३. गोधसक्कसुत्तवण्णना

१०१९. तीहीति रतनत्तये उप्पन्नेहि तीहि पसादधम्मेहि. चतूहीति तेहि एव सद्धिं सीलेन. कोचिदेवातिआदि परिकप्पवसेन वुत्तं भगवति अत्तनो सद्धाय उळारतमभावदस्सनत्थं. तेनाह ‘‘भगवतो सब्बञ्ञुताया’’तिआदि. धम्मो समुप्पादोति विवादधम्मउप्पत्तिहेतु. तदेव हि सन्धायाह ‘‘किञ्चिदेव कारण’’न्ति. कारणन्ति नानाकारणं. कल्याणकुसलविमुत्तन्ति अकल्याणं अकुसलं, तदिदं यथावुत्तअप्पसादनेन अपनीतअत्थदस्सनत्थं. अस्साति महानामसक्कस्स. अनवज्जनदोसो एसोति चतूसु धम्मेसु एकेनपि समन्नागतो सोतापन्नो होतीति अनुजानित्वा चतूहिपि समन्नागतेन आचिक्खितब्बन्ति याथावतो अनवज्जनदोसोति अत्थो.