३. अच्छरियब्भुतसुत्तवण्णना
१९७. विभत्तिपतिरूपका च निपाता होन्तीति यथारहं तंतंविभत्तिअत्थदीपका, इध पच्चत्तवचनो यत्रसद्दो, हिसद्दो हेतुअत्थो, नामसद्दो अच्छरियत्थो, पदत्तयस्स पन अच्छरियत्थनिद्दिट्ठताय ‘‘अच्छरियत्थे निपातो’’ति वुत्तं. एकंसतो पनेतं पदत्तयं. तथा हि वक्खति, ‘‘यत्राति निपातवसेन अनागतवचन’’न्ति. पपञ्चसद्दो हेट्ठा वुत्तो. छिन्नवटुमेति इमिना सब्बकिलेसवट्टस्स अकुसलकम्मवट्टस्स च छिन्नत्ता विपाकवट्टस्स च उपरि वक्खमानत्ता आह – ‘‘वटुमन्ति कुसलाकुसलकम्मवट्टं वुच्चती’’ति. निपातवसेन यत्रसद्दयोगेन. अनागतवचनन्ति इदं अनागतवचनसदिसत्ता वुत्तं. अनागतत्थवाची हि अनागतवचनं, अत्थो चेत्थ अतीतोति. अनुस्सरीति इदं अनुस्सरितभावं सन्धाय वुत्तं – ‘‘न अनुस्सरिस्सती’’ति सद्दपयोगस्स अतीतविसयत्ता. यदा पन तेहि भिक्खूहि या कथा पवत्तिता, ततो पच्छापि भगवतो तेसं बुद्धानं अनुस्सरणं होतियेव.
खत्तियजच्चातिआदिकालतो पट्ठाय असम्भिन्नाय खत्तियजातिया उदितोदिताय. ब्रह्मजच्चाति ब्राह्मणजच्चा. एवंगोत्तेपि एसेव नयो. लोकियलोकुत्तरसीलेनाति पारमितासम्भूतेन बुद्धावेणिकत्ता अनञ्ञसाधारणेन लोकियेन लोकुत्तरेन च सीलेन. एवंसीलाति अनवसेससीलानं विसुं पच्चवेक्खणकरणेन एवंसीलाति अनुस्सरिस्सति. एस नयो सेसेसु. यथा विज्जाभागिया विज्जासम्पयुत्तधम्मा, एवं समाधिपक्खा समाधिसम्पयुत्तधम्मापि सतिवीरियादयोति आह – ‘‘हेट्ठा समाधिपक्खानं धम्मानं गहितत्ता विहारो गहितोवा’’ति. तस्मा समाधिपक्खधम्मविनिमुत्तो एव इध विहारो अधिप्पेतोति वुत्तं ‘‘इदं ही’’तिआदि.
यथा वा अट्ठसमापत्तिविपस्सनामग्गफलसङ्गहिता लोकियलोकुत्तरा समाधिपञ्ञा ‘‘एवंधम्मा एवंपञ्ञा’’ति पदेहि हेट्ठा गहितापि यथासकं पटिपक्खतो मुच्चनस्स पवत्तिविसेसं उपादाय ‘‘एवंविमुत्ता’’ति एत्थ पुन गहिता, तथा ‘‘एवंधम्मा’’ति एत्थ गहितापि समाधिपक्खधम्मा दिब्बब्रह्मआनेञ्जअरियविहारसङ्खातं अत्तनो पवत्तिविसेसं उपादाय, ‘‘एवंविहारी’’ति एत्थ पुन गहिताति वुच्चमाने न कोचि विरोधो. फलधम्मानं पवत्तिकालेपि किलेसानं पटिप्पस्सद्धि न तंआनुभावजाता, अथ खो अरियमग्गेन किलेसानं समुच्छिन्नत्ताति आह – ‘‘मग्गानुभावेन किलेसानं पटिपस्सद्धन्ते उप्पन्नत्ता’’ति. यो यं पजहति, सो पहायको पहातब्बतो विमुत्तोति वुच्चति विसंसट्ठभावतोति पहानविभागेन वुच्चमाने अपहायकस्स निब्बानस्स कथं विमुत्तता? विसंसट्ठाभावतो एव. तञ्हि पकतियाव सब्बसो किलेसेहि विसंसट्ठं विनिस्सटं सुविदूरविदूरे ठितं, तस्मास्स ततो निस्सटत्ता निस्सरणविमुत्ति निस्सरणपहानन्ति वुच्चतीति आह ‘‘निब्बान’’न्तिआदि.
१९९. इमे तथागतस्स अच्छरियअब्भुतधम्मा, न सावकविसया, मम पन देसना तया सुता एवाति ते थेरस्सेव भारं करोन्तो, ‘‘तं भिय्योसोमत्ताय पटिभन्तू’’ति आह. सतो सम्पजानोति एत्थ कालभेदवसेन लब्भमानम्पि सम्पजानभावं अनामसित्वा गतिविभागेन तं दस्सेतुं, ‘‘द्वे सम्पजञ्ञानी’’तिआदि वुत्तं – अट्ठ वरे गण्हन्तोति एत्थ कथं वरं देवता देति, परस्स दीयमानञ्च तं कथं परस्स समिज्झतीति? कम्मबलेनेव. यदि हि तं कम्मं कतोकासं यस्स तदपदेसेन फलं विपच्चति, एवं देवताय तस्स वरं दिन्नं, इतरेन च लद्धन्ति वोहारो होतीति. अपिच परस्स पत्थितवरानि नाम विपच्चमानस्स कम्मस्स पच्चयभूतो पयोगविसेसोति दट्ठब्बं. तानि विपच्चने एकन्तिकानिपि अप्पेसक्खा देवता – ‘‘अयमस्स पत्थना समिज्झिस्सति, नो’’ति न जानन्ति, सक्को पन पञ्ञवा तानि एकच्चं जानातियेव. तेन वुत्तं – ‘‘सक्केन पसीदित्वा दिन्ने अट्ठ वरे गण्हन्तो’’तिआदि.
