२. धम्मचक्कप्पवत्तनवग्गो

१. धम्मचक्कप्पवत्तनसुत्तवण्णना

१०८१. ‘‘इसीनं पतनुप्पतनवसेन ओसीदनउप्पतनट्ठानवसेन एवं ‘इसिपतन’न्ति ‘लद्धनामे’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘एत्थ ही’’’तिआदि वुत्तं.

आमन्तेसीति एत्थ यस्मा धम्मचक्कप्पवत्तनत्थं अयं आमन्तना, तस्मा समुदागमतो पट्ठाय सत्थु पुब्बचरितं सङ्खेपेनेव पकासेतुं वट्टतीति ‘‘दीपङ्करपादमूले कताभिनीहारतो पट्ठाया’’तिआदि आरद्धं. तत्थ मारबलं भिन्दित्वाति मारञ्च मारबलञ्च भञ्जित्वा. अथ वा मारस्स अब्भन्तरं बाहिरञ्चाति दुविधं बलं भञ्जित्वा. ‘‘द्वेमे, भिक्खवे, अन्ता’’ति एत्थ अन्त-सद्दो ‘‘पुब्बन्ते ञाणं अपरन्ते ञाण’’न्तिआदीसु (ध. स. १०६३) विय भागपरियायोति आह ‘‘द्वे इमे, भिक्खवे, कोट्ठासा’’ति. सह समुदाहारेनाति उच्चारणसमकालं. पत्थरित्वा अट्ठासि बुद्धानुभावेन. ब्रह्मानो समागच्छिंसु परिपक्ककुसलमूला सच्चाभिसम्बोधाय कताधिकारा.

गिहिसञ्ञोजनन्ति गिहिबन्धनं. छिन्दित्वाति हरित्वा. न वळञ्जेतब्बाति नानुयुञ्जेतब्बा. किलेसकामसुखस्साति किलेसकामयुत्तस्स सुखस्स. अनुयोगोति अनुभवो. गामवासीहि सेवितब्बत्ता गामवासीनं सन्तको. अत्तनोति अत्तभावस्स. आहितो अहंमानो एत्थाति अत्ता, अत्तभावो. दुक्खकरणन्ति दुक्खुप्पादनं. अत्तमारणेहीति अत्तबाधनेहि. उपसमायाति किलेसवूपसमो अधिप्पेतो, तदत्थसम्पदानवचनन्ति आह ‘‘किलेसूपसमत्थाया’’ति. एस नयो सेसेसुपि.

सच्चञाणादिवसेन तयो परिवट्टा एतस्साति तिपरिवट्टं, ञाणदस्सनं. तेनाह ‘‘सच्चञाणा’’तिआदि. यथाभूतं ञाणन्ति पटिवेधञाणं आह. तेसुयेव सच्चेसु. ञाणेन कत्तब्बस्स च परिञ्ञापटिवेधादिकिच्चस्स च जाननञाणं, ‘‘तञ्च खो पटिवेधतो पगेवा’’ति केचि. पच्छाति अपरे. तथा कतञाणं. द्वादसाकारन्ति द्वादसविधआकारभेदं. अञ्ञत्थाति अञ्ञेसु सुत्तेसु.

पटिवेधञाणम्पि देसनाञाणम्पि धम्मचक्कन्ति इदं तत्थ ञाणकिच्चं पधानन्ति कत्वा वुत्तं. सद्धिन्द्रियादिधम्मसमुदायो पन पवत्तनट्ठेन चक्कन्ति धम्मचक्कं. अथ वा चक्कन्ति आणा, धम्मतो अनपेतत्ता धम्मञ्च तं चक्कञ्च, धम्मेन ञायेन चक्कन्तिपि धम्मचक्कं. यथाह ‘‘धम्मञ्च पवत्तेति चक्कञ्चाति धम्मचक्कं, चक्कञ्च पवत्तेति धम्मञ्चाति धम्मचक्कं, धम्मेन पवत्ततीति धम्मचक्कं, धम्मचरियाय पवत्ततीति धम्मचक्क’’न्तिआदि (पटि. म. २.४०-४१). उभयम्पीति पटिवेधञाणं देसनाञाणन्ति उभयम्पि. एतन्ति तदुभयं. इमाय देसनायाति इमिना सुत्तेन पकासेन्तेन भगवता यथावुत्तञाणद्वयसङ्खातं धम्मचक्कं पवत्तितं नाम पवत्तनकिच्चस्स अनिट्ठितत्ता. पतिट्ठितेति अञ्ञासि कोण्डञ्ञत्थेरेन सोतापत्तिफले पतिट्ठिते. पवत्तितं नाम कस्सपसम्मासम्बुद्धस्स सासनन्तरधानतो पट्ठाय याव बुद्धुप्पादो, एत्तकं कालं अप्पवत्तपुब्बस्स पवत्तितत्ता, उपरिमग्गाधिगमो पनस्स अत्थङ्गतो एवाति.

