१. चूळसुञ्ञतसुत्तवण्णना
१७६. कालपरिच्छेदं कत्वाति समापज्जन्तेहि नाम कालपरिच्छेदो कातब्बो. थेरो पन भगवतो वत्तकरणत्थं कालपरिच्छेदं करोति, ‘‘एत्तके काले वीतिवत्ते इदं नाम भगवतो कातब्ब’’न्ति. सो तत्थकंयेव समापत्तिं समापज्जित्वा वुट्ठाति, तं सन्धाय वुत्तं ‘‘कालपरिच्छेदं कत्वा’’ति. सुञ्ञताफलसमापत्तिं अप्पेत्वाति एतेन इतरे, ‘‘न सोतापन्नसकदागामी फलसमापत्तिं समापज्जन्ती’’ति वदन्ति, तं वादं पटिसेधेति. सुञ्ञतोति अत्तसुञ्ञतो च निच्चसुञ्ञतो च सङ्खारा उपट्ठहिंसु. सेक्खानञ्हि सुञ्ञतापटिवेधो पादेसिको सुभसुखसञ्ञानं अप्पहीनत्ता, तस्मा सो थेरो सुञ्ञताकथं सोतुकामो जातो. धुरेन धुरं पहरन्तेन वियाति रथधुरेन रथधुरं पहरन्तेन विय कत्वा उजुकमेव सुञ्ञता…पे… वत्थुं न सक्काति योजना. एकं पदन्ति एकं सुञ्ञतापदं.
पुब्बेपाहन्तिआदिना भगवा पठमबोधियम्पि अत्तनो सुञ्ञताविहारबाहुल्लं पकासेतीति दस्सेन्तो ‘‘पठमबोधियम्पी’’ति आह. एकोतिआदि थेरस्स सुञ्ञताकथाय भाजनभावदस्सनत्थं. सोतुन्ति अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा सोतुम्पि. उग्गहेतुम्पिति यथाभूतं धम्मं धारणपरिपुच्छापरिचयवसेन हदयेन उग्गहितं सुवण्णभाजने पक्खित्तसीहवसा विय अविनट्ठे कातुम्पि. कथेतुम्पीति वित्थारेन परेसं दस्सेतुम्पि सक्का. तत्थाति मिगारमातुपासादे. कट्ठरूपपोत्थकरूपचित्तरूपवसेन कताति थम्भादीसु उत्तिरित्वा कतानं कट्ठरूपानं, निय्यूहादीसु पटिमावसेन रचितानं पोत्थकरूपानं, सित्तिपस्से चित्तकम्मवसेन विरचितानं चित्तरूपानञ्च कता निट्ठपिता. वेस्सवणमन्धातादीनन्ति पटिमारूपेन कतानं वेस्सवणमन्धातुसक्कादीनं. चित्तकम्मवसेनाति आरामादिचित्तकम्मवसेन. सण्ठितम्पीति अवयवभावेन सण्ठितं हुत्वा ठितम्पि. जिण्णपटिसङ्खरणत्थन्ति जिण्णानं निय्यूहकूटागारपासादावयवानं अभिसङ्खरणत्थाय तस्मिं तस्मिं ठाने रहस्ससञ्ञाणेन ठपितं. ‘‘परिभुञ्जिस्सामी’’ति तस्मिं तस्मिं किच्चे विनियुञ्जनवसेन परिभुञ्जितब्बस्स. एतं वुत्तन्ति, ‘‘अयं मिगारमातुपासादो सुञ्ञो’’तिआदिकं वुत्तं.
निच्चन्ति सब्बकालं रत्तिञ्च दिवा च. एकभावं एकं असुञ्ञतन्ति पच्चत्ते उपयोगवचनं, एकत्तं एको असुञ्ञतोति अत्थो. गामोति पवत्तनवसेनाति गेहसन्निवेसवीथिचच्चरसिङ्घाटकादिके उपादाय गामोति लोकुप्पत्तिवसेन. किलेसवसेनाति तत्थ अनुनयपटिघवसेन. एसेव नयोति इमिना ‘‘पवत्तवसेन वा किलेसवसेन वा उप्पन्नं मनुस्ससञ्ञ’’न्ति इममत्थं अतिदिसति. एत्थ च यथा गामग्गहणेन घरादिसञ्ञा सङ्गहिता, एवं मनुस्सग्गहणेन इत्थिपुरिसादिसञ्ञा सङ्गहिता. यस्मा रुक्खादिके पटिच्च अरञ्ञसञ्ञा तत्थ पब्बतवनसण्डादयो अन्तोगधा, तस्मा तत्थ विज्जमानम्पि तं विभागं अग्गहेत्वा एकं अरञ्ञंयेव पटिच्च अरञ्ञसञ्ञं मनसि करोति. ओतरतीति अनुप्पविसति. अधिमुच्चतीति निच्छिनोति. पवत्तदरथाति तथारूपाय पस्सद्धिया अभावतो ओळारिकधम्मप्पवत्तिसिद्धा दरथा. किलेसदरथाति अनुनयपटिघसम्भवा किलेसदरथा. दुतियपदेति ‘‘ये अस्सु दरथा मनुस्ससञ्ञं पटिच्चा’’ति इमस्मिं पदे. मनसिकारसन्तताय, – ‘‘नायं पुब्बे विय ओळारिका, धम्मप्पवत्ती’’ति सङ्खारदस्सनदरथानं सुखुमता सल्लहुकता च चरितत्थाति आह ‘‘पवत्तदरथमत्ता अत्थी’’ति.
