७. सळायतनविभङ्गसुत्तवण्णना

३०४. वेदितब्बानीति एत्थ यथा विदितानि छ अज्झत्तिकानि आयतनानि वट्टदुक्खसमतिक्कमाय होन्ति, तथा वेदनं अधिप्पेतन्ति आह – ‘‘सहविपस्सनेन मग्गेन जानितब्बानी’’ति. तत्थ विपस्सनाय आरम्मणतो मग्गेन असम्मोहतो जाननं दट्ठब्बं. सेसपदेसुपि एसेव नयो. मनो सविसेसं उपविचरति आरम्मणे पवत्तति एतेहीति मनोपविचारा, वितक्कविचारा. आरम्मणे हि अभिनिरोपनानुमज्जनेहि वितक्कविचारेहि सह चित्तं पवत्तति, न तब्बिरहितं. तेनाह ‘‘वितक्कविचारा’’तिआदि. सत्ता पज्जन्ति एतेहि यथारहं वट्टं विवट्टञ्चाति सत्तपदा, गेहनिस्सिता वट्टपदा. योग्गानं दमनआचरिया योग्गाचरिया. तेनाह ‘‘दमेतब्बदमकान’’न्ति. सेसन्ति वुत्तावसेसं एकसत्ततिविधविञ्ञाणं सफस्सरूपकस्सेव अधिप्पेतत्ता.

३०५. इधाति इमिस्सं छविञ्ञाणकायदेसनायं. मनोधातुत्तयविनिमुत्तमेव मनोविञ्ञाणधातूति वेदितब्बं.

चक्खुम्हि सम्फस्सोति चक्खुं निस्साय उप्पन्नो सम्फस्सो. तेनाह – ‘‘चक्खुविञाणसम्पयुत्तसम्फस्सस्सेतं अधिवचन’’न्ति.

यथा केवलेन विञ्ञाणेन रूपदस्सनं न होति, एवं केवलेन चक्खुपसादेनपीति वुत्तं ‘‘चक्खुविञ्ञाणेना’’ति. तेन पाळियं चक्खुनाति निस्सयमुखेन निस्सितकिच्चं वुत्तन्ति दस्सेति. आरम्मणवसेनाति आरम्मणपच्चयभावेन. ‘‘उपविचरति’’च्चेव कस्मा वुत्तं, ननु तत्थ वितक्कब्यापारोपि अत्थीति? सच्चं अत्थि. सो पनेत्थ तग्गतिकोति आह – ‘‘वितक्को तंसम्पयुत्तो चा’’ति. सम्पयुत्तधम्मानम्पि उपविचरणं वितक्कविचारानंयेवेत्थ किच्चन्ति ‘‘वितक्कविचारसङ्खाता मनोपविचारा’’ति वुत्तं. सोमनस्सयुत्तो उपविचारो सोमनस्सूपविचारो यथा ‘‘आजञ्ञरथो’’ति आह ‘‘सोमनस्सेन सद्धि’’न्तिआदि.

३०६. उपविचारानं उपस्सयट्ठेन गेहं वियाति गेहं, रूपादयोति आह – ‘‘गेहस्सितानीति कामगुणनिस्सितानी’’ति. निच्चसञ्ञादिनिक्खमनतो नेक्खम्मं विपस्सनाति, ‘‘नेक्खम्मस्सितानीति विपस्सनानिस्सितानी’’ति वुत्तं. इट्ठानन्ति कसिवणिज्जादिवसेन परियिट्ठानन्ति आह ‘‘परियेसितान’’न्ति. पियभावो पन कन्तसद्देनेव कथितोति कामितब्बानं मनो रमेतीति मनोरमानं. लोकेन आमसीयतीति लोकामिसं, तण्हा. ताय गहेतब्बताय इट्ठभावापादनेन पटिसङ्खतताय च पटिसंयुत्तानं. अतीते कतं उप्पज्जति आरम्मणिकअनुभवनस्स असम्भवतोति अधिप्पायो. एदिसं अनुस्सरणं दिट्ठग्गहणानुस्सरेन च होतीति दस्सेतुं, ‘‘यथाह’’न्तिआदि वुत्तं.