पठमजवनवारेति उप्पन्नस्स सब्बपठमजवनवारे. सो हि पटिसन्धिया आसन्नभावतो अविसदो होति, देवभावे निकन्तिवसेन उप्पज्जनतो न जानाति. अञ्ञाहि देवताहि असाधारणजाननं होति दुतियजवनवारतो पट्ठाय पवत्तनतो.
अञ्ञेपि देवातिआदिना बोधिसत्तस्स तत्थ सम्पजञ्ञेनेव ठितभावं ब्यतिरेकमुखेन विभावेति. आहारूपच्छेदेन कालङ्करोन्तीति इदं खिड्डापदोसिकवसेन वुत्तं. इतरेसम्पि दिब्बभोगेहि मुच्छिततं अज्झापन्नानं तिट्ठन्तानं सम्पजञ्ञाभावो होतियेव. किं तथारूपं आरम्मणं नत्थीति यथारूपं उळारं पणीतञ्च आरम्मणं पटिच्च ते देवा संमुच्छिता आहारूपच्छेदम्पि करोन्ति, किं तथारूपं उळारं पणीतञ्च आरम्मणं बोधिसत्तस्स नत्थीति बोधिसत्तस्स सम्पजञ्ञानुभावं विभावेतुं चोदनं समुट्ठापेति? बोधिसत्तो हि यत्थ यत्थ निब्बत्तति, तत्थ तत्थ अञ्ञे सत्ते दसहि विसेसेहि अधिग्गण्हाति, पगेव तत्थ देवभूतो, तथापि ‘‘सतो सम्पजानो’’ति अयमेत्थ अच्छरियधम्मो वुत्तो.
२००. सम्पत्तिभवे दीघायुकता नाम पञ्ञाबलेन होति, बोधिसत्तो च महापञ्ञो, तस्मा तत्थ तत्थ भवे तेन दीघायुकेन भवितब्बन्ति अधिप्पायेन, ‘‘सेसत्तभावेसु किं यावतायुकं न तिट्ठती’’ति चोदेति. इतरो ‘‘आम न तिट्ठती’’ति पटिजानित्वा, ‘‘अञ्ञदा ही’’तिआदिना तत्थ कारणमाह. ‘‘इध न भविस्सामी’’ति अधिमुच्चनवसेन कालकिरिया अधिमुत्तिकालकिरिया. पारमिधम्मानञ्हि उक्कंसप्पत्तिया तस्मिं तस्मिं अत्तभावे अभिञ्ञासमापत्तीहि सन्तानस्स विसेसितत्ता अत्तसिनेहस्स तनुभावेन सत्तेसु च महाकरुणाय उळारभावेन अधिट्ठानस्स तिक्खविसदभावापत्तिया बोधिसत्तानं अधिप्पाया समिज्झन्ति, चित्ते विय कम्मेसु च तेसं वसिभावो, तस्मा यत्थुपपन्नानं पारमियो सम्मदेव परिब्रूहेन्ति, वुत्तनयेन कालं कत्वा तत्थ उपपज्जन्ति. तथा हि अयं महासत्तो इमस्मिंयेव कप्पे नानाजातीसु अपरिहीनज्झानो कालं कत्वा ब्रह्मलोके निब्बत्तो अप्पकमेव कालं तत्थ ठत्वा ततो चवित्वा इध निब्बत्तो. तेनाह – ‘‘अयं कालकिरिया अञ्ञेसं न होती’’ति. सब्बपारमीनं पूरितत्ताति इमिना पयोजनाभावतो तत्थ ठत्वा अधिमुत्तिकालकिरिया नाम न होतीति दस्सेति. अपिच चरिमभवे चतुमहानिधिसमुट्ठानपुब्बिकाय दिब्बसम्पत्तिसदिसाय महासम्पत्तिया निब्बत्ति विय बुद्धभूतस्स असदिसदानादिवसेन अनञ्ञसाधारणलाभुप्पत्ति विय च इतो परं महापुरिसस्स दिब्बसम्पत्तिअनुभवनं नाम नत्थीति यावतायुकट्ठानं उस्साहजातस्स पुञ्ञसम्भारस्स वसेनाति दट्ठब्बं. अयञ्हेत्थ धम्मता.
मनुस्सगणनावसेन, न देवगणनावसेन. पुब्बनिमित्तानीति चुतिया पुब्बनिमित्तानि. अमिलायित्वाति एत्थ अमिलातग्गहणेनेव तासं मालानं वण्णसम्पदापि गन्धसम्पदापि सोभासम्पदापि दस्सिताति दट्ठब्बं. बाहिरब्भन्तरानं रजोजल्लानं लेसस्सपि अभावतो देवानं सरीरगतानि वत्थानि सब्बकालं परिसुद्धपभस्सरानेव हुत्वा तिट्ठन्तीति आह ‘‘वत्थेसुपि एसेव नयो’’ति. नेव सीतं न उण्हन्ति यस्स सीतस्स पतीकारवसेन अधिकं सेवियमानं उण्हं, सयमेव वा खरतरं हुत्वा अधिभवन्तं सरीरे सेदं उप्पादेय्य, तादिसं नेव सीतं न उण्हं होति. तस्मिं कालेति यथावुत्ते मरणासन्नकाले. बिन्दुबिन्दुवसेनाति मुत्तगुळिका विय बिन्दु बिन्दु हुत्वा सेदा मुच्चन्ति. दन्तानं खण्डितभावो खण्डिच्चं. केसानं पलितभावो पालिच्चं. आदि-सद्देन वलित्तचतं सङ्गण्हाति. किलन्तरूपो अत्तभावो होति, न पन खण्डिच्चपालिच्चादीहीति अधिप्पायो. उक्कण्ठिताति अनभिरति, सा नत्थि उपरूपरि उळारुळारानमेव भोगानं विसेसतो रुचिजनकानं उपतिट्ठनतो.
