५. बहुधातुकसुत्तवण्णना

१२४. भयन्ति (अ. नि. टी. २.३.१) चित्तसंसप्पताति आह ‘‘चित्तुत्रासो’’ति. उपद्दवोति अन्तरायो. तस्स पन विक्खेपकारणत्ता वुत्तं ‘‘अनेकग्गताकारो’’ति. उपसग्गोति उपसज्जनं. ततो अप्पतीकारविघातापत्ति यस्मा पतीकाराभावेन विहञ्ञमानस्स किञ्चि कातुं असमत्थस्स ओसीदनकारणं, तस्मा वुत्तं – ‘‘तत्थ तत्थ लग्गनाकारो’’ति. वञ्चेत्वा आगन्तुं यथावुत्ते दिवसे अनागच्छन्तेसु. बहि अनिक्खमनत्थाय द्वारे अग्गिं दत्वा.

नळेहीति नळच्छन्नसङ्खेपेन उपरि छादेत्वा तेहियेव दारुकच्छदननियामेन परितोपि छादिता. एसेव नयोति इमिना तिणेहि छन्नतं, सेससम्भारानं रुक्खमयतञ्च अतिदिसति. विधवापुत्तेति अदन्तभावोपलक्खणं. ते हि निप्पितिका अविनीता असंयता अकिच्चकारिनो होन्ति.

मत्थकं अपापेत्वाव निट्ठापिताति कस्मा भगवा एवमकासीति? आनन्दत्थेरस्स पुच्छाकोसल्लदीपनत्थमेव, तत्थ निसिन्नानं सन्निपतितभिक्खूनं देसनाय जाननत्थञ्च. ते किर सङ्खेपतो वुत्तमत्थं अजानन्ता अन्धकारं पविट्ठा विय ठिता. पुच्छानुसन्धिवसेन परिग्गय्ह जानिस्सन्तीति.

१२५. रूपपरिग्गहोव कथितो, न अञ्ञं किञ्चीति अत्थो. इदानि ततो सच्चानि निद्धारेत्वा चतुसच्चकम्मट्ठानं दस्सेतुं, ‘‘सब्बापी’’तिआदि वुत्तं. पञ्चक्खन्धा होन्तीति अद्धेकादस धातुयो रूपक्खन्धो, अद्धट्ठमा धातुयो यथारहं वेदनादयो चत्तारो अरूपिनो खन्धाति एवं अट्ठारस धातुयो पञ्चक्खन्धा होन्ति. पञ्चपि खन्धा तण्हावज्जा दुक्खसच्चं. अप्पवत्तीति अप्पवत्तिनिमित्तं. निरोधपजाननाति पञ्ञासीसेन मग्गकिच्चमाह. सम्मादिट्ठिपमुखो हि अरियमग्गो. मत्थकं पापेत्वा कथितं होति सम्मसनस्स भूमिया निप्फत्तिया च कथितत्ता. जानाति पस्सतीति इमिना ञाणदस्सनं कथितं तं पन लोकियं लोकुत्तरन्ति दुविधन्ति तदुभयम्पि दस्सेन्तो आह – ‘‘सह विपस्सनाय मग्गो वुत्तो’’ति.

एत्तावतापि खोति पि-सद्दग्गहणेन अञ्ञेन परियायेन सत्था धातुकोसल्लं देसेतुकामोति थेरो, ‘‘सिया पन, भन्ते’’ति पुच्छतीति भगवा पथवीधातुआदिवसेनपि धातुकोसल्लं विभावेति. तत्थ पथवीधातुआदिसद्देन देसनाकारणं विभावेन्तो, ‘‘पथवीधातु…पे… वुत्ता’’ति आह. तापि हि आदितो छ धातुयो. ‘‘विञ्ञाणधातुतो नीहरित्वा पूरेतब्बा’’ति वत्वा कथं रूपधातुयो नीहरीयन्तीति चोदनं सन्धाय तं नयं दस्सेतुं, ‘‘विञ्ञाणधातू’’तिआदि वुत्तं. कामञ्चेत्थ कायविञ्ञाणधातुया आरम्मणं फोट्ठब्बधातुपथवीधातु आदिवसेन देसनारुळमेव, कायधातु पन नीहरितब्बाति एकंसमेव नीहरणविधिं दस्सेन्तो, ‘‘एस नयो सब्बत्था’’ति आह. पुरिमपच्छिमवसेन मनोधातूति पच्छिमभागवसेन किरियामनोधातु गहेतब्बा तस्सानुरूपभावतो. ननु चेत्थ मनोधातु नामायं मनोविञ्ञाणधातुया असंसट्ठा, विसुंयेव चेसा धातूति? सच्चमेतं अट्ठारसधातुदेसनाय, चित्तविभत्तिनिद्देसे छविञ्ञाणकायदेसनायं पन सा मनोविञ्ञाणकायसङ्गहितावाति दट्ठब्बं. यं पनेत्थ वत्तब्बं तं विसुद्धिमग्गसंवण्णनायं (विसुद्धि. महाटी. २.५१७) वुत्तनयेन वेदितब्बं. अथ वा पुरिमपच्छिमवसेनाति पुरेचरानुचरवसेन. मनोधातूति विपाकमनोधातु गहेतब्बा पुरेचरणतो, परतो उप्पज्जनकिरियामनोविञ्ञाणधातुया अनन्तरं मनोधातुया, किरियामनोधातुया अनन्तरं मनोविञ्ञाणधातुया अनुप्पज्जनतो च.

