१०. सङ्खारुपपत्तिसुत्तवण्णना
१६०. सङ्खारुपपत्तिन्ति विपाकक्खन्धसञ्ञितानं सङ्खारानं उप्पत्तिं, निब्बत्तिन्ति अत्थो. यस्मा अवधारणं एतस्मिं पदे इच्छितब्बन्ति, ‘‘सङ्खारानंयेव उपपत्ति’’न्ति वत्वा तेन निवत्तितं दस्सेन्तो, ‘‘न सत्तस्सा’’ति आह. तेन सत्तो जीवो उप्पज्जतीति मिच्छावादं पटिक्खिपति. एवं उप्पज्जनकधम्मवसेन उप्पत्तिं दस्सेत्वा इदानि उप्पत्तिजनकधम्मवसेनपि तं दस्सेतुं, ‘‘पुञ्ञाभिसङ्खारेन वा’’तिआदि वुत्तं. तत्थ कामेसु पुञ्ञाभिसङ्खारेनपि उपपत्ति होति, सा पन इमस्मिं सुत्ते गहिताति. पुञ्ञाभिसङ्खारेन वाति वा-सद्दो अवुत्तत्थापेक्खणविकप्पत्थो, अवुत्तत्थापेक्खाय पन न आगतो ‘‘आनेञ्जाभिसङ्खारेना’’ति. अथ वा उपपत्ति आगता, एवं किच्चं आगतं, आनेञ्जाभिसङ्खारो पनेत्थ सरूपेन अनागतोपि पुञ्ञाभिसङ्खारग्गहणेनेव गहितोति दट्ठब्बं. केचि पन ‘‘पुञ्ञानेञ्जाभिसङ्खारेना’’ति पठन्ति. भवूपगक्खन्धानन्ति सुगतिभवूपगानं उपादानक्खन्धानं.
१६१. लोकिका वट्टन्ति कम्मवट्टस्स गहणतो. भवूपपत्तिहेतुभूता ओकप्पनीयसद्धा चतुपारिसुद्धिसीलं तादिसं बुद्धवचनबाहुसच्चं आमिसपरिच्चागो कम्मस्सकताञाणं कम्मफलदिट्ठि च इमे सद्धादयो वेदितब्बा. ठपेतीति पणिदहनवसेन ठपेति. पणिदहतीति हि अयमेत्थ अत्थो. पतिट्ठापेतीति तत्थ सुप्पतिट्ठितं कत्वा ठपेति. सहपत्थनायाति, ‘‘अहो वताहं…पे… उपपज्जेय्य’’न्ति एवं पवत्तपत्थनाय सह. सद्धादयोवाति यथावुत्ता सद्धादयो एव पञ्च धम्मा उपपत्तिया सङ्खरणट्ठेन सङ्खारा, तस्मा एव अञ्ञेहि विसिट्ठभवूपहरणट्ठेन विहारा नामाति. तस्मिं ठानेति तस्मिं उपपत्तिट्ठाने.
पञ्चधम्माव तंसमङ्गीपुग्गलो उपपत्तिं मग्गति गवेसति एतेनाति मग्गो. पटिपज्जति एतायाति पटिपदा. चेतना पनेत्थ सुद्धसङ्खारताय सद्धादिग्गहणेनेव गहिता, तस्मा अवधारणं कतं. उपपत्तिपकप्पनवसेनेव पवत्तिया पत्थनागहणेनेव तस्सा गहणन्ति केचि. चित्तकरयुत्तगतिनिब्बत्तनधम्मवसेन अवधारणस्स कतत्ता. चेतना हि नाम कम्मं, तस्सा उपपत्तिनिब्बत्तने वत्तब्बमेव नत्थि, तस्सा पन किच्चकरणा सद्धादयो पत्थना चाति इमे धम्मा सहकारिनो भवूपपत्तिया नियामका होन्तीति तत्रूपपत्तिया पवत्तन्तीति तेसं मग्गादिभावो वुत्तो. तेनाह ‘‘यस्स ही’’तिआदि. तेन सद्धा पत्थना चाति उभये धम्मा सहिता हुत्वा कम्मं विसेसेन्ता गतिं नियमेन्तीति दस्सेति, पटिसन्धिग्गहणं अनियतं केवलस्स कम्मस्स वसेनाति अधिप्पायो. कामञ्चेत्थ ‘‘कम्मं कत्वा’’ति वुत्तं, कम्मायूहनतो पन पगेव पत्थनं ठपेतुम्पि वट्टतियेव. कम्मं कत्वाति चेत्थ ‘‘तापेत्वा भुञ्जति, भुत्वा सयती’’तिआदीसु विय न कालनियमो, कम्मं कत्वा यदा कदाचि पत्थनं कातुं वट्टतीति च इदं चारित्तदस्सनं विय वुत्तं. यथा हि भवपत्थना याव मग्गेन न समुच्छिज्जति, ताव अनुप्पन्नाभिनवकतूपचितस्स कम्मस्स पच्चयो होतियेव. पुन तथा विसेसपच्चयो, यथा नियमेत्वा उप्पादिता. तेन वुत्तं – ‘‘यस्स पञ्च धम्मा अत्थि, न पत्थना तस्स गति अनिबद्धा’’ति.
१६५. सब्बसोवाति ‘‘इदं काळकं सामं सेतं हरितं मण्डलं अपरिमण्डलं चतुरंसं परिपुण्णं खुद्दकं महन्त’’न्तिआदिना सब्बसोव पाकटं होति.
१६७. सुन्दरोति काळकादिदोसरहितताय सोभनो. आकरसम्पन्नो सम्पन्नआकरुप्पत्तिया. धोवनादीहीति धोवनतापनमज्जनादीहि.