पण्डिता एवाति बुद्धिसम्पन्ना एव देवता. यथा देवता ‘‘सम्पति जाता कीदिसेन पुञ्ञकम्मेन इध निब्बत्ता’’ति चिन्तेत्वा, ‘‘इमिना नाम पुञ्ञकम्मेन इध निब्बत्ता’’ति जानन्ति, एवं अतीतभवे अत्तना कतं एकच्चं अञ्ञम्पि पुञ्ञं जानन्तियेव महापुञ्ञाति आह – ‘‘ये महापुञ्ञा’’तिआदि.
न पञ्ञायन्ति चिरतरकालत्ता परमायुनो. अनिय्यानिकन्ति न निय्यानावहं सत्तानं अभाजनभावतो. सत्ता न परमायुनो होन्ति नाम पापुस्सन्नतायाति आह – ‘‘तदा हि सत्ता उस्सन्नकिलेसा होन्ती’’ति. एत्थाह – ‘‘कस्मा सम्बुद्धा मनुस्सलोके एव उप्पज्जन्ति, न देवब्रह्मलोकेसू’’ति. देवलोके ताव नुप्पज्जन्ति ब्रह्मचरियवासस्स अनोकासभावतो तथा अनच्छरियभावतो. अच्छरियधम्मा हि बुद्धा भगवन्तो, तेसं सा अच्छरियधम्मता देवत्तभावे ठितानं न पाकटा होति यथा मनुस्सभूतानं. देवभूते हि सम्मासम्बुद्धे दिस्समानं बुद्धानुभावं देवानुभावतोव लोको दहति, न बुद्धानुभावतो, तथा सति सम्मासम्बुद्धे नाधिमुच्चति न सम्पसीदति इस्सरकुत्तग्गाहं न विस्सज्जेति, देवत्तभावस्स च चिरकालपवत्तनतो एकच्चसस्सतवादतो न परिमुच्चति. ‘‘ब्रह्मलोके नुप्पज्जन्ती’’ति एत्थापि एसेव नयो. सत्तानं तादिसगाहविमोचनत्थञ्हि बुद्धा भगवन्तो मनुस्ससुगतियंयेव उप्पज्जन्ति; न देवसुगतियं, मनुस्ससुगतियं उप्पज्जन्तापि ओपपातिका न होन्ति, सति च ओपपातिकूपपत्तियं वुत्तदोसानतिवत्तनतो. धम्मवेनेय्यानं अत्थाय धम्मतन्तिया ठपनस्स विय धातुवेनेय्यानं अत्थाय धातूनं ठपनस्स इच्छितब्बत्ता च. न हि ओपपातिकानं परिनिब्बानतो उद्धं सरीरधातुयो तिट्ठन्ति, तस्मा न ओपपातिका होन्ति, चरिमभवे च महाबोधिसत्ता, मनुस्सभावस्स पाकटकरणाय दारपरिग्गहम्पि करोन्ता याव पुत्तमुखदस्सना अगारमज्झे तिट्ठन्ति. परिपाकगतसीलनेक्खम्मपञ्ञादिपारमिकापि न अभिनिक्खमन्ति, किं वा एताय कारणचिन्ताय? सब्बबुद्धेहि आचिण्णसमाचिण्णा, यदिदं मनुस्सभूतानंयेव अभिसम्बुज्झना, न देवभूतानन्ति अयमेत्थ धम्मता. तथा हि तदत्थो महाभिनीहारोपि मनुस्सभूतानंयेव इज्झति, न इतरेसं.
कस्मा पन सम्मासम्बुद्धा जम्बुदीपेयेव उप्पज्जन्ति, न सेसदीपेसूति? केचि ताव आहु – ‘‘यस्मा पथविया नाभिभूता बुद्धानुभावसहिता अचलट्ठानभूता बोधिमण्डभूमि जम्बुदीपेयेव उप्पज्जति, तस्मा जम्बुदीपेयेव उप्पज्जन्ती’’ति; ‘‘तथा इतरेसम्पि अविजहितट्ठानानं तत्थेव लब्भमानतो’’ति. अयं पनेत्थ अम्हाकं खन्ति – यस्मा पुरिमबुद्धानं महाबोधिसत्तानं पच्चेकबुद्धानञ्च निब्बत्तिया सावकबोधिसत्तानं सावकबोधिया अभिनीहारो सावकपारमीनं सम्भरणं परिपाचनञ्च बुद्धखेत्तभूते इमस्मिं चक्कवाळे जम्बुदीपेयेव इज्झति, न अञ्ञत्थ. वेनेय्यानं विनयनत्थो च बुद्धुप्पादोति अग्गसावकादिवेनेय्यविसेसापेक्खाय एकस्मिं जम्बुदीपेयेव बुद्धा निब्बत्तन्ति, न सेसदीपेसु. अयञ्च नयो सब्बबुद्धानं आचिण्णसमाचिण्णोति तेसं उत्तमपुरिसानं तत्थेव उप्पत्ति सम्पत्तिचक्कानं विय अञ्ञमञ्ञुपनिस्सयतो अपरापरं वत्ततीति दट्ठब्बं. तेनाह – ‘‘तीसु दीपेसु बुद्धा न निब्बत्तन्ति, जम्बुदीपेयेव निब्बत्तन्तीति दीपं पस्सती’’ति. इमिना नयेन देसनियमेपि कारणं वत्तब्बं.