धम्मानं यावदेव निस्सत्तनिज्जीवविभावनत्थाय सत्थु धातुदेसनाति अञ्ञेसु सभावधारणादिअत्थेसु लब्भमानेसुपि अयमेत्थ अत्थो पधानोति आह – ‘‘एसनयो सब्बत्था’’ति. सप्पटिपक्खवसेनाति सप्पटिभागवसेन सुखं दुक्खेन सप्पटिभागं, दुक्खं सुखेन, एवं सोमनस्सदोमनस्साति. यथा सुखादीनंयेव समुदाचारो विभूतो, न उपेक्खाय, एवं रागादीनंयेव समुदाचारो विभूतो, न मोहस्स, तेन वुत्तं ‘‘अविभूतभावेना’’ति. कायविञ्ञाणधातु परिग्गहिताव होति तदविनाभावतो. सेसासु सोमनस्सधातुआदीसु, परिग्गहिताव होति अविनाभावतो एव. न हि सोमनस्सादयो मनोधातुया विना वत्तन्ति. उपेक्खाधातुतो नीहरित्वाति एत्थ चक्खुविञ्ञाणधातुआदयो चतस्सो विञ्ञाणधातुयो तासं वत्थारम्मणभूता चक्खुधातुआदयो चाति अट्ठ रूपधातुयो, मनोधातु, उपेक्खासहगता मनोविञ्ञाणधातु, उपेक्खासहगता एव धम्मधातूति एवं पन्नरस धातुयो उपेक्खाधातुतो नीहरितब्बा. सोमनस्सधातुआदयो पन चतस्सो धातुयो धम्मधातुअन्तोगधा, एवं सुखधातुतो कायविञ्ञाणधातुया तस्सा वत्थारम्मणभूतानं कायधातुफोट्ठब्बधातूनञ्च नीहरणा हेट्ठा दस्सितनयाति, ‘‘उपेक्खाधातुतो नीहरित्वा पूरेतब्बा’’इच्चेव वुत्तं.

कामवितक्कादयो इध कामधातुआदिपरियायेन वुत्ताति ‘‘कामधातुआदीनं द्वेधावितक्के कामवितक्कादीसु वुत्तनयेन अत्थो वेदितब्बो’’ति आह. तत्थ हि ‘‘कामवितक्कोति कामपटिसंयुत्तो वितक्को, ब्यापादवितक्कोति ब्यापादपटिसंयुत्तो वितक्को, विहिंसावितक्कोति विहिंसापटिसंयुत्तो वितक्को, नेक्खम्मपटिसंयुत्तो वितक्को नेक्खम्मवितक्को, सो याव पठमज्झाना वट्टति. अब्यापादपटिसंयुत्तो वितक्को अब्यापादवितक्को, सो मेत्तापुब्बभागतो पट्ठाय याव पठमज्झाना वट्टति. अविहिंसापटिसंयुत्तो वितक्को अविहिंसावितक्को, सो करुणाय पुब्बभागतो पट्ठाय याव पठमज्झाना वट्टती’’ति वुत्तं. अयं पनत्थो अभिधम्मे वित्थारतो आगतो एवाति दस्सेतुं, ‘‘अभिधम्मे’’तिआदि वुत्तं. कामधातुतो नीहरित्वाति एत्थ कामग्गहणेन गहिता रूपधातुआदयो छ, तंविसया सत्तविञ्ञाणधातुयो, तत्थ पञ्चन्नं विञ्ञाणधातूनं चक्खुधातुआदयो पञ्चाति अट्ठारस. नेक्खम्मधातुआदयो पन धम्मधातुअन्तोगधा एव.

कामतण्हाय विसयभूता धम्मा कामधातूति आह – ‘‘पञ्च कामावचरक्खन्धा कामधातू’’ति. तथा रूपतण्हाय विसयभूता धम्मा रूपधातु, अरूपतण्हाय विसयभूता धम्मा अरूपधातूति आह – ‘‘चत्तारो अरूपावचरक्खन्धा’’तिआदि. कामतण्हा कामो उत्तरपदलोपेन, एवं रूपारूपतण्हा रूपारूपं. आरम्मणकरणवसेन ता यत्थ अवचरन्ति, ते कामावचरादयोति एवं कामावचरक्खन्धादीनं कामतण्हादिभावो वेदितब्बो. आदिना नयेनाति एतेन ‘‘उपरितो परनिम्मितवसवत्तिदेवे अन्तोकरित्वा एत्थावचरा’’तिआदिपाळिं (विभ. १०२०) सङ्गण्हाति. एत्थावचराति अवीचिपरनिम्मितपरिच्छिन्नोकासाय कामतण्हाय विसयभावं सन्धाय वुत्तं, तदोकासता च तण्हाय तन्निन्नत्ता वेदितब्बा. सेसपदद्वयेपि एसेव नयो. परिपुण्णअट्ठारसधातुकत्ता कामावचरधम्मानं ‘‘कामधातुतो नीहरित्वा पूरेतब्बा’’ति वुत्तं. मनोविञ्ञाणधातुधम्मधातु एकदेसमत्तमेव हि रूपारूपावचरधम्माति.

समागन्त्वाति सहिता हुत्वा. यत्तकञ्हि पच्चयधम्मा अत्तनो फलस्स कारणं, तत्थ तन्निब्बत्तने समागता विय होति वेकल्ले तदनिब्बत्तनतो. सङ्खतधातुतो नीहरित्वा पूरेतब्बा असङ्खताय धातुया धम्मधातुएकदेसभावतो.

१२६. एवं पवत्तमाना मयं अत्ताति गहणं गमिस्सामाति इमिना विय अधिप्पायेन अत्तानं अधिकिच्च उद्दिस्स पवत्ता अज्झत्ता, तेसु भवा तप्परियापन्नत्ताति अज्झत्तिकानि. ततो बहिभूतानि बाहिरानि. आयतनकथा पटिच्चसमुप्पादकथा च विसुद्धिमग्गे (विसुद्धि. २.५१०, ५७०, ५७१) वुत्तनयेनेव वेदितब्बाति न वित्थारिता.