यं किलेसदरथजातं, तं इमिस्सा दरथसञ्ञाय न होतीति योजना. पवत्तदरथमत्तं अवसिट्ठं होति, विज्जमानमेव अत्थि इदन्ति पजानातीति योजना. सुञ्ञता निब्बत्तीति सुञ्ञतन्ति पवत्ति. सुञ्ञता सहचरितञ्हि सुञ्ञं, इध सुञ्ञताति वुत्ता.
१७७. अस्साति भगवतो एवं इदानि वुच्चमानाकारेन चित्तप्पवत्ति अहोसि. अच्चन्तसुञ्ञतन्ति ‘‘परमानुत्तर’’न्ति वुत्तं अरहत्तं देसेस्सामीति. अरञ्ञसञ्ञाय विसेसानधिगमनतोति, ‘‘अरञ्ञं अरञ्ञ’’न्ति मनसिकारेन झानादिविसेसस्स अधिगमाभावतो, ‘‘पथवी’’ति मनसिकारेन विसेसाधिगमनतो. इदानि तमेवत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. एवं सन्तेति एवं वपिते सालिआदयो सम्पज्जन्ति. धुवसेवनन्ति नियतसेवनं पारिहारियकम्मट्ठानं. पटिच्चाति एत्थ ‘‘सम्भूत’’न्ति वचनसेसो इच्छितोति आह ‘‘पटिच्च सम्भूत’’न्ति. पथविं पटिच्च सम्भूता हि सञ्ञाति.
पथवीकसिणे सो पथवीसञ्ञी होति, न पकतिपथवियं. तस्साति पथवीकसिणस्स. तेहीति गण्डादीहि. सुट्ठु विहतन्ति यथा वलीनं लेसोपि न होति, एवं सम्मदेव आकोटितं. नदीतळाकादीनं तीरप्पदेसो उदकस्स आकरट्ठेन कूलं, उन्नतभावतो उग्गतं कूलं वियाति उक्कूलं, भूमिया उच्चट्ठानं. विगतं कूलन्ति विक्कूलं, नीचट्ठानं. तेनाह ‘‘उच्चनीच’’न्ति. एकं सञ्ञन्ति एकं पथवीतिसञ्ञंयेव.
१८२. सतिपि सङ्खारनिमित्तविरहे यादिसानं निमित्तानं अभावेन ‘‘अनिमित्त’’न्ति वुच्चति, तानि दस्सेतुं, ‘‘निच्चनिमित्तादिविरहितो’’ति वुत्तं. चतुमहाभूतिकं चतुमहाभूतनिस्सितं. सळायतनपटिसंयुत्तं चक्खायतनादिसळायतनसहितं.
१८३. विपस्सनाय पटिविपस्सनन्ति धम्मानञ्च पुन विपस्सनं. इधाति अत्तनो पच्चक्खभूतयथाधिगतमग्गफलं वदतीति आह – ‘‘अरियमग्गे चेव अरियफले चा’’ति. उपादिसेसदरथदस्सनत्थन्ति सब्बसो किलेसुपधिया पहीनाय खन्धोपधि अविसिट्ठा, तप्पच्चया दरथा उपादिसेसदरथा, तं दस्सनत्थं. यस्मा विसयतो गामसञ्ञा ओळारिका, मनुस्ससञ्ञा सुखुमा, तस्मा मनुस्ससञ्ञाय गामसञ्ञं निवत्तेत्वा. यस्मा पन मनुस्ससञ्ञापि सभागवत्थुपरिग्गहतो ओळारिका, सभागवत्थुतो अरञ्ञसञ्ञा सुखुमा, तस्मा अरञ्ञसञ्ञाय मनुस्ससञ्ञं निवत्तेत्वा. पथवीसञ्ञादिनिवत्तने कारणं हेट्ठा सुत्तन्तरेसु च वुत्तमेव. अनुपुब्बेनाति मग्गप्पटिपाटिया. निच्चसारादीनं सब्बसो अवत्थुताय अच्चन्तमेव सुञ्ञत्ता अच्चन्तसुञ्ञता.
१८४. सुञ्ञतफलसमापत्तिन्ति सुञ्ञतविमोक्खस्स फलभूतत्ता, सुञ्ञतानुपस्सनाय वसेन समापज्जितब्बत्ता च सुञ्ञतफलसमापत्तिन्ति लद्धनामं अरहत्तफलसमापत्तिं. यस्मा अतीते पच्चेकसम्बुद्धा अहेसुं, अनागते भविस्सन्ति, इदानि पन बुद्धसासनस्स धरमानत्ता पच्चेकबुद्धा न वत्तन्ति, तस्मा पच्चेकबुद्धग्गहणं अकत्वा, ‘‘एतरहिपि बुद्धबुद्धसावकसङ्खाता’’इच्चेव वुत्तं. न हि बुद्धसासने धरन्ते पच्चेकबुद्धा भवन्ति. सेसं सुविञ्ञेय्यमेव.
चूळसुञ्ञतसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.