१२. दक्खिणाविभङ्गसुत्तवण्णना
३७६. महापजापतिगोतमीति एत्थ गोतमीति तस्स गोतमगोत्ततो आगतं नामं, महापजापति पन गुणतो. तं विवरितुं, ‘‘नामकरणदिवसे पनस्सा’’तिआदि वुत्तं. महतिं उळारं पजं जननपोसनेहि परिरक्खतीति महापजापति. परिभोगवसेन न हञ्ञतीति अहतं. सिप्पिकानन्ति तन्तवायानं. वायनट्ठानन्ति वीनट्ठानं. तानि मं न तोसेन्ति कायिकस्स पुञ्ञस्स अभावतो. तेनाह – ‘‘सहत्था कतमेव मं तोसेती’’ति. पिसित्वा निब्बत्तनं कत्वा. पोथेत्वाति सुखुमभावापादनत्थं धनुकेन नेत्वा. कालानुकालञ्च धातिगणपरिवुता गन्त्वा वेमकोटिं अग्गहेसि एकदिवसन्ति अधिप्पायो. एवञ्हि ‘‘एकदिवसं पन…पे… अकासी’’ति पुरिमवचनेन तं न विरुज्झेय्य.
छ चेतनाति छब्बिधा चेतना. न हि ता छयेव चेतनाति. सङ्घे गोतमि देहि…पे… सङ्घो चाति इदमेव सुत्तपदं. सङ्घे गोतमि देहीति सङ्घस्स दानाय नियोजेसि, तस्मा सङ्घोव दक्खिणेय्यतरोति अयमेवेत्थ अत्थो. यदि एवन्तिआदिना तत्थ ब्यभिचारं दस्सेति. राजमहामत्तादयोतिआदिना तत्थ ब्यतिरेकतो निदस्सनं आह. महन्ततरा भवेय्युन्ति आनुभावादिना महन्ततरा भवेय्युं, न च तं अत्थीति. तस्माति यस्मा गुणविसिट्ठहेतुकं दक्खिणेय्यतं अनपेक्खित्वा अत्तनो दीयमानस्स दापनं लभति, तस्मा. मा एवं गण्हाति सम्मासम्बुद्धतो सङ्घोव दक्खिणेय्यो’’ति मा गण्ह.
तत्थ निच्छयसाधकं सुत्तपदं दस्सेन्तो, ‘‘नयिमस्मिं लोके…पे… विपुलफलेसिन’’न्ति आह. स्वायमत्थो रतनसुत्ते (खु. पा. ६.३; सु. नि. २२६), ‘‘यं किञ्चि वित्त’’न्ति गाथाय, अग्गपसादसुत्तादीहि (इतिवु. ९०) च विभावेतब्बोति. तेनाह – ‘‘सत्थारा उत्तरितरो दक्खिणेय्यो नाम नत्थी’’ति.
गोतमिया अन्तिमभविकताय दानस्स दीघरत्तं हिताय सुखाय अनुप्पादनतो न तं गरुतरं सङ्घस्स पादापने कारणन्ति आह – ‘‘पच्छिमाय जनताया’’तिआदि. वचनतोपीति तस्स वत्थयुगस्स सत्थु एव पटिग्गहणाय वचनतोपि. तेनाह ‘‘न ही’’तिआदि.
सत्था सङ्घपरियापन्नोव ईदिसे ठाने अग्गफलट्ठताय अट्ठ-अरियपुग्गलभावतो, सचे पनस्स न सयं सङ्घपरियापन्नता, कथं सङ्घे पूजिते सत्था पूजितो नाम सियाति अधिप्पायो. तीणि सरणगमनानि तयो एव अग्गपसादाति वक्खतीति अधिप्पायो. अभिधेय्यानुरूपानि हि लिङ्गवचनानि. न रुहति अयाथावपटिपत्तिभावतो, न गिहिवेसग्गहणादिना गिहिभावस्स पटिक्खिपितत्ता. न वत्तब्बमेतं ‘‘सत्था सङ्घपरियापन्नो’’ति सत्थुभावतो. सावकसमूहो हि सङ्घो. सङ्घगणे हि सत्था उत्तरितरो अनञ्ञसाधारणगुणेहि समन्नागतभावतो मूलरतनभावतो च.
