१. कोलितसुत्तवण्णना
२३५. सावकानं आलापोति सावकानं सब्रह्मचारिं उद्दिस्स आलापो. बुद्धेहि सदिसा मा होमाति बुद्धाचिण्णं समुदाचारं अकथेन्तेहि सावकेहि, ‘‘आवुसो भिक्खवे’’ति आलपिता भिक्खू, ‘‘आवुसो’’ति पटिवचनं देन्ति, न, ‘‘भन्ते’’ति. दुतियज्झाने वितक्कविचारा निरुज्झन्ति तेसं निरोधेनेव तस्स झानस्स उप्पादेतब्बतो. येसं निरोधाति येसं वचीसङ्गारानं वितक्कविचारानं निरुज्झनेन सुविक्खम्भितभावेन सद्दायतनं अप्पवत्तिं गच्छति कारणस्स दूरतो पस्सम्भितत्ता. अरियोति निद्दोसो. परिसुद्धो तुण्हीभावो, न तित्थियानं मूगब्बतग्गहणं विय अपरिसुद्धोति अधिप्पायो. पठमज्झानादीनीति आदि-सद्देन ततियज्झानादीनि सङ्गण्हाति.
आरम्मणभूतेन वितक्केन सह गता पवत्ताति वितक्कसहगताति आह ‘‘वितक्कारम्मणा’’ति. वितक्कारम्मणता च सञ्ञामनसिकारानं सुखुमआरम्मणग्गहणवसेन दट्ठब्बा. तेनाह ‘‘न सन्ततो उपट्ठहिंसू’’ति. न पगुणं सम्मदेव वसीभावस्स अनापादितत्ता. सञ्ञामनसिकारापीति ततियज्झानाधिगमाय पवत्तियमाना सञ्ञामनसिकारापि हानभागियाव अहेसुं, न विसेसभागिया. सम्मा ठपेहीति बहिद्धा विक्खेपं पहाय सम्मा अज्झत्तमेव चित्तं ठपेहि. एकग्गं करोहीति तेनेव विक्खेपपटिबाहनेन अविहतमानसताय चित्तसमाधानवसेन एकग्गं करोहि. आरोपेहीति ईसकम्पि बहुम्पि अपतितं कत्वा कम्मट्ठानारम्मणे आरोपेहि. दुतियअग्गसावकभूमिया पारिपूरिया आयस्मा महाभिञ्ञो, न यथा तथाति आह ‘‘महाभिञ्ञतन्ति छळभिञ्ञत’’न्ति. इमिना उपायेनाति इमिना ‘‘अथ खो मं, आवुसो’’तिआदिना वुत्तेन उपायेन. वड्ढेत्वाति उत्तरि उत्तरि विसेसभागियभावापादनेन समाधिं पञ्ञञ्च ब्रूहेत्वा ब्रूहेत्वा.
कोलितसुत्तवण्णना निट्ठिता.