६. लकुण्डकभद्दियसुत्तवण्णना

२४०. विरूपसरीरवण्णन्ति असुन्दरछविवण्णञ्चेव असुन्दरसण्ठानञ्च. पमाणवसेनाति सरीरप्पमाणवसेन. इच्छितिच्छितन्ति अत्तना इच्छितिच्छितं. महासारज्जन्ति महन्तो मङ्कुभावो.

गुणे आवज्जेत्वाति अत्तना जाननकनियामेन सत्थुनो कायगुणे च चारित्तगुणे च आवज्जेत्वा मनसि कत्वा.

योजनावट्टन्ति योजनपरिक्खेपं.

‘‘कायस्मी’’ति गाथासुखत्थं निरनुनासिकं कत्वा निद्देसोति वुत्तं ‘‘कायस्मि’’न्ति. अकारणं कायप्पमाणन्ति सरीरप्पमाणं नाम अप्पमाणं, सीलादिगुणाव पमाणन्ति अधिप्पायो.

लकुण्डकभद्दियसुत्तवण्णना निट्ठिता.