३७७. सम्पतिजातस्स महासत्तस्स सत्तपदवीतिहारगमनं धम्मतावसेन जातं, परं तदञ्ञदहरसदिसी पटिपत्तीति आह – ‘‘हत्थपादकिच्चं असाधेन्तेसू’’ति.
३७८. पच्चूपकारं न सुकरं वदामि अनुच्छविककिरियाय कातुं असक्कुणेय्यत्ता. अभिवादेन्ति एतेनाति अभिवादनं. वन्दमानेहि अन्तेवासिकेहि आचरियं ‘‘सुखी होतू’’तिआदिना अभिवादेन्ति नाम. तेन वुत्तं ‘‘अभिवादन’’न्ति. तदभिमुखो…पे… वन्दित्वा निपज्जति, सेय्यथापि आयस्मा सारिपुत्तो. कालानुकालं उपट्ठानं बीजयनपादसम्बाहनादि अनुच्छविककम्मस्स करणं नाम. अनुच्छविकं किरियं कातुं न सक्कोतियेव, यस्मा आचरियेन कतस्स धम्मानुग्गहस्स अन्तेवासिना करियमानो आमिसानुग्गहो सङ्खम्पि कलम्पि कलभागम्पि न उपेतियेवाति. तेन वुत्तं ‘‘न सुप्पतिकारं वदामी’’ति.
३७९. पाटिपुग्गलिकं दक्खिणं आरब्भ समुट्ठितं, ‘‘तं मे भगवा पटिग्गण्हतू’’ति महापजापतिगोतमिया वचनं निमित्तं कत्वा देसनाय उट्ठितत्ता. न केवलञ्च तस्सा एव वचनं, अथ खो आनन्दत्थेरोपि…पे… समादपेसि, तस्मा विभागतो चुद्दससु…पे… होतीति दस्सेतुं, इमं देसनं आरभि. तत्थ पतिपच्चेकं पुग्गलं दीयतीति पाटिपुग्गलिकं. पठमसद्दो यथा अग्गत्थो, एवं सेट्ठपरियायोपीति आह ‘‘जेट्ठकवसेनपी’’ति. अग्गा उत्तमे खेत्ते पवत्तत्ता. दुतियततियापि परमदक्खिणायेव सब्बसो सम्माविक्खम्भितरागादिकिलेसत्ता. रागादयो हि अदक्खिणेय्यभावस्स कारणं. तेनेवाह – ‘‘तिणदोसानि खेत्तानि, रागदोसा अयं पजा’’तिआदि (ध. प. ३५६). यस्मा पन सवासनं सब्बसो समुच्छिन्नकिलेसेहि ततो एव सब्बसो अप्पटिहतञाणचारेहि अनन्तापरिमेय्यगुणगणाधारेहि सम्मासम्बुद्धेहि सदिसो सदेवके लोके कोचि दक्खिणेय्यो नत्थि. तस्मा ‘‘परमदक्खिणायेवा’’ति सासङ्कं वदति. यस्मा पञ्चाभिञ्ञो अट्ठसमापत्तिलाभी एव होति लोकियाभिञ्ञानं अट्ठसमापत्तिअधिट्ठानत्ता, तस्मा ‘‘लोकियपञ्चाभिञ्ञे’’इच्चेव वुत्तं, न ‘‘अट्ठसमापत्तिलाभिम्ही’’ति ताय अवुत्तसिद्धत्ता. गोसीलधातुकोति गोसीलसभावो, सीलवता सदिससीलोति अत्थो. तेनाह ‘‘असठो’’तिआदि. तेन न अलज्जिधातुको पकतिसिद्धो इध पुथुज्जनसीलवाति अधिप्पेतोति दस्सेति.