१२७. अविज्जमानं ठानं अट्ठानं (अ. नि. टी. १.१.२६८; विभ. मूलटी. ८०९), नत्थि ठानन्ति वा अट्ठानं. अनवकासोति एत्थ एसेव नयो. तदत्थनिगमनमेव हि ‘‘नेतं ठानं विज्जती’’ति वचनन्ति. तेनाह ‘‘उभयेनपी’’तिआदि. यन्ति कारणे पच्चत्तवचनं, हेतुअत्थो च कारणत्थोति आह – ‘‘यन्ति येन कारणेना’’ति. उक्कट्ठनिद्देसेन एत्थ दिट्ठिसम्पत्ति वेदितब्बाति वुत्तं ‘‘मग्गदिट्ठिया सम्पन्नो’’ति. कुतो पनायमत्थो लब्भतीति? लिङ्गतो. लिङ्गञ्हेतं, यदिदं निच्चतो उपगमनपटिक्खेपो. चतुभूमकेसूति इदं चतुत्थभूमकसङ्खारानं अरियसावकस्स विसयभावूपगमनतो वुत्तं; न पन ते आरब्भ निच्चतो उपगमनसब्भावतो. वक्खति च ‘‘चतुत्थभूमकसङ्खारा पना’’तिआदिना. अभिसङ्खतसङ्खारअभिसङ्खरणकसङ्खारानं सप्पदेसत्ता निप्पदेससङ्खारग्गहणत्थं ‘‘सङ्खतसङ्खारेसू’’ति वुत्तं. लोकुत्तरसङ्खारानं पन निवत्तने कारणं सयमेव वक्खति. एतं कारणं नत्थि सेतुघातत्ता. तेजुस्सदत्ताति संकिलेसविधमनतेजस्स अधिकभावतो. तथा हि ते गम्भीरभावेन दुद्दसा. अकुसलानं आरम्मणं न होन्तीति इदं पकरणवसेन वुत्तं. अप्पहीनविपल्लासानं सत्तानं कुसलधम्मानम्पि ते आरम्मणं न होन्ति.

असुखे ‘‘सुख’’न्ति विपल्लासो च इध सुखतो उपगमनस्स ठानन्ति अधिप्पेतन्ति दस्सेन्तो, ‘‘एकन्त…पे… वुत्त’’न्ति. अत्तदिट्ठिवसेनाति पधानदिट्ठिमाह. दिट्ठिया निब्बानस्स अविसयभावो हेट्ठा वुत्तो एवाति ‘‘कसिणादिपण्णत्तिसङ्गहत्थ’’न्ति वुत्तं. परिच्छेदोति सङ्खारानं परिच्छेदो सङ्खारानं परिच्छिज्जगहणं. स्वायं येसं निच्चादितो उपगमनं भवति तेसंयेव वसेन कातब्बोति दस्सेन्तो ‘‘सब्बवारेसू’’तिआदिमाह. सब्बवारेसूति निच्चादिसब्बवारेसु. पुथुज्जनो हीति हि-सद्दो हेतुअत्थो. यस्मा यं यं सङ्खारं निच्चादिवसेन पुथुज्जनकाले उपगच्छति, तं तं अरियमग्गाधिगमेन अनिच्चादिवसेन गण्हन्तो याथावतो जानन्तो तं गाहं तं दिट्ठिं विनिवेठेति विस्सज्जेति. तस्मा यत्थ गाहो तत्थ विस्सज्जनाति चतुत्थभूमकसङ्खारा इध सङ्खारग्गहणेन न गय्हतीति अत्थो.

१२८. पुत्तसम्बन्धेन मातापितुसमञ्ञा, दत्तकित्तिमादिवसेनपि पुत्तवोहारो लोके दिस्सति, सो च खो परियायतो निप्परियायसिद्धं तं दस्सेतुं, ‘‘जनिका व माता जनको पिता’’ति वुत्तं. तथा आनन्तरियकम्मस्स अधिप्पेतत्ता ‘‘मनुस्सभूतोव खीणासवो अरहाति अधिप्पेतो’’ति वुत्तं. ‘‘अट्ठानमेत’’न्तिआदिना मातुआदीनंयेव जीविता वोरोपने अरियसावकस्स अभब्बभावदस्सनतो तदञ्ञं अरियसावको जीविता वोरोपेतीति इदं अत्थतो आपन्नमेवाति मञ्ञमानो वदति – ‘‘किं पन अरियसावको अञ्ञं जीविता वोरोपेय्या’’ति? ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्य, नेतं ठानं विज्जती’’ति वचनतो, ‘‘एतम्पि अट्ठान’’न्ति वुत्तं. तेनाह ‘‘सचेपि ही’’तिआदि. बलदीपनत्थन्ति सद्धादिबलसमन्नागमदीपनत्थं. अरियमग्गेनागतसद्धादिबलवसेन हि अरियसावको तादिसं सावज्जं न करोति.

पञ्चहि कारणेहीति इदं अत्थनिप्फादकानि तेसं पुब्बभागियानि च कारणानि कारणभावसामञ्ञेन एकज्झं गहेत्वा वुत्तं, न पन सब्बेसं पञ्चन्नं सहयोगक्खमतो. आकारेहीति कारणेहि. अनुस्सावनेनाति अनुरूपं सावनेन. भेदस्स अनुरूपं यथा भेदो होति, एवं भिन्दितब्बानं भिक्खूनं अत्तनो वचनस्स सावनेन विञ्ञापनेन. तेनाह ‘‘ननु तुम्हे’’तिआदि. कण्णमूले वचीभेदं कत्वाति एतेन ‘‘पाकटं कत्वा भेदकरवत्थुदीपनं वोहारो, तत्थ अत्तनो निच्छितमत्थं रहस्सवसेन विञ्ञापनं अनुस्सावन’’न्ति दस्सेति.