इदानि च खत्तियकुलं लोकसम्मतं ब्राह्मणानम्पि पूजनीयभावतो. राजा मे पिता भविस्सतीति कुलं पस्सि पितुवसेन कुलस्स निद्दिसितब्बतो. दसन्नं मासानं उपरि सत्त दिवसानीति पस्सि तेन अत्तनो अन्तरायाभावं अञ्ञासि, तस्सा च तुसितभवे दिब्बसम्पत्तिपच्चनुभवनं.
ता देवताति दससहस्सिचक्कवाळदेवता. कथं पन ता बोधिसत्तस्स पूरितपारमिभावं भाविनञ्च सम्बुद्धभावं जानन्तीति? महेसक्खानं देवतानं वसेन, येभुय्येन च ता देवता अभिसमयभागिनो. तथा हि भगवतो च धम्मदानसंविभागे अनेकवारं दससहस्सचक्कवाळवासिदेवतासन्निपातो अहोसि.
चवामीति पजानाति चुतिआसन्नजवनेहि ञाणसहितेहि चुतिया उपट्ठितभावस्स पटिसंविदितत्ता. चुतिचित्तं न जानाति चुतिचित्तक्खणस्स इत्तरभावतो. तथा हि तं चुतूपपातञाणस्सपि अविसयो एव. पटिसन्धिचित्तेपि एसेव नयो. आवज्जनपरियायोति आवज्जनक्कमो. यस्मा एकवारं आवज्जितमत्तेन आरम्मणं निच्छिनितुं न सक्का, तस्मा तमेवारम्मणं दुतियं ततियञ्च आवज्जित्वा निच्छीयति, आवज्जनसीसेन चेत्थ जवनवारो गहितो. तेनाह – ‘‘दुतियततियचित्तवारेयेव जानिस्सती’’ति. चुतिया पुरेतरं कतिपयचित्तवारतो पट्ठाय मरणं मे आसन्नन्ति जाननतो, ‘‘चुतिक्खणेपि चवामीति पजानाती’’ति वुत्तं. पटिसन्धिया पन अपुब्बभावतो पटिसन्धिचित्तं न जानाति. निकन्तिया उप्पत्तितो परतो असुकस्मिं ठाने मया पटिसन्धि गहिताति पजानाति, दुतियजवनतो पट्ठाय जानातीति वुत्तोवायमत्थो. तस्मिं कालेति पटिसन्धिग्गहणकाले. दससहस्सी कम्पतीति एत्थ कम्पनकारणं हेट्ठा वुत्तमेव. महाकारुणिका बुद्धा भगवन्तो सत्तानं हितसुखविधानतप्परताय बहुलं सोमनस्सिकाव होन्तीति तेसं पठममहाविपाकचित्तेन पटिसन्धिग्गहणं अट्ठकथायं (दी. नि. अट्ठ. २.१७; ध. स. ४९८; म. नि. अट्ठ. ३.१९९) वुत्तं. महासीवत्थेरो पन यदिपि महाकारुणिका बुद्धा भगवन्तो सत्तानं हितसुखविधानतप्परा, विवेकज्झासया पन विसङ्खारनिन्ना सब्बसङ्खारेसु अज्झुपेक्खणबहुलाति पञ्चमेन महाविपाकचित्तेन पटिसन्धिग्गहणमाह.
पुरे पुण्णमाय सत्तमदिवसतो पट्ठायाति पुण्णमाय पुरे सत्तमदिवसतो पट्ठाय, सुक्कपक्खे नवमितो पट्ठायाति अत्थो. सत्तमे दिवसेति आसाळ्हीपुण्णमाय. इदं सुपिनन्ति इदानि वुच्चमानाकारं सुपिनं. नेसं देवियोति महाराजूनं देवियो.
सो च खो पुरिसगब्भो, न इत्थिगब्भो, पुत्तो ते भविस्सतीति एत्तकमेव ते ब्राह्मणा अत्तनो सुपिनसत्थनयेन कथेसुं. सचे अगारं अज्झावसिस्सतीतिआदि पन देवताविग्गहेन भाविनमत्थं याथावतो पवेदेसुं.
गब्भावक्कन्तियोति एत्थ गब्भो वुच्चति मातुकुच्छि, तत्थ उप्पत्ति अवक्कन्ति, ताव गब्भावक्कन्ति, याव न निक्खमति. ठितकाव निक्खमन्ति धम्मासनतो ओतरन्तो धम्मकथिको विय.
२०१. वत्तमानसमीपे वत्तमाने विय वोहरीयतीति ओक्कमतीति वुत्तन्ति आह – ‘‘ओक्कन्तो होतीति अत्थो’’ति. एवं होतीति एवं वुत्तप्पकारेनस्स सम्पजानना होति. न ओक्कममाने पटिसन्धिक्खणस्स दुविञ्ञेय्यत्ता. तथा च वुत्तं – ‘‘पटिसन्धिचित्तं न जानाती’’ति. दससहस्सचक्कवाळपत्थरणेन वा अप्पमाणो. अतिविय समुज्जलभावेन उळारो. देवानुभावन्ति देवानं पभानुभावं. देवानञ्हि पभंसो ओभासो अधिभवति, न तेसं आधिपच्चं. तेनाह ‘‘देवान’’न्तिआदि.