परिच्छिन्दन्तोति एत्तकोति पच्चेकप्पमाणतो ततो एव अञ्ञमञ्ञं असङ्करतोव परिच्छिन्दन्तो. कथं पन असङ्ख्येय्यभावेन वुच्चमानो विपाको परिच्छिन्नो होति? सोपि तस्स परिच्छेदो एव इतरेहि असंकिण्णभावदीपनतो, एतदत्थमेव पुब्बे असङ्करग्गहणं कतं. गुणवसेनाति लक्खणसम्पन्नादिगुणवसेन. उपकारवसेनाति भोगरक्खादिउपकारवसेन. यं पोसनत्थं दिन्नं, इदं न गहितं दानलक्खणायोगतो. अनुग्गहपूजनिच्छावसेन हि अत्तनो देय्यवत्थुपरिच्चागो दानं भयरागलद्धुकामकुलादिवसेन सावज्जाभावतो. तम्पि न गहितं अयावदत्थताअपरिपुण्णभावेन यथाधिप्पेतफलदानासमत्थभावतो. सम्पत्तस्साति सन्तिकागतस्स. तेन सम्पत्तिपयोजने अनपेक्खतं दस्सेति. फलं पटिकङ्खित्वाति ‘‘इदं मे दानमयं पुञ्ञं आयतिं सुखहितभावाय होतू’’तिआदिना फलं पच्चासीसित्वा. तेनस्स फलदाने नमियतं दस्सेति, यावदत्थन्ति इमिना परिपुण्णफलतं. सतगुणाति एत्थ गुणसद्दो न ‘‘गुणेन नामं उद्धरेय्य’’न्तिआदीसु (ध. स. अट्ठ. १३१३; उदा. अट्ठ. ५३; पटि. म. अट्ठ. १.१.७६; नेत्ति. अट्ठ. ४.३८) विय सम्पत्तिअत्थो, ‘‘तद्दिगुण’’न्तिआदीसु विय न वड्ढनत्थो, ‘‘पञ्च कामगुणा लोके, मनोछट्ठा पवेदिता’’तिआदीसु (सु. नि. १७३) विय न कोट्ठासत्थो, ‘‘अन्तं अन्तगुण’’न्तिआदीसु (दी. नि. २.३७७; म. नि. १.११०; खु. पा. ३) विय न अन्तभागत्थो, अथ खो आनिसंसत्थोति दस्सेन्तो, ‘‘सतानिसंसा’’ति आह, ते आनिसंसे सरूपतो दस्सेतुं, ‘‘आयुसत’’न्तिआदि वुत्तं. सतगुणाति वा सतवड्ढिकाति एवमेत्थ अत्थो दट्ठब्बो. निप्परितसं करोतीति आयुआदीनं आनिसंसानं अपरित्तासं करोति. अथ वा निप्परितसं करोतीति आयुआदिनिमित्तं अपरित्तासं करोति. अथ वा निप्परितसं करोतीति आयुआदीनि ततो उत्तरिम्पि आहारादिहेतु अपरित्तासं करोति. अत्तभावविनिमुत्तसञ्चरणस्स अभावा, ‘‘भवसतेपि वुत्ते अयमेवत्थो’’ति वुत्तं. सब्बत्थाति, ‘‘पुथुज्जनदुस्सीले’’तिआदीसु सब्बवारेसु. नयो नेतब्बोति, ‘‘आयुसहस्सं वण्णसहस्स’’न्तिआदिको नयो.