कम्ममेव उद्देसो वा पमाणन्ति तेहि सङ्घभेदसिद्धितो वुत्तं, इतरे पन तेसं पुब्बभागभूता. तेनाह ‘‘वोहारा’’तिआदि. तत्थाति वोहारे. चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तानि तन्निब्बत्तनेन अनन्तरकरणसीलानि, अनन्तरप्पयोजनानि चाति आनन्तरियानि, तानि एव ‘‘आनन्तरियकम्मानी’’ति वुत्तानि.

कम्मतोति ‘‘एवं आनन्तरियकम्मं होति, एवं अनन्तरियकम्मसदिस’’न्ति एवं कम्मविभागतो. द्वारतोति कायादिद्वारतो. कप्पट्ठितियतोति ‘‘इदं कप्पट्ठितिकविपाकं, इदं न कप्पट्ठितिकविपाक’’न्ति एवं कप्पट्ठितियविभागतो. पाकाति ‘‘इदमेत्थ विपच्चति, इदं न विपच्चती’’ति विपच्चनविभागतो. साधारणादीहीति गहट्ठपब्बजितानं साधारणासाधारणतो, आदि-सद्देन वेदनादिविभागतो च.

यस्मा मनुस्सत्तभावे ठितस्सेव च कुसलधम्मानं तिक्खविसदसूरभावापत्ति, यथा तं तिण्णम्पि बोधिसत्तानं बोधित्तयनिब्बत्तियं, एवं मनुस्सभावे ठितस्सेव अकुसलधम्मानम्पि तिक्खविसदसूरभावापत्तीति आह ‘‘मनुस्सभूतस्सेवा’’ति. पाकतिकमनुस्सानम्पि च कुसलधम्मानं विसेसप्पत्ति विमानवत्थुअट्ठकथायं (वि. व. अट्ठ. ३) वुत्तनयेन वेदितब्बा. यथा वुत्तो च अत्थो समानजातियस्स विकोपने कम्मं गरुतरं, न तथा विजातियस्साति वुत्तं – ‘‘मनुस्सभूतं मातरं वा पितरं वा’’ति. लिङ्गे परिवत्ते च सो एव एककम्मनिब्बत्तो भवङ्गप्पबन्धो, जीवितिन्द्रियप्पबन्धो च, न अञ्ञोति आह ‘‘अपि परिवत्तलिङ्ग’’न्ति. अरहन्तेपि एसेव नयो. तस्स विपाकन्तिआदि कम्मस्स आनन्तरियभावसमत्थनं, चतुकोटिकञ्चेत्थ सम्भवति. तत्थ पठमा कोटि दस्सिता, इतरासु विसङ्केतं दस्सेतुं, ‘‘यो पना’’तिआदि वुत्तं. यदिपि तत्थ विसङ्केतो, कम्मं पन गरुतरं आनन्तरियसदिसं भायितब्बन्ति आह – ‘‘आनन्तरियं आहच्चेव तिट्ठती’’ति. अयं पञ्होति ञापनिच्छानिब्बत्ता कथा.

आनन्तरियं फुसति मरणाधिप्पायेनेव आनन्तरियवत्थुनो विकोपितत्ता. आनन्तरियं न फुसति आनन्तरियवत्थुअभावतो. सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं पन तदारम्मणं जीवितिन्द्रियञ्च आनन्तरियनानन्तरियभावे पमाणन्ति दट्ठब्बं. सङ्गामचतुक्कं सम्पत्तवसेन योजेतब्बं.

तेनेवाति तेनेव पयोगेन. अरहन्तघातो होतियेव अरहतो मारितत्ता. पुथुज्जनस्सेव दिन्नं होतीति यस्मा यथा वधकचित्तं पच्चुप्पन्नारम्मणम्पि पबन्धविच्छेदवसेन च जीवितिन्द्रियं आरम्मणं कत्वा पवत्तति, न एवं चागचेतना, सा हि चजितब्बवत्थुं आरम्मणं कत्वा चजनमत्तमेव होति, अञ्ञसन्तकभावकरणञ्च तस्स चजनं, तस्मा यस्स तं सन्तकं कतं. तस्सेव दिन्नं होतीति.

लोहितं समो सरतीति अभिघातेन पकुप्पमानं सञ्चितं होति. महन्ततरन्ति गरुतरं. सरीरपटिजग्गने वियाति सत्थुरूपकायपटिजग्गने विय.

असन्निपतितेति इदं सामग्गियदीपनं. भेदो च होतीति सङ्घस्स भेदो होति. वट्टतीति सञ्ञायाति ईदिसकरणं सङ्घस्स भेदाय न होतीति सञ्ञाय. नवतो ऊनपरिसायं करोन्तस्स तथाति योजेतब्बं, तथाति इमिना ‘‘न आनन्तरियकम्मन्ति’’ इमं आकड्ढति, न पन ‘‘भेदो होती’’ति इदं. हेट्ठिमन्तेन हि नवन्नमेव वसेन सङ्घभेदो. धम्मवादिनो अनवज्जा यथाधम्मं अवट्ठानतो. सङ्घभेदस्स पुब्बभागो सङ्घराजि.

कायद्वारमेव पूरेन्ति कायकम्मभावेनेव लक्खितब्बतो.

‘‘सण्ठहन्ते हि…पे… मुच्चती’’ति इदं कप्पट्ठकथाय न समेति. तथा हि कप्पट्ठकथायं (कथा. अट्ठ. ६५४-६५७) वुत्तं – ‘‘आपायिकोति इदं सुत्तं यं सो एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं कालं तिट्ठेय्य, तं आयुकप्पं सन्धाय वुत्त’’न्ति. कप्पविनासेयेवाति पन आयुकप्पविनासेयेवाति अत्थे सति नत्थि विरोधो. एत्थ च सण्ठहन्तेति इदम्पि ‘‘स्वेवविनस्सिस्सती’’ति विय अभूतपरिकप्पवसेन वुत्तं. एकदिवसमेव निरये पच्चति ततो परं कप्पाभावे आयुकप्पस्सपि अभावतोति अविरोधतो अत्थयोजना दट्ठब्बा. सेसानीति सङ्घभेदतो अञ्ञानि आनन्तरियकम्मानि.

