१०. इन्द्रियभावनासुत्तवण्णना

४५३. एवंनामकेति ‘‘गजङ्गला’’ति एवं इत्थिलिङ्गवसेन लद्धनामके मज्झिमपदेसस्स मरियादट्ठानभूते निगमे. सुवेळु नाम निचलरुक्खोति वदन्ति. ततो अञ्ञं एवाति पन अधिप्पायेन ‘‘एका रुक्खजाती’’ति वुत्तं. चक्खुसोतानं यथासकविसयतो निवारणं दमनं इन्द्रियभावना, तञ्च खो सब्बसो अदस्सनेन असवनेनाति आह – ‘‘चक्खुना रूपं न पस्सति, सोतेन सद्दं न सुणाती’’ति. सति हि दस्सने सवने च तानि अदन्तानि अभावितानेवाति अधिप्पायो. चक्खुसोतानि च असम्पत्तग्गाहिताय दुरक्खितानीति ब्राह्मणो तेसंयेव विसयग्गहणं पटिक्खिपि. असदिसायाति अञ्ञतित्थियसमयेहि असाधारणाय. आलयन्ति कथेतुकामताकारन्ति अत्थो.

४५४. विपस्सनुपेक्खाति आरद्धविपस्सकस्स विपस्सनाञाणेन लक्खणत्तये दिट्ठे सङ्खारानं अनिच्चभावादिविचिनने मज्झत्तभूता विपस्सनासङ्खाता उपेक्खा. सा पन यस्मा भावनाविसेसप्पत्तिया हेट्ठिमेहि विपस्सनावारेहि सन्ता चेव पणीता च, पगेव चक्खुविञ्ञाणादिसहगताहि उपेक्खाहि, तस्मा आह – ‘‘एसा सन्ता एसा पणीता’’ति. अतप्पिकाति सन्तपणीतभावनारसवसेन तित्तिं न जनेति. तेनेवाह –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रती होति, सम्मा धम्मं विपस्सतो’’ति. (ध. प. ३७३);

इतीति एवं वक्खमानाकारेनाति अत्थो. अयं भिक्खूति अयं आरद्धविपस्सको भिक्खूति योजना. चक्खुद्वारे रूपारम्मणम्हीति चक्खुद्वारे आपाथगते रूपारम्मणे. मनापन्ति मनापभावेन पवत्तनकं. मज्झत्ते मनापामनापन्ति इट्ठमज्झत्ते मनापभावेन अमनापभावेन च पवत्तनकं मनापामनापं नामाति. तेनाह (‘‘नेव मनापं न अमनाप’’न्ति). इमिना मनापभावो गहितो, ‘‘नेव मनाप’’न्ति इमिना मनापभावो मज्झत्तो च उभयं एकदेसतो लब्भतीति, ‘‘मनापामनाप’’न्ति वुत्तं. एवं आरम्मणे लब्भमानविसेसवसेन तदारम्मणस्स चित्तस्स पाकतिकं पवत्तिआकारं दस्सेत्वा इदानि तप्पटिसेधेन अरियस्स विनये अनुत्तरं इन्द्रियभावनं दस्सेतुं, ‘‘तस्स रज्जितुं वा’’तिआदि वुत्तं. तत्रायं योजना – तस्स चित्तं इट्ठे आरम्मणे रज्जितुं वा अनिट्ठे आरम्मणे दुस्सितुं वा मज्झत्ते आरम्मणे मुय्हितुं वा. अदत्वाति निसेधेत्वा. परिग्गहेत्वाति परिजाननवसेन ञाणेन गहेत्वा ञाततीरणपहानपरिञ्ञाहि परिजानित्वा. विपस्सनं मज्झत्ते ठपेतीति अनुक्कमेन विपस्सनुपेक्खं निब्बत्तेत्वा तं सङ्खारुपेक्खं पापेत्वा ठपेति. चक्खुमाति न पसादचक्खुनो अत्थितामत्तजोतनं; अथ खो तस्स अतिसयेन अत्थिताजोतनं, ‘‘सीलवा’’तिआदीसु वियाति आह – ‘‘चक्खुमाति सम्पन्नचक्खु विसुद्धनेत्तो’’ति.

४५६. ईसकं पोणेति मज्झे उच्चं हुत्वा ईसकं पोणे, न अन्तन्तेन वङ्के. तेनाह – ‘‘रथीसा विय उट्ठहित्वा ठिते’’ति.