रुक्खगच्छादिना केनचि न हञ्ञतीति अघा, अबाधा. तेनाह ‘‘निच्चविवटा’’ति. असंवुताति हेट्ठा उपरि च केन चि न पिहिता. तेनाह ‘‘हेट्ठापि अप्पतिट्ठा’’ति. तत्थ पि-सद्देन यथा हेट्ठा उदकस्स पिधायिका पथवी नत्थीति असंवुता लोकन्तरिका, एवं उपरिपि चक्कवाळेसु विय देवविमानानं अभावतो असंवुता अप्पतिट्ठाति दस्सेति. अन्धकारो एत्थ अत्थीति अन्धकारा. चक्खुविञ्ञाणं न जायति आलोकस्साभावतो, न चक्खुनो. तथा हि ‘‘तेन ओभासेन अञ्ञमञ्ञं सञ्जानन्ती’’ति वुत्तं. जम्बुदीपे ठितमज्झन्हिकवेलायं पुब्बविदेहवासीनं अत्थङ्गमनवसेन उपड्ढं सूरियमण्डलं पञ्ञायति, अपरगोयानवासीनं उग्गमनवसेन, एवं सेसदीपेसुपीति आह – ‘‘एकप्पहारेनेव तीसु दीपेसु पञ्ञायन्ती’’ति. इतो अञ्ञथा पन द्वीसु एव दीपेसु एकप्पहारेनेव पञ्ञायतीति. एकेकाय दिसाय नव नव योजनसतसहस्सानि अन्धकारविधमनम्पि इमिना नयेन दट्ठब्बं. पभाय नप्पहोन्तीति अत्तनो पभाय ओभासितुं न अभिसम्भुणन्ति. युगन्धरपब्बतमत्थकप्पमाणे आकासे विचरणतो, ‘‘चक्कवाळपब्बतस्स वेमज्झेन चरन्ती’’ति वुत्तं.
वावटाति खादनत्थं गण्हितुं उपक्कमन्ता. विपरिवत्तित्वाति विवट्टित्वा. छिज्जित्वाति मुच्छापत्तिया ठितट्ठानतो मुच्चित्वा, अङ्गपच्चङ्गच्छेदनवसेन वा छिज्जित्वा. अच्चन्तखारेति आतपसन्तापाभावेन अतिसीतभावं सन्धाय अच्चन्तखारता वुत्ता सिया. न हि तं कप्पसण्ठानउदकं सम्पत्तिकरमहामेघवुट्ठं पथवीसन्धारकं कप्पविनासकउदकं विय खारं भवितुमरहति. तथा हि सति पथवीपि विलीयेय्य. तेसं वा पापकम्मबलेन पेतानं पकतिउदकस्स पुब्बखेळभावापत्ति विय तस्स उदकस्स तदा खारभावापत्ति होतीति वुत्तं ‘‘अच्चन्तखारे उदके’’ति. समन्ततोति सब्बभागतो छप्पकारम्पि.
२०२. चतुन्नं महाराजूनं वसेनाति वेस्सवणादिचतुमहाराजभावसामञ्ञेन.
२०३. सभावेनेवाति परस्स सन्तिके गहणेन विना अत्तनो सभावेनेव सयमेव अधिट्ठहित्वा सीलसम्पन्ना.
मनुस्सेसूति इदं पकतिचारित्तवसेन वुत्तं – ‘‘मनुस्सित्थिया नाम मनुस्सपुरिसेसु पुरिसाधिप्पायचित्तं उप्पज्जेय्या’’ति, बोधिसत्तमातु पन देवेसूपि तादिसं चित्तं नुप्पज्जतेव. यथा बोधिसत्तस्स आनुभावेन बोधिसत्तस्स मातु पुरिसाधिप्पायचित्तं नुप्पज्जति, एवं तस्स आनुभावेनेव सा केनचि पुरिसेन अनतिक्कमनीयाति आह – ‘‘पादा न वहन्ति, दिब्बसङ्खलिका विय बज्झन्ती’’ति.
पुब्बे ‘‘कामगुणूपसंहितं चित्तं नुप्पज्जती’’ति वुत्तं, पुन ‘‘पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेती’’ति वुत्तं, कथमिदं अञ्ञमञ्ञं न विरुज्झतीति आह ‘‘पुब्बे’’तिआदि. वत्थुपटिक्खेपोति अब्रह्मचरियवत्थुपटिसेधो. तेनाह ‘‘पुरिसाधिप्पायवसेना’’ति. आरम्मणपटिलाभोति रूपादिपञ्चकामगुणारम्मणस्सेव पटिलाभो.
२०४. किलमथोति खेदो. कायस्स हि गरुभावकठिनभावादयोपि तस्सा तदा न होन्ति एव. ‘‘तिरोकुच्छिगतं पस्सती’’ति वुत्तं, कदा पट्ठाय पस्सतीति आह – ‘‘कललादिकालं अतिक्कमित्वा’’तिआदि. दस्सने पयोजनं सयमेव वदति, तस्स अभावतो कललादिकाले न पस्सति. पुत्तेनाति दहरेन मन्देन उत्तानसेय्यकेन. यं तं मातूतिआदि पकतिचारित्तवसेन वुत्तं. चक्कवत्तिगब्भतोपि हि सविसेसं बोधिसत्तगब्भो परिहारं लभति पुञ्ञसम्भारस्स सातिसयत्ता, तस्मा बोधिसत्तमाता अतिविय सप्पायाहाराचारा च हुत्वा सक्कच्चं परिहरति. पुरत्थाभिमुखोति मातु पुरत्थाभिमुखो. इदानि तिरोकुच्छिगतस्स दिस्समानताय अब्भन्तरं बाहिरञ्च कारणं दस्सेतुं, ‘‘पुब्बे कतकम्म’’न्तिआदि वुत्तं. अस्साति देविया. वत्थुन्ति कुच्छिं. फलिकअब्भपटलादिनो विय बोधिसत्तमातुकुच्छितचस्स पटलभावेन आलोकस्स विबन्धाभावतो यथा बोधिसत्तमाता कुच्छिगतं बोधिसत्तं पस्सति, किमेवं बोधिसत्तोपि मातरं अञ्ञञ्च पुरतो रूपगतं पस्सति, नोति आह, ‘‘बोधिसत्तो पना’’तिआदि. कस्मा पन सति चक्खुम्हि आलोके च न पस्सतीति आह – ‘‘न हि अन्तोकुच्छियं चक्खुविञ्ञाणं उप्पज्जती’’ति. अस्सासपस्सासा विय हि तत्थ चक्खुविञ्ञाणम्पि न उप्पज्जति तज्जासमन्नाहारस्साभावतो.
