१. देवदहसुत्तवण्णना
१. दिब्बन्ति कामगुणेहि कीळन्ति, लळन्ति, तेसु वा विहरन्ति, विजयसमत्थतायोगेन पच्चत्थिके विजेतुं इच्छन्ति; इस्सरियट्ठानादिसक्कारदानग्गहणं तंतंअत्थानुसासनञ्च करोन्ता वोहरन्ति, पुञ्ञानुभावप्पत्ताय जुतिया जोतेन्ति वाति देवा वुच्चन्ति राजानो. तथा हि ते चतूहि सङ्गहवत्थूहि जनं रञ्जयन्ता सयं यथावुत्तेहि विसेसेहि राजन्ति दिब्बन्ति सोभन्तीति च, ‘‘राजानो’’ति वुच्चन्ति. तत्थाति तस्मिं निगमदेसे. साति पोक्खरणी. तन्ति तं, ‘‘देवदह’’न्ति लद्धनामं पोक्खरणिं उपादाय, तस्स अदूरभवत्ताति केचि. सब्बं सुखादिभेदं वेदयितं. पुब्बेति पुरिमजातियं. कतकम्मपच्चयाति कतस्स कम्मस्स पच्चयभावतो जातं कम्मं पटिच्च. तेन सब्बापि वेदना कम्मफलभूता एव अनुभवितब्बाति दस्सेति. तेनाह ‘‘इमिना’’तिआदि. अनियमेत्वा वुत्तन्ति, ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा एवंवादिनो’’ति एवं इमे नामाति अविसेसेत्वा वुत्तमत्थं. नियमेत्वाति, ‘‘एवंवादिनो, भिक्खवे, निगण्ठा’’ति एवं विसेसेत्वा दस्सेति.
कलिसासनन्ति पराजयं. कलीति हि अनत्थो वुच्चति, कलीति ससति विप्फरतीति कलिसासनं, पराजयो. कलीति वा कोधमानादिकिलेसजाति, ताय पन अयुत्तवादिता कलिसासनं. तं आरोपेतुकामो विभावेतुकामो. ये कम्मं कतं अकतं वाति न जानन्ति, ते कथं तं एदिसन्ति जानिस्सन्ति. ये च कम्मं पभेदतो न जानन्ति, ते कथं तस्स विपाकं जानिस्सन्ति; विपाकपरियोसितभावं जानिस्सन्ति, ये च पापस्स कम्मस्स पटिपक्खमेव न जानन्ति; ते कथं तस्स पहानं कुसलकम्मस्स च सम्पादनविधिं जानिस्सन्तीति इममत्थं दस्सेन्तो, ‘‘उत्तरि पुच्छायपि एसेव नयो’’ति आह.
२. किञ्चापि चूळदुक्खक्खन्धेपि, (म. नि. १.१८०) ‘‘एवं सन्ते’’ति इमिना तेसं निगण्ठानं अजाननभावो एव उजुकं पकासितो हेट्ठा देसनाय तथा पवत्तत्ता. तथा हि अट्ठकथायं (म. नि. अट्ठ. १.१८०) वुत्तं – ‘‘एवं सन्तेति तुम्हाकं एवं अजाननभावे सती’’ति, तथापि तत्थ उपरिदेसनाय सम्बद्धो एवमत्थो वुच्चमानो युज्जति, न अञ्ञथाति दस्सेतुं इध, ‘‘महानिगण्ठस्स वचने सच्चे सन्तेति अत्थो’’ति वुत्तं. एत्तकस्स ठानस्साति यथावुत्तस्स पञ्चपरिमाणस्स कारणस्स.
३. अनेकवारं विसरञ्जनं इध गाळ्हापलेपनं, न साटकस्स विय लित्तताति आह – ‘‘बहलूप…पे… लित्तेन विया’’ति. वुत्तमेव, न पुन वत्तब्बं, तत्थ वुत्तनयेनेव वेदितब्बन्ति अधिप्पायो.