अनिच्चाकारन्ति हुत्वा अभावाकारं. विपरिणामविरागनिरोधन्ति जराय मरणेन चाति द्वेधा विपरिणामेतब्बञ्चेव, ततो एव पलोकितं भङ्गञ्च. अट्ठकथायं पन यस्मा उप्पन्नं रूपं तेनेवाकारेन न तिट्ठति, अथ खो उप्पादावत्थासङ्खातं पकतिं विजहति, विजहितञ्च जरावत्थाय ततो विगच्छति, विगच्छन्तञ्च भङ्गुप्पत्तिया निरुज्झतीति इमं विसेसं दस्सेतुं, ‘‘पकतिविजहनेना’’तिआदि वुत्तं. कामञ्चेत्थ ‘‘यथाभूतं सम्मप्पञ्ञाय पस्सतो’’ति वुत्तं, अनुबोधञाणं पन अधिप्पेतं वीथिपटिपन्नाय विपस्सनाय वसेनाति ‘‘विपस्सनापञ्ञाया’’ति वुत्तं उपविचारनिद्देसभावतो. तथा हि वक्खति – ‘‘छसुद्वारेसु इट्ठारम्मणे आपाथगते’’तिआदि. सङ्खारानं भेदं पस्सतोति सब्बेसं सङ्खारानं खणे खणे भिज्जनसभावं वीथिपटिपन्नेन विपस्सनाञाणेन पस्सतो. तेनाह ‘‘सङ्खारगतम्हि तिक्खे’’तिआदि. तत्थ सङ्खागतम्हीति सङ्खारगते विसयभूते. तिक्खेति भावनाबलेन इन्द्रियानञ्च समताय तिब्बे. सूरेति पटिपक्खेहि अनभिभूतताय, तेसञ्च अभिभवनसमत्थताय विसदे पटुभूते पवत्तन्ते.

किलेसानं विक्खम्भनवसेन वूपसन्तताय सन्तचित्तस्स, संसारे भयस्स इक्खनतो भिक्खुनो, उत्तरिमनुस्सधम्मसन्निस्सितत्ता अमानुसी रतीति विवेकरति नेक्खम्मरति. यतो यतोति यथा यथा नयविपस्सनादीसु येन येन सम्मसनाकारेनाति अत्थो. खन्धानं उदयब्बयन्ति पञ्चुपादानक्खन्धानं उप्पादञ्च भङ्गञ्च. अमतन्तं विजानतन्ति विजानन्तानं विञ्ञूनं आरद्धविपस्सनानं तं पीतिपामोज्जं अमताधिगमहेतुताय अमतन्ति वेदितब्बं.

छसु द्वारेसु इट्ठारम्मणे आपाथगतेति रूपादिवसेन छब्बिधे इट्ठारम्मणे यथारहं छसु द्वारेसु आपाथगते. विसये चेतं भुम्मवचनं.

३०७. पच्चुप्पन्नन्ति सन्ततिपच्चुप्पन्नं. अनुत्तरविमोक्खो नाम अरहत्तं इध अधिप्पेतं उक्कट्ठनिद्देसेन. कथं पन तत्थ पिहं उपट्ठपेति, न हि अधिगतं अरहत्तं आरम्मणं होति, न च तं आरब्भ पिहा पवत्ततीति? को वा एवमाह – ‘‘अरहत्तं आरम्मणं कत्वा पिहं उपट्ठपेती’’ति. अनुस्सुतिलद्धं पन परिकप्पसिद्धं अरहत्तं उद्दिस्स पत्थनं ठपेति, तत्थ चित्तं पणिदहति. तेनाह भगवा – ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामी’’ति. आयतनन्ति अरहत्तमेव छळङ्गसमन्नागमादिकारणभावतो, मनायतनधम्मायतनभावतो च तथा वुत्तं, तं पनेतं दोमनस्सं पत्थनं पट्ठपेन्तस्स उप्पज्जति पत्थनाय सहावत्तनतो. न हि लोभदोसानं सह वुत्ति अत्थि. पत्थनामूलकत्ताति इमिना उपट्ठापयतो पदस्स हेतुअत्थजोतकतमाह. एवन्ति ‘‘कुदास्सुनामा’’तिआदिना वुत्ताकारेन. उस्सुक्कापेतुन्ति यथा मग्गेन घटेति, एवं उस्सुक्कापेतुं.