२०५. यथा अञ्ञा इत्थियो विजातपच्चया तादिसेन रोगेन अभिभूतापि हुत्वा मरन्ति, बोधिसत्तमातु पन बोधिसत्ते कुच्छिगते न कोचि रोगो उप्पज्जति; केवलं आयुपरिक्खयेनेव कालं करोति, स्वायमत्थो हेट्ठा वुत्तोयेव. बोधिसत्तेन वसितट्ठानं हीतिआदिना तत्थ कारणमाह. अपनेत्वाति अग्गमहेसिट्ठानतो नीहरित्वा. अनुरक्खितुं न सक्कोतीति सम्मा गब्भपरिहारं नानुयुञ्जति, तेन गब्भो बह्वाबाधो होति. वत्थुविसदं होतीति गब्भासयो परिसुद्धो होति. मातु मज्झिमवयस्स ततियकोट्ठासे बोधिसत्तस्स गब्भोक्कमनम्पि तस्सा आयुपरिमाणविलोकनेनेव सङ्गहितं वयोवसेन उप्पज्जनकविकारस्स परिवज्जनतो, इत्थिसभावेन उप्पज्जनकविकारो पन बोधिसत्तस्स आनुभावेनेव वूपसम्मति.
सत्तमासजातोति पटिसन्धिग्गहणतो सत्तमे मासे जातो. सो सीतुण्हक्खमो न होति अतिविय सुखुमालताय. अट्ठमासजातो कामं सत्तमासजाततो बुद्धिअवयवो, एकच्चे पन चम्मपदेसा बुद्धिं पापुणन्ता घट्टनं न सहन्ति, तेन सो न जीवति. सत्तमासजातस्स पन न ताव ते जाताति वदन्ति.
ठिताव हुत्वाति निद्दुक्खताय ठिता एव हुत्वा. दुक्खस्स हि बलवभावतो तं दुक्खं असहमाना अञ्ञा इत्थियो निसिन्ना वा निपन्ना वा विजायन्ति. उपविजञ्ञाति उपगतविजायनकाला. सकलनगरवासिनोति कपिलवत्थुं परिवारेत्वा ठितेसु देवदहादीसु छसु नगरेसु वसन्ता.
देवा नं पठमं पटिग्गण्हन्तीति लोकनाथं महापुरिसं मयमेव पठमं पटिग्गण्हामाति सञ्जातगारवबहुमाना अत्तनो पीतिं पवेदेन्ता खीणासवा सुद्धावासब्रह्मानो आदितो पटिग्गण्हन्ति. सूतिवेसन्ति सूतिजग्गनधातिवेसं. एकेति उत्तरविहारवासिनो. मच्छक्खिसदिसं छविवसेन.
२०६. अजिनप्पवेणियाति अजिनचम्मेहि सिब्बेत्वा कतपवेणिया. महातेजोति महानुभावो. महायसोति महापरिवारो विपुलकित्तिघोसो च.
भग्गविभग्गाति सम्बाधट्ठानतो निक्खमनेन विभावितत्ता भग्गा विभग्गा विय च हुत्वा. तेन नेसं अविसदभावमेव दस्सेति. अलग्गो हुत्वाति गब्भासये योनिपदेसे च कत्थचि अलग्गो असत्तो हुत्वा. उदकेनाति गब्भासयगतेन उदकेन अमक्खितो निक्खमति सम्मक्खितस्स तादिसस्स उदकसेम्हादिकस्सेव तत्थ अभावतो. बोधिसत्तस्स हि पुञ्ञानुभावेन पटिसन्धिग्गहणतो पट्ठाय तं ठानं विसुद्धं परमसुगन्धगन्धकुटि विय चन्दनगन्धं वायन्तं तिट्ठति. उदकवट्टियोति उदकक्खन्धा.
२०७. मुहुत्तजातोति मुहुत्तेन जातो हुत्वा मुहुत्तमत्तोव. अनुधारियमानेति अनुकूलवसेन नीयमाने. आगतानेवाति तं ठानं उपगतानि एव.
अनेकसाखन्ति रतनमयानेकसतपतिट्ठानहीरकं. सहस्समण्डलन्ति तेसं उपरि पतिट्ठितं अनेकसहस्समण्डलहीरकं. मरूति देवा.
न खो पनेवं दट्ठब्बन्ति सत्तपदवीतिहारतो पगेव दिसाविलोकनस्स कतत्ता. तेनाह ‘‘महासत्तो ही’’तिआदि. एकङ्गणानीति विवटभावेन विहारङ्गणपरिवेणङ्गणानि विय एकङ्गणसदिसानि अहेसुं. सदिसोपि नत्थीति तुम्हाकं इदं विलोकनं विसिट्ठे पस्सितुं इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरोति आहंसु. सब्बपठमोति सब्बप्पधानो. पधानपरियायो हि इध पठमसद्दो. तेनाह ‘‘इतरानी’’तिआदि. एत्थ च महेसक्खा ताव देवा तथा वदन्ति, इतरे पन कथन्ति? महासत्तस्स आनुभावदस्सनेनेव. महेसक्खानञ्हि देवानं महासत्तस्स आनुभावो विय तेन सदिसानम्पि आनुभावो पच्चक्खो अहोसि. इतरे पन तेसं वचनं सुत्वा सद्दहन्ता अनुमिनन्ता तथा आहंसु.
