९. छत्तुपाहनवग्गो
१. पठमसिक्खापद-अत्थयोजना
११८१. छत्तवग्गस्स पठमे कद्दमादीनीति चिक्खल्लादीनि. आदिसद्देन उदकादीनि सङ्गण्हाति. गच्छादीनीति खुद्दपादपादीनि. आदिसद्देन अञ्ञानिपि छत्तं धारेतुं असक्कुणेय्यानि सम्बाधट्ठानानि सङ्गण्हातीति. पठमं.
२. दुतियसिक्खापदं
११८४. दुतिये यानेनाति यन्ति इच्छितट्ठानं सुखेन गच्छन्ति अनेनाति यानन्ति. दुतियं.
३. ततियसिक्खापदं
११९१. ततिये ‘‘विप्पकिरियिंसू’’ति किरियापदस्स कत्तुना अविनाभावतो कत्तारं दस्सेतुं वुत्तं ‘‘मणयो’’ति. मणयोति च रतनानीति. ततियं.
४. चतुत्थसिक्खापदं
११९४. चतुत्थे सीसूपगादीसूति आदिसद्देन गीवूपगादयो सङ्गण्हाति. यं यन्ति अलङ्कारन्ति. चतुत्थं.
५. पञ्चमसिक्खापदं
११९९. पञ्चमे गन्धेन चाति गन्धेति अत्तनो वत्थुं सूचेति पकासेतीति गन्धो. वण्णकेन चाति विलेपनेन च. तञ्हि वण्णयति छविसोभं पकासेतीति वण्णकन्ति वुच्चति. चसद्देन समाहारद्वन्दवाक्यं दीपेतीति. पञ्चमं.
६. छट्ठसिक्खापदं
१२०२. छट्ठे अनुत्तानवचनं नत्थीति. छट्ठं.
७. सत्तमसिक्खापदं
१२०८. सत्तमे उम्मद्दनेति उप्पीळित्वा मद्दने. संबाहनेपीति पुनप्पुनं बाहनेपीति. सत्तमं.
८-१०. अट्ठमादिसिक्खापदं
१२१०. अट्ठमादीसु तीसु अनुत्तानवचनं नत्थीति. अट्ठमनवमदसमानि.
११. एकादसमसिक्खापदं
१२१४. एकादसमे अभिमुखमेवाति अभिमुखे एव. मुखस्स हि अभि अभिमुखन्ति वचनत्थो कातब्बो, सत्तमिया अंकारो. इमिना पुरतोति एत्थ तोपच्चयो भुम्मत्थे होतीति दस्सेति. उपचारन्ति द्वादसहत्थूपचारन्ति. एकादसमं.
१२. द्वादसमसिक्खापदं
१२१९. द्वादसमे ‘‘अनोकासकत’’न्तिपदस्स अयुत्तसमासभावञ्च विसेसनपरपदबाहिरसमासभावञ्च दस्सेतुं वुत्तं ‘‘अकतओकास’’न्ति. ओकासो न कतो येनाति अनोकासकतो, भिक्खु, तं. ‘‘अनियमेत्वा’’ति इमिना ‘‘अनोदिस्सा’’ति पदस्स त्वापच्चयन्तभावं दस्सेतीति. द्वादसमं.
१३. तेरसमसिक्खापदं
१२२६. तेरसमे उपचारेपीति अपरिक्खित्तस्स गामस्स परिक्खेपारहट्ठानसङ्खाते उपचारेपि.
१२२७. ‘‘अच्छिन्नचीवरिकाया’’ति सामञ्ञतो वुत्तेपि विसेसोयेवाधिप्पेतोति आह ‘‘सङ्कच्चिकचीवरमेवा’’ति. समन्ततो पुरिसानं दस्सनं कन्तीयति छिन्दीयति एत्थाति सङ्कच्चि, अधक्खकउब्भनाभिट्ठानं, सङ्कच्चे निवसितब्बन्ति संकच्चिकं, तमेव चीवरन्ति सङ्कच्चिकचीवरन्ति. तेरसमं.