अहोसिकम्मं…पे… सङ्ख्यं गच्छन्ति, एवं सति कथं नेसं आनन्तरियता चुतिअनन्तरं विपाकदानाभावतो. अथ सति फलदाने चुतिअनन्तरो एव एतेसं फलकालो, न अञ्ञोति फलकालनियमेन नियतता निच्छिता, न फलदाननियमेन, एवम्पि नियतफलकालानं अञ्ञेसम्पि उपपज्जवेदनीयानं दिट्ठधम्मवेदनीयानञ्च नियतता आपज्जेय्य. तस्मा विपाकधम्मधम्मानं पच्चयन्तरविकलतादीहि अविपच्चमानानम्पि अत्तनो सभावेन विपाकधम्मता विय बलवता आनन्तरियेन विपाके दिन्ने अविपच्चमानानम्पि आनन्तरियानं फलदाने नियतसभावा आनन्तरियसभावा च पवत्तीति अत्तनो सभावेन फलदाननियमेनेव नियतता आनन्तरियता च वेदितब्बा. अवस्सञ्च आनन्तरियसभावा ततो एव नियतसभावा च तेसं पवत्तीति सम्पटिच्छितब्बमेतं अञ्ञस्स बलवतो आनन्तरियस्स अभावे चुतिअनन्तरं एकन्तेन फलदानतो.

ननु एवं अञ्ञेसम्पि उपपज्जवेदनीयानं अञ्ञस्मिं विपाकदायके असति चुतिअनन्तरमेकन्तेन फलदानतो नियतसभावा अनन्तरियसभावा च पवत्ति आपज्जतीति? नापज्जति. असमानजातिकेन चेतोपणिधिवसेन उपघातकेन च निवत्तेतब्बविपाकत्ता अनन्तरे एकन्तफलदायकत्ताभावा. न पन आनन्तरियकानं पठमज्झानादीनं दुतियज्झानादीनि विय असमानजातिकं फलनिवत्तकं अत्थि सब्बानन्तरियानं अवीचिफलत्ता. न च हेट्ठूपपत्तिं इच्छतो सीलवतो चेतोपणिधि विय उपरूपपत्तिजनककम्मफलं आनन्तरियफलं निवत्तेतुं समत्थो चेतोपणिधि अत्थि अनिच्छन्तस्सेव अवीचिपातनतो, न च आनन्तरियोपघातकं किञ्चि कम्मं अत्थि, तस्मा तेसंयेव अनन्तरे एकन्तविपाकजनकसभावा पवत्तीति. अनेकानि च आनन्तरियानि कतानि एकन्तेनेव विपाके नियतसभावत्ता उपरताविपच्चनसभावासङ्कत्ता निच्छितानि सभावतो नियतानेव. तेसु पन समानसभावेसु एकेन विपाके दिन्ने इतरानि अत्तना कातब्बकिच्चस्स तेनेव कतत्ता न दुतियं ततियं वा पटिसन्धिं करोन्ति. न समत्थताविघातत्ताति नत्थि तेसं आनन्तरियकता निवत्ति; गरुतरभावो पन तेसु लब्भतेवाति सङ्घभेदस्स सिया गरुतरभावोति, ‘‘येन…पे… विपच्चती’’ति आह. एकस्स पन अञ्ञानि उपत्थम्भकानि होन्तीति दट्ठब्बानि. पटिसन्धिवसेन विपच्चतीति वचनेन इतरेसं पवत्तिविपाकदायिता अनुञ्ञाता विय दिस्सति. नो वा तथा सीलवतीति यथा पिता सीलवा, तथा सीलवती नो वा होतीति योजना. सचे माता सीलवती, मातुघातो पटिसन्धिवसेन विपच्चतीति योजना.

पकतत्तोति अनुक्खित्तो. समानसंवासकोति अपाराजिको. समानसीमायन्ति एकसीमायं.

सत्थुकिच्चं कातुं असमत्थोति यं सत्थारा कातब्बकिच्चं अनुसासनादि, तं कातुं असमत्थोति भगवन्तं पच्चक्खाय. अञ्ञं तित्थकरन्ति अञ्ञं सत्थारं.

१२९. अभिजातिआदिसु (अ. नि. टी. १.१.२७७) पकप्पनेन देवतूपसङ्कमनादिना जातचक्कवाळेन समानयोगक्खेमं दससहस्सपरिमाणं ठानं जातिखेत्तं, सरसेनेव आणापवत्तिट्ठानं आणाखेत्तं, विसयभूतं ठानं विसयखेत्तं. दससहस्सी लोकधातूति इमाय लोकधातुया सद्धिं इमं लोकधातुं परिवारेत्वा ठिता दससहस्सी लोकधातु. तत्तकानंयेव जातिखेत्तभावो धम्मतावसेन वेदितब्बो. ‘‘परिग्गहवसेना’’ति केचि. ‘‘सब्बेसम्पि बुद्धानं तत्तकं एव जातिखेत्तं तन्निवासीनंयेव च देवतानं धम्माभिसमयो’’ति च वदन्ति. मातुकुच्छिओक्कमनकालादीनं छन्नं एव गहणं निदस्सनमत्तं महाभिनीहारादिकालेपि तस्स पकम्पनस्स लब्भमानतो. आणाखेत्तं नाम यं एकज्झं संवट्टति च विवट्टति च. आणा वत्तति आणाय तन्निवासीनं देवतानं सिरसा सम्पटिच्छनेन, तञ्च खो केवलं बुद्धानं आनुभावेनेव, न अधिप्पायवसेन, अधिप्पायवसेन पन ‘‘यावता वा पन आकङ्खेय्या’’ति (अ. नि. ३.८१) वचनतो ततो परम्पि आणा पवत्तेय्य.