सासनावतरणं नाम यावदेव वट्टदुक्खनित्थरणत्थं, तञ्च मग्गपटिवेधनं, तस्मा निब्बेधभागियसरणगमनं सिक्खापदसमादानं पब्बज्जा उपसम्पदा सीलपरिपूरणं अधिचित्तसिक्खानुयोगो विपस्सनाभावनाति सब्बापेसा सोतापत्तिफलसच्छिकिरियाय पटिपत्ति एव होतीति आह – ‘‘तिसरणं गतो उपासकोपी’’तिआदि. तत्थ यथा निब्बेधभागियो समाधि ताव नाम परम्पराय अरियमग्गाधिगमस्स पच्चयभावतो उपनिस्सयो; तथा निब्बेधभागियं सीलपरिपूरणं उपसम्पदा पब्बज्जा उपासकस्स दससु पञ्चसु सीलेसु पतिट्ठानं अन्तमसो सरणादिगमनम्पि निब्बेधभागियं अरियमग्गाधिगमस्स उपनिस्सयो होतियेवाति, ‘‘सब्बापेसा सोतापत्तिफलसच्छिकिरियाय पटिपत्ती’’ति वुत्ता. तत्थ अनञ्ञसाधारण-विज्जाचरणादि-असङ्ख्येय्यअपरिमेय्य-गुण-समुदयपूरिते भगवति सद्धम्मे अरियसङ्घे उळारतरबहुमानगारवतं गतो. ‘‘सम्मासम्बुद्धो भगवा, स्वाखातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति तप्परायणतादिआकारप्पत्तो ञाणपरिसोधितो पसादो सरणगमनन्ति तेन वत्थुगतेन पसादेन परिभाविते सन्ताने कतं पुञ्ञक्खेत्तसम्पत्तिया महप्फलं महानिसंसमेव होतीति आह – ‘‘तस्मिं दिन्नदानम्पि असङ्ख्येय्यं अप्पमेय्य’’न्ति. तयिदं सरणं वत्थुत्तये पसादभावेन अज्झासयसम्पत्तिमत्तं, तादिसस्स पन पञ्चसीलं अज्झासयसम्पत्तिउपथम्भितो कायवचीसंयमोति तत्थ दिन्नं ततो उत्तरि महप्फलन्ति, दससीलं पन परिपुण्णुपोसथसीलं, तत्थ दिन्नं महप्फलन्ति, ‘‘ततो उत्तरि महप्फल’’न्ति वुत्तं. सामणेरसीलादीनं पन उत्तरि विसिट्ठतरादिभावतो तत्थ तत्थ दिन्नस्स विसेसमहप्फलता वुत्ता.
मग्गसमङ्गिता नाम मग्गचित्तक्खणपरिच्छिन्ना, तस्मिञ्च खणे कथं दातुं पटिग्गहेतुञ्च सम्भवतीति चोदेति ‘‘किं पन मग्गसमङ्गिस्स सक्का दानं दातु’’न्ति. इतरो तादिसे सति समयेति दस्सेन्तो, ‘‘आम सक्का’’ति पटिजानित्वा, ‘‘आरद्धविपस्सको’’तिआदिना तमत्थं विवरति. तस्मिं खणेति तस्मिं पक्खिपनक्खणे. यदि अट्ठमकस्स सोतापन्नस्स दिन्नदानं फलतो असङ्ख्येय्यमेव, को नेसं विसेसोति आह ‘‘तत्था’’तिआदि. तेन सतिपि असङ्ख्येय्यभावसामञ्ञे अत्थि नेसं अप्पबहुभावो संवट्टट्ठायी असङ्ख्येय्यमहाकप्पासङ्ख्येय्यानं वियाति दस्सेति. मग्गसमङ्गीनं तेन तेन ओधिना संकिलेसधम्मानं पहीयमानत्ता वोदानधम्मानं वड्ढमानत्ता अपरियोसितकिच्चत्ता अपरिपुण्णगुणता, परियोसितकिच्चत्ता फलसमङ्गीनं परिपुण्णगुणताति तंतंमग्गट्ठेहि फलट्ठानं खेत्तातिसयता वेदितब्बा. हेट्ठिमहेट्ठिमेहि पन मग्गट्ठेहि उपरिमानं मग्गट्ठानं फलट्ठेहि फलट्ठानं उत्तरितरता पाकटा एव. तथा हि उपरिमानं दिन्नदानस्स महप्फलता वुत्ता.
३८०. कामञ्चेत्थ बुद्धप्पमुखे उभतोसङ्घे केवले च भिक्खुसङ्घे दानं अत्थि एव, न पन बुद्धप्पमुखे भिक्खुसङ्घे, तं पन बुद्धप्पमुखउभतोसङ्घेनेव सङ्गहितन्ति अविरुद्धं. न पापुणन्ति महप्फलभावेन सदिसतम्पि, कुतो अधिकतं.