एकप्पहारेनाति एकेनेव पहारसञ्ञितेन कालेन. दिवसस्स हि ततियो भागो पहारो नाम. पाळियं पन ‘‘तेन खणेन तेन लयेन तेन मुहुत्तेना’’ति वुत्तं. तं पहारक्खणसल्लक्खणमेव. सब्बञ्ञुतञ्ञाणोभासोति सब्बञ्ञुतञ्ञाणानुभावेन पवत्तो ओभासो चित्तं पटिच्च उतुसमुट्ठानो वेदितब्बो. यस्मा भगवतो धम्मचक्कप्पवत्तनस्स आरम्भे विय परिसमापने अतिविय उळारतमं पीतिसोमनस्सं उदपादि, तस्मा ‘‘इमस्सपि उदानस्सा’’तिआदि वुत्तं.

९. सङ्कासनसुत्तवण्णना

१०८९. अत्थसंवण्णने वण्णीयन्तेति वण्णा. तेयेव परियायेन अक्खरणतो अक्खरानि. अत्थं ब्यञ्जेन्तीति ब्यञ्जनानि. यस्मा पन अकारादिके सरसमञ्ञा, ककारादिके ब्यञ्जनसमञ्ञा, उभयत्थ वण्णसमञ्ञा, तस्मा वुत्तं ‘‘वण्णानं वा एकदेसा यदिदं ब्यञ्जना नामा’’ति. नेत्तियं पन वाक्ये ब्यञ्जनसमञ्ञा. ब्यञ्जनग्गहणेनेव चेत्थ आकारनिरुत्तिनिद्देसा गहिता एवाति दट्ठब्बं. सङ्कासनाति अत्थस्स ञापना भागसो. तेनाह ‘‘विभत्तियो’’ति. सङ्कासनग्गहणेनेव चेत्थ पकासना वुत्ता होति. विभत्तियो हि अत्थवचनेनेव विवरन्ति, ताहि कारणपञ्ञत्तियो वुत्तायेवाति, ताहिपि अत्थपदानि गहितानेव होन्ति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गवण्णनायं नेत्तिअट्ठकथायञ्च वुत्तनयेन वेदितब्बो. सब्बाकारेनाति सभागादिविभावनाकारेन. वण्णादीनन्ति तस्मिं पन वित्थारे पवत्तवण्णादीनं. तस्माति वण्णादीनं अन्तअभावतो. एवमाहाति ‘‘अपरिमाणा वण्णा ब्यञ्जना सङ्कासना’’ति एवमाह.

१०. तथसुत्तवण्णना

१०९०. सभावाविजहनट्ठेनाति अत्तनो दुक्खसभावस्स कदाचिपि अपरिच्चजनेन तथसभावं. तेनाह ‘‘दुक्खञ्हि दुक्खमेव वुत्त’’न्ति. सभावस्साति दुक्खसभावस्स. अमोघतायाति अवञ्झताय. अवितथन्ति न वितथं. तेनाह ‘‘न हि दुक्खं अदुक्खं नाम होती’’ति. अञ्ञभावानुपगमेनाति समुदयादिसभावानुपगमनेन मुसा न होतीति अञ्ञो अञ्ञथा न होतीति अनञ्ञथं. तेनाह ‘‘न ही’’तिआदि.

धम्मचक्कप्पवत्तनवग्गवण्णना निट्ठिता.