न उप्पज्जन्तीति पन अत्थीति, ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जती’’तिआदिं (म. नि. १.२८५; २.३४१; महाव. ११; कथा. ४०५; मि. प. ४.५.११) इमिस्सं लोकधातुयं ठत्वा वदन्तेन भगवता, ‘‘किं पनावुसो सारिपुत्त, अत्थेतरहि अञ्ञे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधियन्ति, एवं पुट्ठो अहं, भन्ते, नोति वदेय्य’’न्ति (दी. नि. ३.१६१), वत्वा तस्स कारणं दस्सेतुं, ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति इमं सुत्तं (दी. नि. ३.१६१; मि. प. ५.१.१) दस्सेन्तेन धम्मसेनापतिना च बुद्धखेत्तभूतं इमं लोकधातुं ठपेत्वा अञ्ञत्थ अनुप्पत्ति वुत्ता होतीति अधिप्पायो.

एकतोति सह, एकस्मिं कालेति अत्थो. सो पन कालो कथं परिच्छिन्नोति चरिमभवे पटिसन्धिग्गहणतो पट्ठाय याव धातुपरिनिब्बानाति दस्सेन्तो ‘‘तत्था’’तिआदिमाह. निसिन्नकालतो पट्ठायाति पटिलोमक्कमेन वदति. परिनिब्बानतो पट्ठायाति अनुपादिसेसाय निब्बानधातुया परिनिब्बानतो पट्ठाय. एत्थन्तरेति चरिमभवे बोधिसत्तस्स पटिसन्धिग्गहणं धातुपरिनिब्बानन्ति एतेसं अन्तरे.

अञ्ञस्स बुद्धस्स उप्पत्ति न निवारिता, तत्थ कारणं दस्सेतुं ‘‘तीणि ही’’तिआदि वुत्तं. पटिपत्तिअन्तरधानेन हि सासनस्स ओसक्कितत्ता अपरस्स बुद्धस्स उप्पत्ति लद्धावसरा होति. पटिपदाति पटिवेधावहा पुब्बभागपटिपदा. ‘‘परियत्ति पमाण’’न्ति वत्वा तमत्थं बोधिसत्तं निदस्सनं कत्वा दस्सेतुं, ‘‘यथा’’तिआदि वुत्तं तयिदं हीनं कतन्ति दट्ठब्बं. निय्यानिकधम्मस्स ठितिञ्हि दस्सेन्तो अनिय्यानिकधम्मं निदस्सेति.

मातिकाय अन्तरहितायाति, ‘‘यो पन भिक्खू’’तिआदिनयप्पत्ता सिक्खापदपाळि मातिका, ताय अन्तरहिताय निदानुद्देससङ्खाते पातिमोक्खुद्देसे पब्बज्जायुपसम्पदाकम्मेसु च सासनं तिट्ठतीति अत्थो. अथ वा पातिमोक्खे धरन्तेयेव पब्बज्जा उपसम्पदा च, एवं सति तदुभयं पातिमोक्खे अन्तोगधं तदुभयाभावे पातिमोक्खाभावतो, तस्मा तयिदं तयं सासनस्स ठितिहेतूति आह – ‘‘पातिमोक्खपब्बज्जाउपसम्पदासु ठितासु सासनं तिट्ठती’’ति. यस्मा वा उपसम्पदाधीनं पातिमोक्खं, उपसम्पदा च पब्बज्जाधीना, तस्मा पातिमोक्खे सिद्धे, सिद्धासु पब्बज्जाउपसम्पदासु च सासनं तिट्ठति. पच्छिमपटिवेधतो हि परं पटिवेधसासनं, पच्छिमसीलतो च परं पटिपत्तिसासनं विनट्ठं नाम होति. ओसक्कितं नामाति पच्छिमकपटिवेधसीलभेदद्वयं एकतो कत्वा ततो परं विनट्ठं नाम होतीति अत्थो.

तेन कामं ‘‘सासनट्ठितिया परियत्ति पमाण’’न्ति वुत्तं, परियत्ति पन पटिपत्तिहेतुकाति पटिपत्तिया असति अप्पतिट्ठा होति, तस्मा पटिपत्तिअन्तरधानं सासनोसक्कनस्स विसेसकारणन्ति दस्सेत्वा तयिदं सासनोसक्कनं धातुपरिनिब्बानोसानन्ति दस्सेतुं, ‘‘तीणि परिनिब्बानानी’’ति वुत्तं.

कारुञ्ञन्ति परिदेवनकारुञ्ञं. जम्बुदीपे दीपन्तरेसु देवनागब्रह्मलोकेसु च विप्पकिरित्वा ठितानं धातूनं महाबोधिपल्लङ्के एकज्झं सन्निपतनं, रस्मिविस्सज्जनं, तत्थ तेजोधातुया उट्ठानं, एकजालीभावो चाति सब्बमेतं सत्थु अधिट्ठानवसेनेव वेदितब्बं.

अनच्छरियत्ताति द्वीसुपि उप्पज्जमानेसु अच्छरियत्ताभावदोसतोति अत्थो. बुद्धा नाम मज्झे भिन्नं सुवण्णं विय एकसदिसाति तेसं देसनापि एकरसा एवाति आह – ‘‘देसनाय च विसेसाभावतो’’ति. एतेनपि अनच्छरियत्तमेव साधेति. विवादभावतोति एतेन विवादाभावत्थं द्वे एकतो न उप्पज्जन्तीति दस्सेति.