‘‘तथागते परिनिब्बुते उभतोसङ्घस्स’’ इच्चेव वुत्तत्ता – ‘‘किं पना’’तिआदिना चोदेति. इतरो परिनिब्बुते तथागते तं उद्दिस्स गन्धपुप्फादिपरिच्चागो विय चीवरादिपरिच्चागोपि महप्फलो होतियेवाति कत्वा पटिपज्जनविधिं दस्सेतुं, ‘‘उभतोसङ्घस्सा’’तिआदि वुत्तं. ‘‘एत्तकायेव, भिक्खू उद्दिसथा’’ति एवं परिच्छेदस्स अकरणेन उपचारसीमापरियापन्नानं खेत्तपरियापन्नानं वसेन अपरिच्छिन्नकमहाभिक्खुसङ्घे.
गोत्तं वुच्चति साधारणनामं, मत्तसद्दो लुत्तनिद्दिट्ठो, तस्मा समणाति गोत्तमत्तं अनुभवन्ति धारेन्तीति गोत्रभुनो. तेनाह ‘‘नाममत्तसमणा’’ति. दिट्ठिसीलसामञ्ञेन संहतो समणगणो सङ्घो, तस्मा सङ्घो दुस्सीलो नाम नत्थि. गुणसङ्खायाति आनिसंसगणनाय, महप्फलतायाति अत्थो. कासाव…पे… असङ्ख्येय्याति वुत्ता सङ्घं उद्दिस्स दिन्नत्ता. यथा पन सङ्घं उद्दिस्स दानं होति, तं विधिं दस्सेतुं, ‘‘सङ्घगता दक्खिणा’’तिआदि वुत्तं. तत्थ चित्तीकारन्ति गारवं.
सङ्घतो न पुग्गलतो. अञ्ञथत्तं आपज्जतीति ‘‘इमस्स मया दिन्नं सङ्घस्स दिन्नं होती’’ति एवं चित्तं अनुप्पादेत्वा, ‘‘सङ्घस्स दस्सामी’’ति देय्यधम्मं पटियादेत्वा सामणेरस्स नाम दातब्बं जातन्ति अञ्ञथत्तं आपज्जति; तस्मा तस्स दक्खिणा सङ्घगता न होतियेव पुग्गलवसेन चित्तस्स परिणामितत्ता. निब्बेमतिको हुत्वाति ‘‘किं नु खो मया इमस्स दिन्नं होति वा न वा’’ति विमतिं अनुप्पादेत्वा, ‘‘यो पना’’तिआदिना वुत्ताकारेन करोति.
तत्थातिआदिना वुत्तस्सेवत्थस्स पाकटकरणत्थं वत्थुं निदस्सेति, ‘‘परसमुद्दवासिनो’’तिआदिना. ओपुञ्जापेत्वा परिभण्डं कारेत्वा, हरितगोमयेन उपलिम्पित्वाति अत्थो. कासावकण्ठसङ्घस्साति कासावकण्ठसमूहस्स. को सोधेतीति महप्फलभावकरणेन को विसोधेति. महप्फलभावापत्तिया हि दक्खिणा विसुज्झति नाम. तत्थ येसं हत्थे दिन्नं, तेसं वसेन पटिग्गाहकतो दक्खिणाय विसुद्धत्ता, – ‘‘तदापाहं, आनन्द, सङ्घगतं दक्खिणं असङ्ख्येय्यं अप्पमेय्यं वदामी’’ति (म. नि. ३.३८०) च वुत्तं, तस्मा कम्मवसेनेव दक्खिणाविसुद्धिं पुच्छति. इतरो अरियसङ्घे दिन्नदक्खिणाय निब्बिसिट्ठं कत्वा वुत्तत्ता मत्थकप्पत्तस्सेव अरियसङ्घस्स वसेन दक्खिणाविसुद्धिं दस्सेन्तो, ‘‘सारिपुत्त…पे… सोधेन्ती’’ति वत्वा पुन, ‘‘ये केचि अरहन्तो सोधेन्ती’’ति दस्सेन्तो, ‘‘अपिचा’’तिआदिमाह. थेरा चिरपरिनिब्बुताति इदं अज्जतनानम्पि अरियानं सावकतं दस्सेन्तेन मग्गसोधनवसेन वुत्तन्ति दट्ठब्बं, न उद्दिस्स पुञ्ञकरणे सति अकरणप्पत्तिया. एवञ्हि ‘‘असीतिमहाथेरा सोधेन्ती’’ति इदं सुवुत्तं होति, न अञ्ञथा.