३०८. अञ्ञाणुपेक्खाति अञ्ञाणसहिता उपेक्खा असमपेक्खनपवत्ता. तेन तेन मग्गोधिना तस्स तस्स अपायगमनीयकिलेसोधिस्स अनवसेसतो जितत्ता खीणासवो निप्परियायतो ओधिजिनो नाम; तदभावतो पुथुज्जनो निप्परियायतोव अनोधिजिनो नाम; सेखो पन सिया परियायतो ओधिजिनोति. तम्पि निवत्तेन्तो, ‘‘अखीणासवस्साति अत्थो’’ति आह. आयतिं विपाकं जिनित्वाति अप्पवत्तिकरणवसेन सब्बसो आयतिं विपाकं जिनित्वा ठितत्ता खीणासवोव निप्परियायतो विपाकजिनो नाम; तदभावतो पुथुज्जनो निप्परियायतो अविपाकजिनो नाम; सेखो पन सिया परियायतो विपाकजिनोति. तम्पि निवत्तेन्तो ‘‘अखीणासवस्सेवाति अत्थो’’ति आह. अपस्सन्तस्स रूपन्ति पाळितो पदं आनेत्वा सम्बन्धितब्बं. पाळियं पुब्बे ‘‘पुथुज्जनस्सा’’ति वत्वा पुन ‘‘अस्सुतवतो पुथुज्जनस्सा’’ति वचनं अन्धपुथुज्जनस्सायं उपेक्खा, न कल्याणपुथुज्जनस्साति दस्सनत्थं. गेहस्सिता उपेक्खा हि यं किञ्चि आरम्मणवत्थुं अपेक्खस्सेव, न निरपेक्खस्साति इट्ठे, इट्ठमज्झत्ते वा आरम्मणे सियाति वुत्तं ‘‘इट्ठारम्मणे आपाथगते’’ति. अञ्ञाणेन पन तत्थ अज्झुपेक्खनाकारप्पत्ति होति. तेनाह ‘‘गुळपिण्डके’’तिआदि.

इट्ठे अरज्जन्तस्स अनिट्ठे अदुस्सन्तस्साति इदं येभुय्येन सत्तानं इट्ठे रज्जनं, अनिट्ठे दुस्सनन्ति कत्वा वुत्तं. अयोनियोमनसिकारो हि तंतंआरम्मणवसेन न कत्थचिपि जवननियमं करोतीति वुत्तविपरीतेपि आरम्मणे रज्जनदुस्सनं सम्भवति, तथापिस्स रज्जनदुस्सनं अत्थतो पटिक्खित्तमेवाति दट्ठब्बं. असमपेक्खनेति असमं अयुत्तदस्सने अयोनिसो सम्मोहपुब्बकं आरम्मणस्स गहणे.

३०९. पवत्तनवसेनाति उप्पादनवसेन चेव बहुलीकरणवसेन च. निस्साय चेव आगम्म चाति आगमनट्ठानभूते निस्सयपच्चयभूते च कत्वा. अतिक्कन्तानि नाम होन्ति विक्खम्भनेन उस्सारेन्ता समुस्सारेन्ता.

सोमनस्सभावसामञ्ञं गहेत्वा, ‘‘सरिक्खकेनेव सरिक्खकं जहापेत्वा’’ति वुत्तं. इधापि पहायकं नाम पहातब्बतो बलवमेव, संकिलेसधम्मानं बलवभावतो सातिसयं पन बलवभावं सन्धाय ‘‘इदानि बलवता’’तिआदि वुत्तं. बलवभावतो वोदानधम्मानं अधिगमस्स अधिप्पेतत्ता हेत्थ नेक्खम्मस्सितदोमनस्सानम्पि पहानं जोतितं.

उपेक्खाय पहायकभावेन अधिप्पेतत्ता ‘‘उपेक्खाकथा वेदितब्बा’’ति वुत्तं. झानस्स अलाभिनो च लाभिनो च पकिण्णकसङ्खारसम्मसनं सन्धाय, ‘‘सुद्धसङ्खारे च पादके कत्वा’’ति. उपेक्खासहगताति भावनाय पगुणभावं आगम्म कदाचि अज्झुपेक्खनवसेनपि हि सम्मसनं होतीति. पादकज्झानवसेन, सम्मसितधम्मवसेन वा आगमनविपस्सनाय बहुलं सोमनस्ससहगतभावतो ‘‘वुट्ठानगामिनी पन विपस्सना सोमनस्ससहगतावा’’ति नियमेत्वा वुत्तं. उपेक्खासहगता होतीति एत्थापि एसेव नयो. चतुत्थज्झानादीनीति आदि-सद्देन अरूपज्झानानि सङ्गण्हाति. पुरिमसदिसावाति पुरिमसदिसा एव, उपेक्खासहगता वा होति सोमनस्ससहगता वाति अत्थो. इदं सन्धायाति यं चतुत्थज्झानादिपादकतो एव उपेक्खासहगतं वुट्ठानगामिनिविपस्सनं निस्साय सोमनस्ससहगताय विपस्सनाय पहानं, इदं सन्धाय. पहानन्ति चेत्थ समतिक्कमलक्खणं वेदितब्बं.

