पासाणो. अनिट्ठरूपन्ति एत्थ रूप-सद्दो सभावत्थो ‘‘पियरूपे सातरूपे’’तिआदीसु (म. नि. १.४०८-४०९) वियाति आह – ‘‘अनिट्ठसभाव’’न्ति.
५. वालसुत्तवण्णना
१११५. उपासनन्ति आचरियउपासनं, आचरियं अन्तेवासिना वा दिवसे दिवसे सिक्खनवसेन उपासितब्बतो उपासनन्ति लद्धनामं कण्डखिपनसिप्पं. कण्डं अतिक्कमन्तेति सरं खिपन्ते. पोङ्खानुपोङ्खन्ति पोङ्खसद्दत्थं पाकटं कत्वा दस्सेतुं ‘‘एकं कण्डं खिपित्वा’’तिआदि वुत्तं. अपरं अनुपोङ्खन्ति एत्थ अपरन्ति ततियकण्डं. अनुपोङ्खं नाम इदन्ति दस्सेतुं ‘‘अनुपोङ्खं नाम दुतियस्स पोङ्ख’’न्ति वुत्तं. तञ्हि ततियेन सरेन विज्झीयति. पुन अपरं तस्स पोङ्खन्ति इदं पन अपरापरं अविरज्झनं दस्सेतुं वुत्तं. दुरभिसम्भवतरन्ति अभिभवितुं असक्कुणेय्यतरं. वालन्ति केसं. सत्तधा भिन्दित्वाति सत्तक्खत्तुं विफालेत्वा. तस्स एकं भेदन्ति तस्स केसस्स एकं अंसुसङ्खातं भेदं गहेत्वा. वातिङ्गणमज्झे बन्धित्वाति वातिङ्गणफलस्स मज्झट्ठाने बन्धित्वा. अपरं भेदन्ति अपरं केसस्स अंसुसङ्खातं भेदं. अग्गकोटियं बन्धित्वाति यथा तस्स वालभेदस्स ऊकामत्तं लिखामत्तं वा कण्डस्स अग्गकोटिं अधिकं हुत्वा तिट्ठति, एवं बन्धित्वा. उसभमत्तेति वीसतियट्ठिमत्ते ठाने ठितो. कण्डबद्धाय कोटियाति कण्डबद्धाय वालस्स कोटिया वातिङ्गणबन्धनवालस्स कोटिं पटिविज्झेय्य.
८. दुतियछिग्गळयुगसुत्तवण्णना
१११८. अधिच्चुप्पत्तिकन्ति यदिच्छावसेन उप्पज्जनकं. छिग्गळेनाति छिग्गळपदेसेन. छिग्गळुपरीति हेट्ठिमयुगस्स छिग्गळपदेसस्स उपरि. आरुळ्हस्स छिग्गळेनाति उभिन्नम्पि छिद्देन. गीवप्पवेसनं वियाति चतुन्नं युगानं छिद्दपदेसेनेव उपरूपरि ठितानं छिद्दन्तरेन काणकच्छपस्स गीवप्पवेसनं अधिच्चतरसम्भवं. ततोपि अधिच्चतरसम्भवो मनुस्सत्तलाभो, ततो अधिच्चतमसम्भवो अरियमग्गपटिलाभोति दस्सेन्तो आह ‘‘चतुसच्चपटिवेधो अतिविय अधिच्चतरसम्भवो’’ति.
पपातवग्गवण्णना निट्ठिता.