‘‘सङ्घगताय दक्खिणाया’’ति कामञ्चेतं साधारणवचनं, तथापि तत्थ तत्थ पुग्गलविसेसो ञातब्बोति दस्सेन्तो, ‘‘अत्थि बुद्धप्पमुखो सङ्घो’’तिआदिमाह. न उपनेतब्बो भगवतो काले भिक्खूनं अभिञ्ञापटिसम्भिदागुणवसेन अतिविय उळारभावतो, एतरहि तदभावतो. एतरहि सङ्घो…पे… न उपनेतब्बोति एत्थ नयानुसारेन अत्थो वत्तब्बो. तेन तेनेव समयेनाति तस्स तस्स कालस्स सम्पत्तिविपत्तिमुखेन पटिपत्तिया उळारतं अनुळारतञ्च उल्लिङ्गेति. यत्थ हि भिक्खू गुणेहि सब्बसो परिपुण्णा होन्ति, तस्मिं समये सङ्घगता दक्खिणा इतरस्मिं समये दक्खिणतो महप्फलतराति दट्ठब्बा. सङ्घे चित्तीकारं कातुं सक्कोन्तस्साति सुप्पटिपन्नतादिं सङ्घे आवज्जित्वा सङ्घगतेन पसादेन सङ्घस्स सम्मुखा विय तस्मिं पुग्गले च गारववसेन देन्तस्स पुथुज्जनसमणे दिन्नं महप्फलतरं सङ्घतो उद्दिसित्वा गहितत्ता, ‘‘सङ्घस्स देमी’’तियेव दिन्नत्ता च.
एसेव नयोति इमिना, ‘‘सोतापन्ने दिन्नं महप्फलतर’’न्ति एवमादिं अतिदिसति. आदि-सद्देन उद्दिसित्वा गहितो सकदागामी, पाटिपुग्गलिको अनागामीति एवमादि सङ्गहितं. महप्फलतरमेव. तेनाह भगवा – ‘‘न त्वेवाहं, आनन्द, केनचि परियायेन सङ्घगताय दक्खिणाय पाटिपुग्गलिकं दानं महप्फलतरं वदामी’’ति (म. नि. ३.३८०). यदि खीणासवे दिन्नदानतो सङ्घतो उद्दिसित्वा गहितदुस्सीलेपि दिन्नदानं महप्फलं, एवं सन्ते – ‘‘सीलवतो, महाराज, दिन्नं महप्फलं, नो तथा दुस्सीले’’ति इदं कथन्ति आह – ‘‘तं इमं नयं गहाया’’तिआदि. सङ्घतो उद्दिसित्वा गहणविधिं पहाय दुस्सीलस्सेव गहणवसेन वुत्तं. इमस्मिं चतुक्के दट्ठब्बन्ति इमस्स पदस्स वसेन दट्ठब्बं. तत्थ हि ‘‘पटिग्गाहका होन्ति दुस्सीला पापधम्मा’’ति आगतं.
३८१. विसुज्झतीति न किलिस्सति, महाजुतिकारी महाविप्फारा होतीति अत्थो. सुचिधम्मोति रागादिअसुचिविधमनेन सुचिसभावो. न पापधम्मोति न निहीनसभावो पापकिरियाय. अकुसलधम्मो हि एकन्तनिहीनो. जूजको सीलवा कल्याणधम्मो न होति. तस्स महाबोधिसत्तस्स अत्तनो पुत्तदानं दानपारमिया मत्थकं गण्हन्तं महापथवीकम्पनसमत्थं जातं, स्वायं दानगुणो वेस्सन्तरमहारञ्ञा कथेतब्बोति.
