६. ओवादसुत्तवण्णना
१४९. अत्तनो ठानेति सब्रह्मचारीनं ओवादकविञ्ञापकभावेन अत्तनो महासावकट्ठाने ठपनत्थं. अथ वा यस्मा ‘‘अहं दानि न चिरं ठस्सामि, तथा सारिपुत्तमोग्गल्लाना, अयं पन वीसंवस्सतायुको, ओवदन्तो अनुसासन्तो ममच्चयेन भिक्खूनं मया कातब्बकिच्चं करिस्सती’’ति अधिप्पायेन भगवा इमं देसनं आरभि. तस्मा अत्तनो ठानेति सत्थारा कातब्बओवाददायकट्ठाने. तेनाह ‘‘एवं पनस्सा’’तिआदि. यथाह भगवा ‘‘ओवद, कस्सप…पे… त्वं वा’’ति. दुक्खेन वत्तब्बा अप्पदक्खिणग्गाहिभावतो. दुब्बचभावकरणेहीति कोधूपनाहादीहि. अनुसासनिया पदक्खिणग्गहणं नाम अनुधम्मचरणं, छिन्नपटिपत्ति कता वामग्गाहो नामाति आह ‘‘अनुसासनि’’न्तिआदि. अतिक्कम्म वदन्तेति अञ्ञमञ्ञं अतिक्कमित्वा अतिमञ्ञित्वा वदन्ते. बहुं भासिस्सतीति धम्मं कथेन्तो को विपुलं कत्वा कथेस्सति. असहितन्ति पुब्बेनापरं नसहितं हेतुपमाविरहितं. अमधुरन्ति न मधुरं न कण्णसुखं न पेमनीयं. लहुञ्ञेव उट्ठाति अप्पवत्तनेन कूलट्ठानं विय तस्स कथनं.
ओवादसुत्तवण्णना निट्ठिता.