एतं विसेसं विपस्सनाय आवज्जनट्ठानभूतं. वुट्ठानगामिनिया आसन्ने समापन्नज्झानविपस्सना पादकज्झानविपस्सना, सम्मसितधम्मोति विपस्सनाय आरम्मणभूता खन्धा. पुग्गलज्झासयोति पादकज्झानस्स सम्मसितज्झानस्स च भेदे सति पटिपज्जनकस्स पुग्गलस्स, ‘‘अहो वत मय्हं पञ्चङ्गिकं झानं भवेय्य चतुरङ्गिक’’न्तिआदिना पुब्बे पवत्तअज्झासयो. तेसम्पि वादेति एत्थ पठमथेरवादे. अयमेव…पे… नियमेति ततो ततो दुतियादिपादकज्झानतो उप्पन्नस्स सङ्खारुपेक्खाञाणस्स पादकज्झानातिक्कन्तानं अङ्गानं असमापज्जितुकामता विरागभावनाभावतो इतरस्स च अतब्भावतो. एतेनेव हि पठमथेरवादे अपादकपठमज्झानपादकमग्गा पठमज्झानिकाव होन्ति, इतरे च दुतियज्झानिकादिमग्गा पादकज्झानविपस्सनानियमेहि तंतंझानिकाव. एवं सेसवादेसुपि विपस्सनानियमो यथासम्भवं योजेतब्बो. तेनाह – ‘‘तेसम्पि वादे अयमेव पुब्बभागे वुट्ठानगामिनिविपस्सनाव नियमेती’’ति. वुत्ताव, तस्मा न इध वत्तब्बाति अधिप्पायो.

३१०. नानत्तादि कामावचरादिकुसलादिविभागतो नानाविधा. तेनाह ‘‘अनेकप्पकारा’’ति. नानत्तसिताति रूपसद्दादिनानारम्मणनिस्सया. एकत्ता एकसभावा जातिभूमिआदिविभागाभावतो. एकारम्मणनिस्सिताति एकप्पकारेनेव आरम्मणे पवत्ता. हेट्ठा अञ्ञाणुपेक्खा वुत्ता ‘‘बालस्स मुळ्हस्सा’’तिआदिना (म. नि. ३.३०८). उपरि छळङ्गुपेक्खा वक्खति ‘‘उपेक्खको विहरती’’तिआदिना (म. नि. ३.३११). द्वे उपेक्खा गहिता द्विन्नम्पि एकत्ता, एकज्झं गहेतब्बतो, नानत्तसिताय उपेक्खाय पकासितभावतो च.

अञ्ञाणुपेक्खा अञ्ञा सद्दादीसु तत्थ तत्थेव विज्जमानत्ता. रूपेसूति च इमिना न केवलं रूपायतनविसेसा एव गहिता, अथ खो कसिणरूपानिपीति आह – ‘‘रूपे उपेक्खाभावञ्च अञ्ञा’’तिआदि. एकत्तसितभावोपि इध एकत्तविसयसम्पयोगवसेनेव इच्छितो, न आरम्मणवसेन चाति दस्सेतुं, ‘‘यस्मा पना’’तिआदि वुत्तं. तेनेवाह ‘‘तत्था’’तिआदि. सम्पयुत्तवसेनाति सम्पयोगवसेन. आकासानञ्चायतनं निस्सयतीति आकासानञ्चायतननिस्सिता, आकासानञ्चायतनखन्धनिस्सिता. सेसासुपीति विञ्ञाणञ्चायतननिस्सितादीसुपि.

अरूपावचरविपस्सनुपेक्खायाति अरूपावचरधम्मारम्मणाय विपस्सनुपेक्खाय. रूपावचरविपस्सनुपेक्खन्ति एत्थापि एसेव नयो. ताय कामरूपारूपभेदाय तण्हाय निब्बत्ताति तम्मया, तेभूमकधम्मा, तेसं भावो तम्मयता, तण्हा यस्स गुणस्स वसेन अत्थे सद्दनिवेसो, तदभिधानकोति आह – ‘‘तम्मयता नाम तण्हा’’ति. अतम्मयता तम्मयताय पटिपक्खोति कत्वा. विपस्सनुपेक्खन्ति, ‘‘यदत्थि यं भूतं, तं पजहति उपेक्खं पटिलभती’’ति (दी. नि. ३.७१; अ. नि. ७.५५) एवमागतं सङ्खारविचिनने मज्झत्तभूतं उपेक्खं.