उद्धरतीति बहुलं कतपापकम्मवसेन लद्धविनिपाततो उद्धरति. तस्मा नत्थि मय्हं किञ्चि चित्तस्स अञ्ञथत्तन्ति अधिप्पायो.
पेतदक्खिणन्ति पेते उद्दिस्स दातब्बदक्खिणं. पापितकालेयेवाति, ‘‘इदं दानं असुकस्स पेतस्स होतू’’ति उद्दिसनवसेन पत्ते पापितकालेयेव. अस्साति पेतस्स. पापुणीति फलसमापत्तिया वसेन पापुणि. अयञ्हि पेते उद्दिस्स दाने धम्मता.
तदा कोसलरञ्ञो परिच्चागवसेन अतिविय उळारज्झासयतं, बुद्धप्पमुखस्स च भिक्खुसङ्घस्स उक्कंसगतगुणविसिट्ठतं सन्धायाह, ‘‘असदिसदानं कथेतब्ब’’न्ति.
असारम्पि खेत्तन्ति सारहीनं दुक्खेत्तं. समयेति कसनारहे काले. पंसुं अपनेत्वाति निस्सारं पंसुं नीहरित्वा. सारबीजानीति सभावतो अभिसङ्खारतो च सारभूतानि बीजानि. पतिट्ठपेत्वाति वपित्वा. एवन्ति यथा कस्सको अत्तनो पयोगसम्पत्तिया असारेपि खेत्ते फलं अधिगच्छति. एवं सीलवा अत्तनो पयोगसम्पत्तिया दुस्सीलस्सपि दत्वा फलं महन्तं अधिगच्छति. इमिना उपायेनाति इमिना पठमपदे वुत्तनयेन. सब्बपदेसूति सब्बकोट्ठासेसु विसुज्झनं वुत्तं, ततियपदे पन विसुज्झनं पटिक्खित्तमेव.
३८२. अरहतो दिन्नदानमेव अग्गं दानचेतनाय केनचि उपक्किलेसेन अनुपक्किलिट्ठत्ता, पटिग्गाहकस्स अग्गदक्खिणेय्यत्ता. तेनाह – ‘‘भवालयस्स भवपत्थनाय अभावतो’’ति, ‘‘उभिन्नम्पी’’ति वचनसेसो. खीणासवो दानफलं न सद्दहतीति इदं तस्स अप्पहीनकिलेसजनस्स विय कम्मकम्मफलानं सद्दहनाकारेन पवत्ति नत्थीति कत्वा वुत्तं, यतो अरहा ‘‘असद्धो अकतञ्ञू च…पे… पोरिसो’’ति (ध. प. ९७) थोमीयति. असद्दहनं अनुमानपक्खिकं, अनुमानञ्च संसयपुब्बकं, निस्सन्दिद्धो च कम्मकम्मफलेसु पच्चक्खभावं गतो. तमेव हि निच्छितभावसिद्धं निस्सन्दिद्धतं सन्धाय – ‘‘दानफलं सद्दहन्ता’’तिआदि वुत्तं. यदि एवं तेन कतकम्मं कम्मलक्खणप्पत्तं होतीति आह ‘‘खीणासवेना’’तिआदि. तेनेवाह – ‘‘निच्छन्दरागत्ता’’ति, एतञ्च लक्खणवचनं, केनचि किलेसेन अनुपक्किलिट्ठत्ताति अधिप्पायो. अस्साति खीणासवस्स दानं.