१६८. लोकधातूनं सतसहस्सं अत्तनो वसे वत्तनतो सतसहस्सो. तस्स पन तत्थ ओभासकरणं पाकटन्ति आह ‘‘आलोकफरणब्रह्मा’’ति. अयमेव नयो हेट्ठा ‘‘सहस्सो ब्रह्मा’’तिआदीसुपि. निक्खेन कतन्ति निक्खपरिमाणेन जम्बोनदेन कतं. निक्खं पन वीसतिसुवण्णन्ति केचि. पञ्चवीसतिसुवण्णन्ति अपरे. सुवण्णं नाम चतुधरणन्ति वदन्ति. घट्टनमज्जनक्खमं न होति परित्तभावतो. अतिरेकेनाति पञ्चसुवण्णअतिरेकेन निक्खप्पमाणं असम्पत्तेन. वण्णवन्तं पन न होति अविपुलताय उळारं हुत्वा अनुपट्ठानतो. अवण्णवन्तताय एव फरुसधातुकं खायति. तासूति तासु भूमीसु, यत्थ साखा वड्ढित्वा ठिता. तेति सुवण्णङ्कुरा. पचित्वाति तापेत्वा. सम्पहट्ठन्ति समुज्जलीकतन्ति आह – ‘‘धोतघट्टितपमज्जित’’न्ति, तम्बमत्तिकलेपं कत्वा धोतञ्चेव पासाणादिना घट्टितञ्च एळकलोमादिना पमज्जितञ्चाति अत्थो.
एतदेवाति आलोकं वड्ढेत्वा एत्थ आलोकफरणमेव. अथ वा यं दिब्बचक्खुफरणं, आलोकफरणम्पि एतदेव. यत्तकञ्हि ठानं योगी कसिणालोकेन फरति; तत्तकं ठानं दिब्बचक्खुञाणं फुसतीति दिब्बचक्खुफरणे दस्सिते आलोकफरणं दस्सितमेवाति अत्थो. सब्बत्थाति सब्बस्मिं ‘‘फरित्वा’’ति आगतट्ठाने. अविनासेन्तेनाति असम्भिन्नेन.
कसिणफरणं वियाति कसिणोभासेन फरणं विय दिस्सति उपट्ठाति, मणिपभाफरणस्स विय ब्रह्मलोके धातुफरणस्स दस्सितत्ताति अधिप्पायो. सरीरपभा पन निक्खपभासदिसाति, ‘‘निक्खोपम्मे सरीरफरणं विय दिस्सती’’ति वुत्तं. अट्ठकथा नाम नत्थीति पाळिपदस्स अत्थवण्णनाय नाम निच्छिताय भवितब्बं, अविनिच्छिताय पन नत्थि वियाति अकथनं नाम अट्ठकथाय अनाचिण्णन्ति तस्स वादं पटिक्खिपित्वा. यथा हि वत्तब्बं, तथा अवत्वा ‘‘विया’’ति वचनं किमत्थियन्ति अधिप्पायो. बुद्धानं ब्यामप्पभा ब्यामप्पदेसे सब्बकालं अधिट्ठाति विय तस्स ब्रह्मुनो सरीरफरणं सरीराभाय पत्थरणं सब्बकालिकं. चत्तारिमानि इतरानि फरणानि अविनासेत्वा अञ्ञमञ्ञमभिन्दित्वा कथेतब्बं. फरणपदस्सेव वेवचनं ‘‘अधिमुच्चनेनेव फरण’’न्ति. पत्थरतीति यथावुत्तं फरणवसेन पत्थरति. जानातीति अधिमुच्चनवसेन जानाति.
१६९. आदयोति आदि-सद्देन सुभे सङ्गण्हाति. आभाति दुतियज्झानभूमिके देवे एकज्झं गहेत्वा साधारणतो वुत्तं. ततो सुभाति ततियज्झानभूमिके. तेनाह – ‘‘पाटियेक्का देवा नत्थी’’तिआदि. साधारणतो कतायपि पत्थनाय झानङ्गं परित्तं भावितञ्चे, परित्ताभेसु उपपत्ति होति, मज्झिमञ्चे, अप्पमाणाभेसु, पणीतञ्चे, आभस्सरेसु उपपत्ति होतीति दट्ठब्बं. सुभाति एत्थापि एसेव नयो. हेट्ठा वुत्तनयेनेव सुविञ्ञेय्योति आह – ‘‘वेहप्फलादिवारा पाकटायेवा’’ति.
कामावचरेसु निब्बत्ततूतिआदिना सद्धादीनं अज्झानविपस्सनानं कथं तदधिट्ठानं होतीति आसङ्कति. इतरो सद्धादीनं अज्झानसभावत्तेपि झानविपस्सनानं अधिट्ठानं निस्सयपच्चयादिवसेन सप्पच्चयत्ता ब्रह्मलोकूपपत्तिं निब्बानञ्च आवहन्तीति दस्सेन्तो, ‘‘इमे पञ्च धम्मा’’तिआदिमाह. तत्थ सीलन्ति सम्भारसीलं. अनागामी समुच्छिन्नओरम्भागियसंयोजनो समानो सचे सब्बसो उपपत्तियो अतिक्कमितुं न सक्कोति, अरियभूमीसु एव निब्बत्तति यथूपचितझानकम्मुनाति आह – ‘‘अनागामि…पे… निब्बत्तती’’ति. उपरिमग्गन्ति अग्गमग्गं भावेत्वा. आसवक्खयन्ति सब्बसो आसवानं खयं पहानं पापुणाति. सेसं सुविञ्ञेय्यमेव.
सङ्खारुपपत्तिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
निट्ठिता च अनुपदवग्गवण्णना.