छत्तुपाहनवग्गो नवमो.
सब्बानेव सिक्खापदानीति सम्बन्धो. ततोति तेहि अट्ठासीतिसतसिक्खापदेहि, अपनेत्वाति सम्बन्धो.
तत्राति तेसु खुद्दकेसु. एत्थाति दससु सिक्खापदेसूति.
भिक्खुनिविभङ्गे खुद्दकवण्णनाय
योजना समत्ता.
५. पाटिदेसनीयसिक्खापद-अत्थयोजना
खुद्दकानं अनन्तरा पाटिदेसनीया नाम अट्ठ ये धम्मा सङ्खेपेनेव सङ्गहं आरूळ्हा सङ्गीतिकारेहि, तेसं अट्ठन्नं पाटिदेसनीयनामकानं धम्मानं सङ्खेपेनेव एसा वण्णना पवत्ततेति योजना.
१२२८. यानि सब्बितेलादीनीति सम्बन्धो. हीति वित्थारो. एत्थाति अट्ठसु पाटिदेसनीयेसु. पाळिविनिमुत्तकेसूति पाळितो विनिमुत्तकेसु. सब्बेसूति अखिलेसु सब्बितेलादीसूति.
भिक्खुनिविभङ्गे पाटिदेसनीयवण्णनाय योजना समत्ता.
पनाति पक्खन्तरजोतको. ये धम्मा उद्दिट्ठाति सम्बन्धो. तेसन्ति पाटिदेसनीयानं. पुन तेसन्ति सेखियअधिकरणसमथधम्मानं.
तन्ति अत्थविनिच्छयं, विदू वदन्तीति सम्बन्धो. यकारो पदसन्धिकरो. अयं पनेत्थ योजना – तेसं पाटिदेसनीयानं अनन्तरा ये च सेखिया पञ्चसत्तति ये च धम्मा, चसद्दो लुत्तनिद्दिट्ठो, अधिकरणव्हया अधिकरणसमथनामका सत्त ये च धम्मा भगवता उद्दिट्ठा, तेसं सेखियअधिकरणसमथधम्मानं यो अत्थविनिच्छयो विभङ्गे मया वुत्तो, तादिसमेव तं अत्थविनिच्छयं भिक्खुनीनं विभङ्गेपि विदू वदन्ति यस्मा, तस्मा तेसं धम्मानं सेखियअधिकरणसमथधम्मानं या अत्थवण्णना तत्थ महाविभङ्गे विसुं मया न वुत्ता. इमा अत्थवण्णना इधापि भिक्खुनीनं विभङ्गेपि, पिसद्दो लुत्तनिद्दिट्ठो, मया न वुत्तायेवाति. नकारो द्वीसु किरियासु योजेतब्बो.
‘‘सब्बासवपहं मग्गं, पुञ्ञकम्मेन चिमिना;
उप्पादेत्वा ससन्ताने, सत्ता पस्सन्तु निब्बुति’’न्ति.
अयं गाथा एतरहि पोत्थकेसु नत्थि, टीकासु पन अत्थि. तस्मा एवमेत्थ योजना वेदितब्बा – इमिना पुञ्ञकम्मेन च विभङ्गवण्णनाय कतेन इमिना पुञ्ञकम्मेन च अञ्ञेन पुञ्ञकम्मेन च. चसद्दो हि अवुत्तसम्पिण्डनत्थो. सत्ता सब्बे सत्ता सब्बासवपहं सब्बेसं आसवानं विघातकं मग्गं अरहत्तमग्गं ससन्ताने अत्तनो नियकज्झत्ते उप्पादेत्वा जनेत्वा निब्बुतिं खन्धपरिनिब्बानं ञाणालोचनेन पस्सन्तूति.
इति समन्तपासादिकाय विनयसंवण्णनाय
भिक्खुनिविभङ्गवण्णनाय
योजना समत्ता.
जादिलञ्छितनामेन, नेकानं वाचितो मया;
भिक्खुनीनं विभङ्गस्स, समत्तो योजनानयोति.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स