३. पेसलसुत्तवण्णना
२११. एतेसन्ति एतेसं महल्लकानं. न पाळि आगच्छति अप्पगुणभावतो. न च पाळि उपट्ठाति, एकाय पाळिया सति पाळिगतिया तथा तथा उपट्ठानम्पि नेसं नत्थीति वदति. न अट्ठकथाति एत्थापि एसेव नयो. सिथिलधनितादितंतंब्यञ्जनबुद्धिं अहापेत्वा उच्चारणं पदब्यञ्जनमधुरता. अतिक्कमित्वा मञ्ञति अञ्ञे भिक्खू. हीळनवसेन अभिभवित्वा पटिभानसुतेन अत्तानं पसंसति सम्भावेति. मानस्स पवत्तिताय सहजातनिस्सयादिपच्चयधम्मा तंसहभुधम्मा. मानवसेन विप्पटिसारी अहुवा. मा अहोसीति योजना. वण्णभणनन्ति परेहि किरियमानं गुणाभित्थवं. अखिलोति पञ्चचेतोखिलरहितो. निस्सेसं नवविधन्ति नवविधम्पि मानं कस्सचि एकदेसस्सपि असेसतो. विज्जायाति अग्गमग्गविज्जाय. अच्चन्तमेव समितताय वूपसमितताय समितावी.
पेसलसुत्तवण्णना निट्ठिता.