३११. यदरियोति एत्थ द-कारो पदसन्धिकरो, उपयोगपुथुवचने च य-सद्दोति दस्सेन्तो, ‘‘ये सतिपट्ठाने अरियो’’ति आह. कामं ‘‘अरियो’’ति पदं सब्बेसम्पि पटिविद्धसच्चानं साधारणं, वक्खमानस्स पन विसेसस्स बुद्धावेणिकत्ता, ‘‘अरियो सम्मासम्बुद्धो’’ति वुत्तं. न हि पच्चेकबुद्धादीनं अयमानुभावो अत्थि. तीसु ठानेसूति न सुस्सूसन्तीति वा, एकच्चे न सुस्सूसन्ति एकच्चे सुस्सूसन्तीति वा, सुस्सूसन्तीति वा, पटिपन्नापटिपन्नानं सावकानं पटिपत्तिसङ्खातेसु तीसु सतिपट्ठानेसु. सतिं पट्ठपेन्तोति पटिघानुनयेहि अनवस्सुतत्ता तदुभयनिवत्तत्ता सब्बदा सतिं उपट्ठपेन्तो. बुद्धानमेव सा निच्चं उपट्ठितसतिता, न इतरेसं आवेणिकधम्मभावतो. आदरेन सोतुमिच्छा इध सुस्सूसाति तदभावं दस्सेन्तो, ‘‘सद्दहित्वा सोतुं न इच्छन्ती’’ति आह. न अञ्ञाति ‘‘न अञ्ञाया’’ति वत्तब्बे यकारलोपेन निद्देसोति आह ‘‘न जाननत्थाया’’ति. सत्थु ओवादस्स अनादियनमेव वोक्कमनन्ति आह – ‘‘अतिक्कमित्वा…पे… मञ्ञन्ती’’ति.

गेहस्सितदोमनस्सवसेनाति इदं इध पटिक्खिपितब्बमत्तदस्सनपदं दट्ठब्बं. नेक्खम्मस्सितदोमनस्सस्सपि सत्थु पसङ्गवसेन ‘‘न चेव अत्तमनो होती’’ति अत्तमनपटिक्खेपेन अनत्तमनता वुत्ता विय होतीति तं पटिसेधेन्तो – ‘‘अप्पतीतो होतीति न एवमत्थो दट्ठब्बो’’ति. तस्स सेतुघातो हि तथागतानं. यदि एवं कस्मा अत्तमनतापटिक्खेपोति आह – ‘‘अप्पटिपन्नकेसु पन अनत्तमनताकारणस्स अभावेनेतं वुत्त’’न्ति. पटिघअवस्सवेनाति छहि द्वारेहि पटिघविस्सन्दनेन, पटिघप्पवत्तियाति अत्थो. उप्पिलावितोति न एवमत्थो दट्ठब्बो उप्पिलावितत्तस्स बोधिमूले एव पहीनत्ता. पटिपन्नकेसूति इदं अधिकारवसेन वुत्तं, अप्पटिपन्नकेसुपि तथागतस्स अनत्तमनताकारणं नत्थेव. एतं वुत्तन्ति एतं ‘‘अत्तमनो चेव होती’’तिआदिवचनं वुत्तं सावकानं सम्मापटिपत्तिया सत्थु अनवज्जाय चित्ताराधनाय सम्भवतो.

३१२. दमितोति निब्बिसेवनभावापादनेन सिक्खापितो. इरियापथपरिवत्तनवसेन अपरिवत्तित्वा एकदिसाय एव सत्तदिसाविधावनस्स इधाधिप्पेतत्ता सारितानं हत्थिदम्मादीनं एकदिसाधावनम्पि अनिवत्तनवसेनेव युत्तन्ति आह – ‘‘अनिवत्तित्वा धावन्तो एकंयेव दिसं धावती’’ति. कायेन अनिवत्तित्वावाति कायेन अपरिवत्तित्वा एव. विमोक्खवसेन अट्ठ दिसा विधावति, न पुरत्थिमादिदिसावसेन. एकप्पहारेनेवाति एकनीहारेनेव, एकस्मिंयेव वा दिवसे एकभागेन. ‘‘पहारो’’ति हि दिवसस्स ततियो भागो वुच्चति. विधावनञ्चेत्थ झानसमापज्जनवसेन अकलङ्कमप्पतिसातं जवनचित्तपवत्तन्ति आह ‘‘समापज्जतियेवा’’ति. सेसं सुविञ्ञेय्यमेव.

सळायतनविभङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.