१. आळविकासुत्तवण्णना

१६२. आळवियं जाताति आळवियं विजायित्वा संवड्ढमाना. तेनाह ‘‘आळविनगरतोयेव च निक्खम्म पब्बजिता’’ति. धनं समादपेत्वाति चेतियस्स राजा एकं मुखं, राजपुत्तो एकं, अमच्चानं जेट्ठको हुत्वा सेनापति एकं, जनपदानं जेट्ठको हुत्वा सेट्ठि एकन्ति एवं चतूसु मुखेसु नवकम्मे कयिरमाने सेट्ठिना गहितमुखे कम्मे ओलीयमाने एको उपासको अरियसावको पञ्च सकटसतानि योजापेत्वा जनपदं गन्त्वा ‘‘यो यं दातुं उस्सहति हिरञ्ञं वा सुवण्णं वा सत्तविधरतनं वा हरितालं वा मनोसिलं वा, सो धनं देतू’’ति समादपेत्वा यथालद्धं पठमं कम्मट्ठानं पेसेत्वा ‘‘नवकम्मं निट्ठित’’न्ति सुत्वा एककं आगच्छन्तं अन्तरामग्गे चोरा पलिबुन्धित्वा ततो किञ्चिपि धनं अलभन्ता ‘‘सचे नं मुञ्चिस्साम, अनत्थं नो करेय्या’’ति जीविता वोरोपेसुं. अनपराधे अरियसावके अपराधका ते चोरा अन्धा जाता, तस्मा तं ठानं ‘‘अन्धवन’’न्ति पञ्ञायित्थाति अट्ठकथायं वुत्तं. खीणासवानं यस्मा यत्थ कत्थचि चित्तविवेको होतियेव उपधिविवेकस्स सिद्धत्ता. तस्मा ‘‘कायविवेकत्थिनी’’ति वुत्तं.

निस्सरणन्ति निब्बानं सब्बसङ्खतस्स निस्सटत्ता. पच्चवेक्खणञाणेनाति पच्चवेक्खणञाणेन, पगेव मग्गफलञाणेहीति अधिप्पायो. निब्बानपदन्ति निब्बानसङ्खातं धम्मकोट्ठासं. विनिविज्झनट्ठेनाति हदयं विनिविद्धेन हदयम्हि विज्झित्वा दुक्खुप्पादनेन खन्धानं एते पञ्च कामा सत्तिसूलसदिसा. अधिकुट्टनभण्डिकाति आघातनघटिका.

आळविकासुत्तवण्णना निट्ठिता.