३. घटसुत्तवण्णना
२३७. परिवेणग्गेनाति परिवेणभागेन. केचि ‘‘एकविहारेति एकच्छन्ने एकस्मिं आवासे’’ति वदन्ति. तेति ते द्वेपि थेरा. पाटियेक्केसु ठानेसूति विसुं विसुं ठानेसु. निसीदन्तीति दिवाविहारं निसीदन्ति. ओळारिको नाम जातो परित्तधम्मारम्मणत्ता तस्स. तेति थेरो भगवा च.
परिपुण्णवीरियोति चतुकिच्चसाधनवसेन सम्पुण्णवीरियो. पग्गहितवीरियोति ईसकम्पि सङ्कोचं अनापज्जित्वा पवत्तितवीरियो. उपनिक्खेपनमत्तस्सेवाति समीपे ठपनमत्तस्सेव.
चतुभूमकधम्मेसु लब्भमानत्ता पञ्ञाय ‘‘चतुभूमकधम्मे अनुपविसित्वा ठितट्ठेना’’ति वुत्तं. लक्खितब्बट्ठेन समाधि एव समाधिलक्खणं. एवं विपस्सनालक्खणं वेदितब्बं. अञ्ञमञ्ञस्साति अञ्ञस्स अञ्ञस्स नानालक्खणाति वेदितब्बं. अञ्ञस्साति इतरस्स. धुरन्ति वहितब्बभारं. द्वीसुपि एतेसूति समाधिलक्खणविपस्सनालक्खणेसु सम्मासम्बुद्धो निप्फत्तिं गतो.
घटसुत्तवण्णना निट्ठिता.