किं पन सम्मासम्बुद्धेनातिआदिना दायकतो दक्खिणाविसुद्धि चोदिता, सारिपुत्तत्थेरेनातिआदिना पन पटिग्गाहकतोति वदन्ति; तदयुत्तं, सावकस्स महप्फलभावे संसयाभावतो, हेट्ठा निच्छितत्ता च, तस्मा उभयेनपि दायकतो दक्खिणाविसुद्धि एव चोदिता. सा हि इध साधारणवसेन निच्छितत्ता संसयवत्थु. तेनाह – ‘‘सम्मासम्बुद्धेन…पे… वदन्ती’’ति. सम्मासम्बुद्धं हीतिआदि यथावुत्तअत्थस्स कारणवचनं. अञ्ञो दानस्स विपाकं जानितुं समत्थो नाम नत्थि सब्बसो सत्तानं कम्मविपाकविभागजाननञाणस्स अननुञ्ञातत्ता. तेनाह भगवा – ‘‘यस्मा च खो, भिक्खवे, सत्ता न जानन्ति, दानसंविभागस्स विपाकं यथाहं जानामि, तस्मा अदत्वा भुञ्जन्ती’’तिआदि (इतिवु. २६). एतेन एत्थ ञाणविसोधनं नाम कथितं, न दक्खिणाय विसुद्धि नाम दायकतो पटिग्गाहकतो च वसेन होतीति; सम्मासम्बुद्धेन सारिपुत्तत्थेरस्स दिन्नदानं सब्बसो उपक्किलेसविसुद्धिया ञाणस्स च अतिविय उळारत्ता महानुभावं नाम सिया महातेजवन्तञ्च; न महप्फलं तेसं सन्ताने परिपुण्णफलस्स असम्भवतो. यदि दिन्नदानं परिपुण्णफलं न होति उभयविपाकदानाभावतो, पवत्तिविपाकदायी पन होतीति दस्सेन्तो, ‘‘दानं ही’’तिआदिमाह.
चतूहीति सहयोगे करणवचनं, चतूहि सम्पदाहि सहगता सहितं कत्वाति अत्थो. इमा चतस्सो सम्पदा सब्बसाधारणवसेन वुत्ता, न यथाधिगतपुग्गलवसेन. तेनाह – ‘‘देय्यधम्मस्स धम्मेना’’तिआदि. तस्मिंयेव अत्तभावेति यस्मिं अत्तभावे तं दानमयं पुञ्ञं उप्पन्नं, तस्मिंयेव अत्तभावे विपाकं देति, चेतनाय महन्तत्ता दिट्ठधम्मवेदनीयं हुत्वा विपच्चतीति अत्थो. पुब्बचेतनादिवसेनाति सन्निट्ठापकजवनवीथितो पुब्बापरवीथिचेतनावसेन, अञ्ञथा सन्निट्ठापकवीथियंयेव पुब्बचेतनादिवसेनाति वत्तब्बं सिया. सा हि चेतना दिट्ठधम्मवेदनीयभूता तस्मिंयेव अत्तभावे विपाकं देति, न इतरा. महत्तताति पुब्बाभिसङ्खारवसेन ञाणसम्पयोगादिवसेन चेतनाय उळारता. खीणासवभावेनाति यस्स देति, तस्स खीणासवभावेन. वत्थुसम्पन्नताति एत्थ यथा पटिघसञ्ञा नानत्तसञ्ञानं विगमेन दिब्बविहारानं वसेन, ब्यापादसञ्ञादीनं विगमेन ब्रह्मविहारानं वसेन, सब्बसो रूपसञ्ञानानत्तसञ्ञानं विगमेन आनेञ्जविहारानं वसेन सब्बसो निच्चसञ्ञादीनं पटिप्पस्सद्धिया सब्बसङ्खारविमुखताय अरियविहारानं वसेन वत्थुसम्पन्नता इच्छिता. तंतंसमापत्तिसमापज्जनेन सन्तानस्स निरोधसाधनता तं दिवसं निरोधस्स साधनता नाम. वत्थुसम्पन्नताति सब्बसो निरोधसमापत्तिसमापज्जनेन वत्थुसम्पन्नता इच्छिता; न सब्बसो अनवसेससञ्ञानिरोधतायाति आह – ‘‘तं दिवसं निरोधतो वुट्ठितभावेन वत्थुसम्पन्नता’’ति. सञ्ञानिरोधस्स चेत्थ अच्चासन्नतं सन्धाय, ‘‘तं दिवस’’न्ति वुत्तं. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.
दक्खिणाविभङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
निट्ठिता च विभङ्गवग्गवण्णना.