११. महाकप्पिनसुत्तवण्णना
२४५. महाकप्पिनोति पूजावचनमेतं यथा ‘‘महामोग्गल्लानो’’ति. तथारूपन्ति ‘‘बुद्धो धम्मो’’तिआदिकं गुणविसेसवन्तपटिबद्धं. सासनन्ति देसन्तरतो आगतवचनं. जङ्घवाणिजाति जङ्घचारिनो वाणिजा. किञ्चि सासनन्ति अपुब्बपवत्तिदीपकं किञ्चि वचनन्ति पुच्छि. पीति उप्पज्जि यथा तं सुचिरं कताभिनीहारताय परिपक्कञाणस्स. अपरिमाणं गुणस्स अपरिमाणतो सब्बञ्ञुगुणपरिदीपनतो, सेसरतनद्वये निय्यानिकभावदीपनतो दिट्ठिसीलसामञ्ञेन संहतभावदीपनतोति वत्तब्बं. यथानुसिट्ठं पटिपज्जमाने अपायदुक्खतो संसारदुक्खतो च अपतन्ते धारेतीति धम्मो. सुपरिसुद्धदिट्ठिसीलसामञ्ञेन संहतोति सङ्घोति. रतनत्थो पन तिण्णम्पि सदिसो एवाति.
नवसतसहस्सानि अदासि देवी. तुम्हेति राजिनिं गारवेन बहुवचनेन वदति. रागोति अनुगच्छन्तरागो.
जनितेति कम्मकिलेसेहि निब्बत्तिते. कम्मकिलेसेहि पजातत्ता पजाति पजासद्दो जनितसद्देन समानत्थोति आह – ‘‘जनिते, पजायाति अत्थो’’ति. अट्ठहि विज्जाहीति अम्बट्ठसुत्ते (दी. नि. १.२७८) आगतनयेन. तत्थ हि विपस्सनाञाणमनोमयिद्धीहि सह छ अभिञ्ञा ‘‘अट्ठ विज्जा’’ति आगता. तपति पटिपक्खविधमनेन विज्जोतति, तं सूरियस्स विरोचनन्ति आह – ‘‘तपतीति विरोचती’’ति. झानं समापज्जित्वा समाहितेन चित्तेन विपस्सनं वड्ढेत्वा फलसमापत्तिं समापज्जित्वा निसिन्नोति आह – ‘‘दुविधेन झानेन झायमानो’’ति. सब्बमङ्गलगाथाति सब्बमङ्गलाविरोधी गाथाति वदन्ति. तथा हि वदन्ति –
‘‘मङ्गलं भगवा बुद्धो, धम्मो सङ्घो च मङ्गलं;
सब्बेसम्पि च सत्तानं, स पुञ्ञवितमङ्गल’’न्ति.
पूजं कारेत्वा एकं अगारिकधम्मकथिकं उपासकं आह. एत्थ च ‘‘झायी तपती’’ति इमिना आरम्मणूपनिज्झानानं गहितत्ता धम्मरतनं गहितमेव. ‘‘ब्राह्मणो’’ति इमिना सङ्घरतनं गहितमेव. बुद्धरतनं पन सरूपेनेव गहितन्ति.
महाकप्पिनसुत्तवण्णना निट्ठिता.