५. दुतियसरणानिसक्कसुत्तवण्णना

१०२१. दुक्खेत्तं निरोजकं, ताय एव दुक्खेत्तताय विसमं होतीति आह ‘‘विसमखेत्त’’न्ति. लोणूपहतन्ति जातसभावेन लोणेन ऊसरेन उपहतं. खण्डानीति खण्डितानि. तेमेत्वाति तेमितत्ता. वातातपहतानीति चिरकालं वातेन चेव आतपेन च उपहतानि आबाधितानि.