३. किन्तिसुत्तवण्णना

३४. भवोति परित्तो. अभवोति महन्तो. वुद्धिअत्थो हि अयं अ-कारो, ‘‘संवरासंवरो, फलाफल’’न्तिआदीसु विय, तस्मा भवाभवहेतूति खुद्दकस्स महन्तस्स वा भवस्स हेतु, तं पच्चासीसमानोति अत्थो. तेनाह – ‘‘तस्मिं तस्मिं भवे सुखं वेदिस्सामी’’तिआदि.

३५. लोकुत्तरबोधिपक्खियधम्मे उद्दिस्स पुथुज्जनानं विवादो सम्भवतीति आह – ‘‘लोकियलोकुत्तराव कथिता’’ति. लोकियापि हि बोधिपक्खियधम्मा लोकुत्तरधम्माधिगमस्स आसन्नकारणत्ता विसेसकारणन्ति याव अञ्ञेहि लोकियधम्मेहि अभिविसिट्ठोति कत्वा, ‘‘इमेसु सत्ततिंसबोधिपक्खियधम्मेसू’’ति अविसेसेन वुत्तं. अत्थतो नानं होतीति अत्थतो भेदो होति बोधिपक्खियधम्मानं समधिगतत्ता. न हि कायादयो भावेतब्बा, सतियेव पन भावेतब्बाति. ब्यञ्जनतो नानं भेदं. इमिनापि कारणेनाति इमायपि युत्तिया. इदानि तं युत्तिं दस्सेन्तो – ‘‘अत्थञ्च ब्यञ्जनञ्चा’’तिआदिमाह. तत्थ समानेत्वाति सुत्तन्तरतो समानेत्वा, सुत्तन्तरपदेहि च समानेत्वा. अञ्ञथाति अञ्ञतो, भूततो अपगतं कत्वाति अत्थो. मिच्छा रोपितभावोति अयाथावतो ठपितभावो. अत्थञ्च ब्यञ्जनञ्च विञ्ञापनकारणमेवाति अविपरीतत्थस्स सद्दस्स च बुज्झनहेतुताय.

३७. इध धम्मविनयट्ठाने सतियेव सतिपट्ठानन्ति गहिता, अत्थतो समेति नाम याथावतो अत्थस्स गहितत्ता. असभावनिरुत्तिभावतो ब्यञ्जनतो नानत्तन्ति तं लिङ्गभेदेन वचनभेदेन च दस्सेन्तो, ‘‘सतिपट्ठानोति वा सतिपट्ठानाति वा मिच्छा रोपेथा’’ति आह. अप्पमत्तकन्ति अणुमत्तं सल्लहुकं, न गरुतरं अधनितं कत्वा वत्तब्बम्पि धनितं घोसवन्तं कत्वा रोपिते वुत्तदोसाभावतोति तेनाह – ‘‘निब्बुतिं पत्तुं सक्का होती’’ति.

ब्यञ्जनस्स मिच्छारोपनं न विसेसन्तरायकरं होतीति ञापनत्थं, चतुसु मग्गेसु पञ्हं कथेत्वाव परिनिब्बुतो. सुत्तन्तब्यञ्जनं सन्धायेतं वुत्तं – ‘‘अप्पमत्तकं खो पना’’ति.

३८. अथ चतुत्थवारे विवादो कस्मा जातो? यावता नेसं वचनं अत्थतो चेव समेति ब्यञ्जनतो चाति अधिप्पायो. सञ्ञाय विवादोति किञ्चापि समेति अत्थतो चेव ब्यञ्जनतो च, सञ्ञा पन नेसं अविसुद्धा, ताय सञ्ञाय वसेन विवादो जातोति दस्सेन्तो ‘‘अह’’न्तिआदिमाह. अहं सतिपट्ठानन्ति वदामि, अयं सतिपट्ठानोति वदतीति एवं तेसं ञाणं होतीति इममत्थं, ‘‘एसेव नयो’’ति इमिना अतिदिसति.

३९. न चोदनत्थाय वेगायितब्बन्ति सीघं सीघं न चोदना कातब्बाति अत्थो. तस्माति यस्मा एकच्चो कोधनभावेन एवं पटिप्फरि, तस्मा. अनादानदिट्ठीति आदियित्वा अनभिनिविसनतो अनादानदिट्ठी अदळ्हग्गाही. पक्खिपन्तो वियाति गिलित्वा पक्खिपन्तो विय.

उपघातोति चित्तप्पघातो फरसुपघातो विय. वणघट्टितस्स वियाति वणे घट्टितस्स विय दुक्खुप्पत्ति चित्तदुक्खुप्पत्ति. द्वे वारे वत्वापि विसज्जेतीति सुप्पटिनिस्सग्गी एवं पगेव चोदितमत्ते विस्सज्जेति चेति अधिप्पायो. कथनवसेन च कायचित्तकिलमथो. एवरूपोति सहसा अविस्सज्जेन्तेन चोदकस्स विहेसावादो हुत्वापि अक्कोधनादिसभावो.

उपेक्खाति सकेन कम्मेन पञ्ञायिस्सतीति तस्मिं पुग्गले अज्झुपेक्खणा. उपेक्खं अतिमञ्ञति नाम तस्स अनाचारस्स अनज्झुपेक्खणतो.

४०. वचनसञ्चारोति पेसुञ्ञवसेन अञ्ञथावचनुपसंहारो. दिट्ठिपळासोति युगग्गाहवसेन लद्धि. सा पन चित्तस्स अनाराधनियभावो सत्थुचित्तस्स अनाराधकभावो. कलहोति अधिकरणुप्पादवसेन पवत्तो विग्गहो भण्डनस्स पुब्बभागो.

येन कारणेनाति येन धम्मेन सत्थुसासनेन. तमेव हि सन्धाय वदति – ‘‘धम्मोति सारणीयधम्मो अधिप्पेतो’’ति. एत्थाति ‘‘धम्मस्स चानुधम्म’’न्ति एत्थ. धम्मोति सम्बुद्धस्स तस्स तथा पवत्तं ब्याकरणं यथा विवादापन्ना सञ्ञत्तिं गच्छन्ति. तेनाह – ‘‘तेसं भिक्खूनं सञ्ञत्तिकरण’’न्ति. तदेव ब्याकरणं अनुधम्मोति भिक्खुना वुच्चमानो अनुपवत्तो धम्मो. तेनाह – ‘‘तदेव ब्याकरोति नामा’’ति. कोचीति यो कोचि. सहधम्मिको सकारणो. अञ्ञत्थो अयं किं सद्दोति आह ‘‘अञ्ञो’’ति. अस्साति वुत्तनयेन पटिपन्नभिक्खुनो, तस्स पटिपत्ति न केनचि गरहणीया होतीति अत्थो. सेसं सब्बं सुविञ्ञेय्यमेव.

किन्तिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.