जातमत्तस्सेव बोधिसत्तस्स ठानादीनि येसं विसेसाधिगमानं पुब्बनिमित्तभूतानीति ते निद्धारेत्वा दस्सेन्तो, ‘‘एत्थ चा’’तिआदिमाह. तत्थ पतिट्ठानं चतुइद्धिपादपटिलाभस्स पुब्बनिमित्तं इद्धिपादवसेन लोकुत्तरधम्मेसु सुप्पतिट्ठितभावसमिज्झनतो. उत्तराभिमुखभावो लोकस्स उत्तरणवसेन गमनस्स पुब्बनिमित्तं. सत्तपदगमनं सत्तबोज्झङ्गादिगमनस्स पुब्बनिमित्तं, विसुद्धछत्तधारणं सुविसुद्धविमुत्तिछत्तधारणस्स पुब्बनिमित्तं, पञ्चराजककुधभण्डानि पञ्चविधविमुत्तिगुणपरिवारताय पुब्बनिमित्तं, अनावटदिसानुविलोकनं अनावटञाणताय पुब्बनिमित्तं, ‘‘अग्गोहमस्मी’’तिआदिवचनं अप्पटिवत्तियधम्मचक्कपवत्तनस्स पुब्बनिमित्तं; अयमन्तिमा जातीति आयतिं जातिया अभावकित्तना अनुपादि…पे… पुब्बनिमित्तन्ति वेदितब्बं; तस्स तस्स अनागते लद्धब्बविसेसस्स तं तं निमित्तं अब्यभिचारीनिमित्तन्ति दट्ठब्बं. न आगतोति इमस्मिं सुत्ते अञ्ञत्थ च वक्खमानाय अनुपुब्बिया अनागततं सन्धाय वुत्तं. आहरित्वाति तस्मिं तस्मिं सुत्ते अट्ठकथासु च आगतनयेन आहरित्वा दीपेतब्बो.
दससहस्सिलोकधातु कम्पीति पन इदं सतिपि इध पाळियं आगतत्ते वक्खमानानमच्छरियानं मूलभूतं दस्सेतुं वुत्तं, एवं अञ्ञम्पीदिसं दट्ठब्बं. तन्ति बद्धा वीणा, चम्मबद्धा भेरियोति पञ्चङ्गिकतूरियस्स निदस्सनमत्तं, च-सद्देन वा इतरेसम्पि सङ्गहो दट्ठब्बो. भिज्जिंसूति पादेसु बद्धट्ठानेसुयेव भिज्जिंसु. विगच्छिंसूति वूपसमिंसु. सकतेजोभासितानीति अतिविय समुज्जलाय अत्तनो पभाय ओभासितानि अहेसुं. न पवत्तीति न सन्दी. वातो न वायीति खरो वातो न वायि, मुदुसुखो पन सत्तानं सुखावहो वायि. पथवीगता अहेसुं उच्चट्ठाने ठातुं अविसहन्ता. उतुसम्पन्नोति अनुण्हासीततासङ्खातेन उतुना सम्पन्नो. वामहत्थं उरे ठपेत्वा दक्खिणेन पुथुपाणिना हत्थताळनेन सद्दकरणं अप्फोटनं. मुखेन उस्सेळनं सद्दमुञ्चनं सेळनं. एकद्धजमाला अहोसीति एत्थ इति-सद्दो आदिअत्थो. तेन विचित्तपुप्फसुगन्धपुप्फवस्सदेवा वस्सिंसु, सूरिये दिब्बमाने एव तारका ओभासिंसु, अच्छं विप्पसन्नं उदकं पथवितो उब्भिज्जि, बिलासया दरिसया तिरच्छाना आसयतो निक्खमिंसु; रागदोसमोहापि तनु भविंसु, पथवियं रजो वूपसमि, अनिट्ठगन्धो विगच्छि, दिब्बगन्धो वायि, रूपिनो देवा सरूपेनेव मनुस्सानं आपाथमगमंसु, सत्तानं चुतुपपाता नाहेसुन्ति इमेसं सङ्गहो दट्ठब्बो. यानि महाभिनीहारसमये उप्पन्नानि द्वत्तिंस पुब्बनिमित्तानि, तानि अनवसेसानि तदा अहेसुन्ति.
तत्रापीति तेसुपि पथविकम्पादीसु एवं पुब्बनिमित्तभावो वेदितब्बो, न केवलं सम्पतिजातस्स ठानादीसु एवाति अधिप्पायो. सब्बञ्ञुतञ्ञाणपटिलाभस्स पुब्बनिमित्तं सब्बस्स ञेय्यस्स तित्थकरमतस्स च चालनतो. केनचि अनुस्साहितानंयेव इमस्मिंयेव एकचक्कवाळे सन्निपातो, केनचि अनुस्साहितानंयेव एकप्पहारेनेव सन्निपतित्वा धम्मपटिग्गण्हनस्स पुब्बनिमित्तं, पठमं देवतानं पटिग्गहणं दिब्बविहारपटिलाभस्स, पच्छा मनुस्सानं पटिग्गहणं तत्थेव ठानस्स निच्चलसभावतो आनेञ्जविहारपटिलाभस्स पुब्बनिमित्तं. वीणानं सयं वज्जनं परूपदेसेन विना सयमेव अनुपुब्बविहारपटिलाभस्स पुब्बनिमित्तं. भेरीनं वज्जनं चक्कवाळपरियन्ताय परिसाय पवेदनसमत्थस्स धम्मभेरिया अनुसावनस्स अमतदुन्दुभिघोसनस्स पुब्बनिमित्तं. अन्दुबन्धनादीनं छेदो मानविनिबन्धछेदनस्स पुब्बनिमित्तं; सुपट्टनसम्पापुणनं अत्थादि अनुरूपं अत्थादीसु ञाणस्स भेदाधिगमस्स पुब्बनिमित्तं.