तत्थाति मिलिन्दपञ्हे. एकं बुद्धं धारेतीति एकबुद्धधारणी. एतेन एवं सभावा एते बुद्धगुणा, येन दुतियबुद्धगुणे धारेतुं असमत्था अयं लोकधातूति दस्सेति. पच्चयविसेसनिप्फन्नानञ्हि गुणधम्मानं भारियो विसेसो न सक्का धारेतुन्ति, ‘‘न धारेय्या’’ति वत्वा तमेव अधारणं परियायन्तरेनपि पकासेन्तो ‘‘चलेय्या’’तिआदिमाह. तत्थ चलेय्याति परिप्फन्देय्य. कम्पेय्याति पवेधेय्य. नमेय्याति एकपस्सेन नमेय्य. ओनमेय्याति ओसीदेय्य. विनमेय्याति विविधं इतोचितो च नमेय्य. विकिरेय्याति वातेन थुसमुट्ठि विय विप्पकिरेय्य. विधमेय्याति विनस्सेय्य. विद्धंसेय्याति सब्बसो विद्धस्ता भवेय्य. तथाभूता च कत्थचि न तिट्ठेय्याति आह ‘‘न ठानमुपगच्छेय्या’’ति.

इदानि तत्थ निदस्सनं दस्सेन्तो, ‘‘यथा, महाराजा’’तिआदिमाह. तत्थ समुपादिकाति समं उद्धं पज्जति पवत्ततीति समुपादिका, उदकस्स उपरि समं गामिनीति अत्थो. वण्णेनाति सण्ठानेन. पमाणेनाति आरोहेन. किसथूलेनाति किसथूलभावेन, परिणाहेनाति अत्थो.

छादेन्तन्ति रोचेन्तं रुचिं उप्पादेन्तं. तन्दीकतोति तेन भोजनेन तन्दीभूतो. अनोनमितदण्डजातोति यावदत्थं भोजनेन ओनमितुं असक्कुणेय्यताय अनोनमितदण्डो विय जातो. सकिं भुत्तो वमेय्याति एकम्पि आलोपं अज्झोहरित्वा वमेय्याति अत्थो.

अतिधम्मभारेन पथवी चलतीति धम्मेन नाम पथवी तिट्ठेय्य. सा किं तेनेव चलति विनस्सतीति अधिप्पायेन पुच्छति. पुन थेरो ‘‘रतनं नाम लोके कुटुम्बं सन्धारेन्तं अभिमतञ्च लोकेन अत्तनो गरुसभावताय सकटभङ्गस्स कारणं अतिभारभूतं दिट्ठं. एवंधम्मो च हितसुखविसेसेहि तंसमङ्गिनं धारेन्तो अभिमतो च विञ्ञूनं गम्भीरप्पमेय्यभावेन गरुसभावत्ता अतिभारभूतो पथवीचलनस्स कारणं होती’’ति दस्सेन्तो, ‘‘इध, महाराज, द्वे सकटा’’तिआदिमाह. एतेनेव तथागतस्स मातुकुच्छिओक्कमनादिकाले पथवीकम्पनकारणं संवण्णितन्ति दट्ठब्बं. एकसकटतो रतनन्ति एकस्मा, एकस्स वा सकटस्स रतनं, तस्मा सकटतो गहेत्वाति अत्थो.

ओसारितन्ति उच्चारितं, वुत्तन्ति अत्थो. अग्गोति सब्बसत्तेहि अग्गो.

सभावपकतीति सभावभूता अकित्तिमा पकति. कारणमहन्ततायाति महन्तेहि बुद्धकारकधम्मेहि पारमितासङ्खातेहि कारणेहि बुद्धगुणानं निब्बत्तितोति वुत्तं होति. पथविआदीनि महन्तानि वत्थूनि, महन्ता च सक्कभावादयो अत्तनो अत्तनो विसये एकेका एव, सम्मासम्बुद्धोपि महन्तो अत्तनो विसये एकोव, को च तस्स विसयो? बुद्धभूमि, यावतकं वा ञेय्यं. एवं ‘‘आकासो विय अनन्तविसयो भगवा एकोव होती’’ति वदन्तो परचक्कवाळेसु दुतियस्स बुद्धस्स अभावं दस्सेति.

इमिनाव पदेनाति ‘‘एकिस्सा लोकधातुया’’ति इमिना एव पदेन. दसचक्कवाळसहस्सानि गहितानि जातिखेत्तत्ता. एकचक्कवाळेनेवाति इमिना एकचक्कवाळेनेव. यथा – ‘‘इमस्मिंयेव चक्कवाळे उप्पज्जन्ती’’ति वुत्ते इमस्मिम्पि चक्कवाळे जम्बुदीपेयेव, तत्थपि मज्झिमपदेसे एवाति परिच्छिन्दितुं वट्टति; एवं ‘‘एकिस्सा लोकधातुया’’ति जातिखेत्ते अधिप्पेतेपि इमिनाव चक्कवाळेन परिच्छिन्दितुं वट्टति.

विवादूपच्छेदतोति विवादूपच्छेदकारणा. द्वीसु उप्पन्नेसु यो विवादो भवेय्य, तस्स अनुप्पादोयेवेत्थ विवादुपच्छेदो. एकस्मिं दीपेतिआदिना दीपन्तरेपि एकज्झं न उप्पज्जन्ति, पगेव एकदीपेति दस्सेति. सो परिहायेथाति चक्कवाळस्स पदेसे एव वत्तितब्बत्ता परिहायेय्य.