४६१. पटिकूलेति अमनुञ्ञे आरम्मणे. अप्पटिकूलसञ्ञीति न पटिकूलसञ्ञी. तं पन अप्पटिकूलसञ्ञितं दस्सेतुं, ‘‘मेत्ताफरणेन वा’’तिआदि वुत्तं. तत्थ पटिकूले अनिट्ठे वत्थुस्मिं सत्तसञ्ञिते मेत्ताफरणेन वा धातुसो उपसंहारेन वा सङ्खारसञ्ञिते पन धातुसो उपसंहारेन वाति योजेतब्बं. अप्पटिकूलसञ्ञी विहरतीति हितेसिताय धम्मसभावचिन्तनाय च नप्पटिकूलसञ्ञी हुत्वा इरियापथविहारेन विहरति. अप्पटिकूले इट्ठे वत्थुस्मिं सत्तसञ्ञिते केसादिअसुचिकोट्ठासमत्तमेवाति असुभफरणेन वाति असुभतो मनसिकारवसेन. इदं रूपारूपमत्तं अनिच्चं सङ्खतन्ति अनिच्चतो उपसंहारेन वा. ततो एव, ‘‘दुक्खं विपरिणामधम्म’’न्ति मनसि करोन्तो पटिकूलसञ्ञी विहरति. सेसपदेसूति, ‘‘पटिकूले च अप्पटिकूले चा’’तिआदिना आगतेसु सेसेसु द्वीसु पदेसु. तत्थ हि इट्ठानिट्ठवत्थूनि एकज्झं गहेत्वा वुत्तं यथा सत्तानं पठमं पटिकूलतो उपट्ठितमेव पच्छा गहणाकारवसेन अवत्थन्तरेन वा अप्पटिकूलतो उपट्ठाति. यञ्च अप्पटिकूलतो उपट्ठितमेव पच्छा पटिकूलतो उपट्ठाति, तदुभयेपि खीणासवो सचे आकङ्खति, वुत्तनयेन अप्पटिकूलसञ्ञी विहरेय्य पटिकूलसञ्ञी वाति.

तदुभयं अभिनिवज्जेत्वाति सभावतो भावनानुभावतो च उपट्ठितं आरम्मणं पटिकूलसभावं अप्पटिकूलसभावं वाति तं उभयं पहाय अग्गहेत्वा. सब्बस्मिं वत्थुस्मिं पन, ‘‘मज्झत्तो हुत्वा विहरितुकामो किं करोती’’ति, वत्वा तत्थ पटिपज्जनविधिं दस्सेन्तो, ‘‘इट्ठानिट्ठेसु…पे… दोमनस्सितो होती’’ति आह. इदानि यथावुत्तमत्थं पटिसम्भिदामग्गपाळिया विभावेतुं, ‘‘वुत्तं हेत’’न्तिआदिमाह. तस्सत्थो हेट्ठा वुत्तनयो एव. सतोति सतिवेपुल्लप्पत्तिया सतिमा. सम्पजानोति पञ्ञावेपुल्लप्पत्तिया सम्पजानकारी. चक्खुना रूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन, चक्खुना वा करणभूतेन रूपं पस्सित्वा. नेव सुमनो होति गेहस्सितसोमनस्सपटिक्खेपेन नेक्खम्मपक्खिकाय किरियासोमनस्सवेदनाय.

इमेसु चाति ‘‘अञ्ञथा च पनानन्द, अरियस्स विनये अनुत्तरा इन्द्रियभावना होती’’तिआदिना (म. नि. ३.४५३), – ‘‘कथञ्चानन्द, सेखो होति पटिपदो’’तिआदिना (म. नि. ३.४६०); – ‘‘कथञ्चानन्द, अरियो होति भावितिन्द्रियो’’तिआदिना (म. नि. ३.४६१) च आगतेसु तिविधेसु नयेसु. मनापं अमनापं मनापामनापन्ति एत्थ मनापग्गहणेन सोमनस्सयुत्तकुसलाकुसलानं, अमनापग्गहणेन दोमनस्सयुत्तअकुसलानं, मनापामनापग्गहणेन तब्बिधुरुपेक्खायुत्तानं सङ्गहितत्ता पठमनये ‘‘संकिलेसं वट्टति, निक्किलेसं वट्टती’’ति वुत्तं. पठमनये हि पुथुज्जनस्स अधिप्पेतत्ता संकिलेसकिलेसविप्पयुत्तम्पि युज्जति. दुतियनये पन ‘‘सो…पे… अड्डीयती’’तिआदिवचनतो ‘‘पठमं संकिलेसं वट्टती’’ति वुत्तं. सेक्खस्स अधिप्पेतत्ता चस्स अप्पहीनकिलेसवसेन, ‘‘संकिलेसम्पि वट्टती’’ति वुत्तं. ततियनये अरहतो अधिप्पेतत्ता, ‘‘ततियं निक्किलेसमेव वट्टती’’ति वुत्तं. सेक्खवारे पन ‘‘चक्खुमा पुरिसो’’तिआदिका उपमा एकमेव अत्थं ञापेतुं आह. तस्मा चक्खुद्वारस्स उप्पन्ने रागादिके विक्खम्भेत्वा विपस्सनुपेक्खाय पतिट्ठानं अरिया इन्द्रियभावनाति. पठमनयो विपस्सकवसेन आगतो, दुतियो सेक्खस्स वसेन, पठमदुतियो च सेक्खपुथुज्जनानं मूलकम्मट्ठानवसेन, ततियो खीणासवस्स अरियविहारवसेन आगतो. पठमनये च पुथुज्जनस्स वसेन, दुतियनये सेक्खस्स वसेन कुसलं वुत्तं, ततियनये असेक्खस्स वसेन किरियाब्याकतं वुत्तन्ति अयं विसेसो वेदितब्बो.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

इन्द्रियभावनासुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च सळायतनवग्गवण्णना.

उपरिपण्णासटीका समत्ता.