निब्बानरसेनाति किलेसानं निब्बायनरसेन. एकरसभावस्साति सासनस्स सब्बत्थ एकरसभावस्स. वातस्स अवायनं किस्स पुब्बनिमित्तन्ति आह ‘‘द्वासट्ठिदिट्ठिगतभिन्दनस्सा’’ति. आकासादिअप्पतिट्ठविसमचञ्चलट्ठानं पहाय सकुणानं पथवीगमनं तादिसं मिच्छागाहं पहाय सत्तानं पाणेहि रतनत्तयसरणगमनस्स पुब्बनिमित्तं. देवतानं अप्फोटनादीहि कीळनं पमोदनुप्पत्तिउदानस्स भववन्तगमनेन धम्मसभावबोधनेन च पमोदविभावनस्स पुब्बनिमित्तं. धम्मवेगवस्सनस्साति देसनाञाणवेगेन धम्मामतस्स वस्सनस्स पुब्बनिमित्तं. कायगतासतिवसेन लद्धज्झानं पादकं कत्वा उप्पादितमग्गफलसुखानुभवो कायगतासतिअमतपटिलाभो, तस्स पन कायस्सपि अतप्पकसुखावहत्ता खुदापिपासापीळनाभावो पुब्बनिमित्तं वुत्तो. अरियद्धजमालामालितायाति सदेवकस्स लोकस्स अरियमग्गबोज्झङ्गधजमालाहि मालितभावस्स पुब्बनिमित्तं. यं पनेत्थ अनुद्धटं, तं सुविञ्ञेय्यमेव.
एत्थाति ‘‘सम्पतिजातो’’तिआदिना आगते इमस्मिं ठाने. विस्सज्जितोव, तस्मा अम्हेहि इध अपुब्बं वत्तब्बं नत्थीति अधिप्पायो. तदा पथवियं गच्छन्तोपि महासत्तो आकासेन गच्छन्तो विय महाजनस्स उपट्ठासीति अयमेत्थ नियति धम्मनियामो बोधिसत्तानं धम्मताति इदं नियतिवादवसेन कथनं. ‘‘पुब्बे पुरिमजातीसु तादिसस्स पुञ्ञसम्भारकम्मस्स कतत्ता उपचितत्ता महाजनस्स तथा उपट्ठासी’’ति इदं पुब्बेकतकम्मवादवसेन कथनं. इमेसं सत्तानं उपरि ईसनसीलताय यथासकं कम्ममेव इस्सरो नाम, तस्स निम्मानं अत्तनो फलस्स निब्बत्तनं, महापुरिसोपि सदेवकं लोकं अभिभवितुं समत्थेन उळारेन पुञ्ञकम्मुना निब्बत्तितो तेन इस्सरेन निम्मितो नाम, तस्स चायं निम्मानविसेसो, यदिदं महानुभावता. याय महाजनस्स तथा उपट्ठासीति इदं इस्सरनिम्मानवादवसेन कथनं. एवं तं तं बहुं वत्वा किं इमाय परियायकथायाति अवसाने उजुकमेव एवं ब्याकासि. सम्पतिजातो पथवियं कथं पदसा गच्छति, एवंमहानुभावो आकासेन मञ्ञे गच्छतीति परिकप्पनस्स वसेन आकासेन गच्छन्तो विय अहोसि. सीघतरं पन सत्तपदवीतिहारेन गतत्ता दिस्समानरूपोपि महाजनस्स अदिस्समानो विय अहोसि. अचेलकभावो खुद्दकसरीरता च तादिसस्स इरियापथस्स अननुच्छविकाति कम्मानुभावसञ्जनितपाटिहारियवसेन अलङ्कारपटियत्तो विय; सोळसवस्सुद्देसिको विय च महाजनस्स उपट्ठासीति वेदितब्बं; बुद्धभावानुच्छविकस्स बोधिसत्तानुभावस्स याथावतो पवेदितत्ता बुद्धेन विय…पे… अत्तमना अहोसि.
पाकटा हुत्वाति विभूता हुत्वा. बुद्धानं ये ये सङ्खारे ववत्थपेतुकामा, ते ते उप्पादक्खणेपि सब्बसो सुप्पटिविदिता सुपाकटा हत्थतले आमलकं विय सुट्ठु विभूता एव हुत्वा उपट्ठहन्ति. तेनाह ‘‘यथा ही’’तिआदि. अनोकासगतेति परिग्गहस्स अनोकासकाले पवत्ते. निप्पदेसेति निरवसेसे. ओकासप्पत्तेति ठानगमनादिकाले उप्पन्ने, ते हि सम्मसनस्स योग्यकाले उप्पत्तिया ओकासप्पत्ताति अधिप्पायो. सत्तदिवसब्भन्तरेति इदं बुद्धानं पाकतिकसम्मसनवसेन वुत्तं, आकङ्खन्ता पन ते यदा कदाचि उप्पन्नसङ्खारे सम्मसन्तियेव. सेसं सुविञ्ञेय्यमेव.
अच्छरियब्भुतसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.