१३०. मनुस्सत्तन्ति मनुस्सभावो तस्सेव पब्बज्जादिगुणसम्पत्तिआदीनं योग्गभावतो. लिङ्गसम्पत्तीति पुरिसभावो. हेतूति मनोवचीपणिधानपुब्बिका हेतुसम्पदा. सत्थारदस्सनन्ति सत्थुसम्मुखीभावो. पब्बज्जाति कम्मकिरियवादीसु तापसेसु, भिक्खूसु वा पब्बज्जा. गुणसम्पत्तीति अभिञ्ञादिगुणसम्पदा. अधिकारोति बुद्धं उद्दिस्स अधिको सक्कारो. छन्दताति सम्मासम्बोधिं उद्दिस्स सातिसयो कत्तुकम्यताकुसलच्छन्दो. अट्ठधम्मसमोधानाति एतेसं अट्ठन्नं धम्मानं समायोगेन. अभिनीहारोति कायपणिधानं. समिज्झतीति निप्फज्जतीति अयमेत्थ सङ्खेपो, वित्थारो पन परमत्थदीपनिया चरियापिटकवण्णनाय (चरिया. अट्ठ. पकिण्णककथा) वुत्तनयेनेव वेदितब्बो.

सब्बाकारपरिपूरमेवाति परिपुण्णलक्खणताय सत्तुस्सदादीहि सब्बाकारेहि सम्पन्नमेव. न हि इत्थिया कोसोहितवत्थगुय्हता सम्भवति, दुतियपकति च नाम पठमपकतितो निहीना एव. तेनेवाह अनन्तरवारे ‘‘यस्मा’’तिआदि.

इध पुरिसस्स तत्थ निब्बत्तनतोति इमस्मिं मनुस्सलोके पुरिसभूतस्स तत्थ ब्रह्मलोके ब्रह्मत्तभावेन निब्बत्तनतो. तेन असतिपि पुरिसलिङ्गे पुरिसाकारा ब्रह्मानो होन्तीति दस्सेति. तंयेव हि पुरिसाकारं सन्धाय वुत्तं – ‘‘यं पुरिसो ब्रह्मत्तं करेय्या’’ति. तेनेवाह ‘‘समानेपी’’तिआदि. यदि एवं इत्थियो ब्रह्मलोके न उप्पज्जन्तीति आह ‘‘ब्रह्मत्त’’न्तिआदि.

१३१. कायदुच्चरितस्सातिआदिपाळिया कम्मनियामो नाम कथितो. समञ्जनं समङ्गो, सो एतस्स अत्थीति समङ्गी, समन्नागतो. समञ्जनसीलो वा समङ्गी. पुब्बभागे आयूहनसमङ्गिता, सन्निट्ठापकचेतनावसेन चेतनासमङ्गिता. चेतनासन्ततिवसेन वा आयूहनसमङ्गिता, तंतंचेतनाखणवसेन चेतनासमङ्गिता. कतूपचितस्स अविपक्कविपाकस्स कम्मस्स वसेन कम्मसमङ्गिता, कम्मे पन विपच्चितुं आरद्धे विपाकप्पवत्तिवसेन विपाकसमङ्गिता. कम्मादीनं उपट्ठानकालवसेन उपट्ठानसमङ्गिता. कुसलाकुसलकम्मायूहनक्खणेति कुसलकम्मस्स च अकुसलकम्मस्स च समीहनक्खणे. तथाति इमिना कुसलाकुसलकम्मपदं आकड्ढति. यथा कतं कम्मं फलदानसमत्थं होति, तथा कतं उपचितं. विपाकारहन्ति दुतियभवादीसु विपच्चनारहं. उप्पज्जमानानं उपपत्तिनिमित्तं उपट्ठातीति योजना. चलतीति परिवत्तति. एकेन हि कम्मुना तज्जे निमित्ते उपट्ठापिते पच्चयविसेसवसेन ततो अञ्ञेन कम्मुना अञ्ञस्स निमित्तस्स उपट्ठानं परिवत्तनं.

सुनखजीविकोति सुनखेहि जीवनसीलो. तलसन्थरणपूजन्ति भूमितलस्स पुप्फेहि सन्तरणपूजं. आयूहनचेतनाकम्मसमङ्गितावसेनाति कायदुच्चरितस्स अपरापरं आयूहनेन सन्निट्ठापकचेतनाय तस्सेव पकप्पने कम्मक्खयकरञाणेन अखेपितत्ता यथूपचितकम्मुना च समङ्गिभावस्स वसेन.

१३२. एवं सस्सिरिकन्ति वुत्तप्पकारेन अनेकधातुविभजनादिना नानानयविचित्तताय परमनिपुणगम्भीरताय च अत्थतो ब्यञ्जनतो च ससोभं कत्वा.

नं धारेहीति एत्थ नन्ति निपातमत्तं. धातुआदिवसेन परिवट्टीयन्ति अत्था एतेहीति परिवट्टा, देसनाभेदा. चत्तारो परिवट्टा एतस्स, एतस्मिं वाति चतुपरिवट्टो, धम्मपरियायो. धम्मो च सो परियत्तिभावतो यथावुत्तेनत्थेन आदासोति धम्मादासो. उपट्ठानट्ठेन यथाधम्मानं आदासोतिपि धम्मादासो. यथा हि आदासेन सत्तानं मुखे मलदोसहरणं, एवं इमिनापि सुत्तेन योगीनं मुखे मलदोसहरणं. तस्माति यस्मा इमिना सुत्तेन किलेसे मद्दित्वा समथाधिगमेन योगिनो जयप्पत्ता; तस्मा अमतपुरप्पवेसने उग्घोसनमहाभेरिताय च अमतदुन्दुभि. इध वुत्तन्ति इमस्मिं सुत्ते वुत्तं. अनुत्तरो सङ्गामविजयोति अनुत्तरभावतो किलेससङ्गामविजयो, ‘‘विजेति एतेना’’ति कत्वा. सेसं सुविञ्ञेय्यमेव.

बहुधातुकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.