इमेसं निगण्ठानं तादिसस्स तेसं अभावतो, ‘‘जाननकालो सिया’’ति परिकप्पवसेन वदति. तेन एवं जानितुं तेहि सक्का सिया, तेसञ्च दस्सनं सच्चं सिया. यस्मा तेसं दस्सनं असच्चं, तस्मा ते न जानिंसूति दस्सेति. चतूसु कालेसूति वणमुखस्स परिकन्तनकालो, सल्लस्स एसनकालो, अब्बुहनकालो, वणमुखे अगदङ्गारओदहनकालोति इमेसु चतूसु कालेसु. सुद्धन्तेति सुद्धकोट्ठासे, दुक्खस्स अनवसेसतो निज्जीरणट्ठेन निद्दुक्खभावेति अत्थो. एकाय उपमायाति, ‘‘सल्लेन विद्धस्स हि विद्धकाले वेदनाय पाकटकालो विया’’ति इमाय एकाय उपमाय. तयो अत्थाति पुब्बे अहुवम्हा वा नो वा, पापकम्मं अकरिम्हा वा नो वा, एवरूपं वा पापकम्मं अकरिम्हाति इमे तयो अत्था. चतूहि उपमाहीति वणमुखपरिकन्तनादीहि चतूहि उपमाहि. एको अत्थोति, ‘‘एत्तकं दुक्खं निज्जिण्ण’’न्तिआदिना वुत्तो एको अत्थो. सो हि दुक्खनिज्जीरणभावसामञ्ञा एको अत्थोति वुत्तो.
४. इमे पन निगण्ठा. आसङ्काय विद्धोस्मीति सञ्ञं उप्पादेत्वा. पच्चाहरितुन्ति पच्चावत्तितुं, परिहरितुन्ति अत्थो.
५. अतीतवादं सद्दहन्तानन्ति, ‘‘अत्थि खो, भो, निगण्ठा पुब्बे पापकम्मं कत’’न्ति एवं अतीतंसं आरब्भ पवत्तं महानिगण्ठस्स वादं सद्दहन्तानं. भूतत्ताति यथाभूतत्ता किं अविपरीतमेव अत्थं आरम्मणं कत्वा पवत्ताति पुच्छति. सेसपदेसुपि एसेव नयो. सह धम्मेनाति सहधम्मो, सो एव सहधम्मिको यथा ‘‘वेनयिको’’ति (अ. नि. ८.११; पारा. ८). ‘‘धम्मो’’ति एत्थ कारणं अधिप्पेतन्ति आह – ‘‘सहेतुकं सकारण’’न्ति. पटिहरति पटिवत्तेतीति पटिहारो, वादो एव पटिहारो वादपटिहारो; तं, उत्तरन्ति अत्थो. तेनाह – ‘‘पच्चागमनकवाद’’न्ति, चोदनं परिवत्तेत्वा पटिपाकतिककरणन्ति अत्थो. तेसन्ति इदं आवुत्तिवसेन गहेतब्बं, ‘‘तेसं सद्धाछेदकवादं नाम तेसं दस्सेती’’ति.
६. अविज्जा अञ्ञाणा सम्मोहाति परियायवचनमेतं. अविज्जाति वा अविज्जाय करणभूताय. अञ्ञाणेनाति अजाननेन. सम्मोहेनाति सम्मुय्हनेन महामुळ्हताय. सामंयेव ओपक्कमिका एतरहि अत्तनो उपक्कमहेतु दुक्खवेदनं वेदियमानं – ‘‘यंकिञ्चायं…पे… पुब्बेकतहेतू’’ति विपरीततो सद्दहथ. पुब्बेकतहेतुवादसञ्ञितं विपल्लासग्गाहं गण्हथ.
७. दिट्ठधम्मो वुच्चति पच्चक्खभूतो, तत्थ वेदितब्बं फलं दिट्ठधम्मवेदनीयं. तेनाह – ‘‘इमस्मिंयेव अत्तभावे विपाकदायक’’न्ति. पयोगेनाति कायिकेन पयोगेन वा वाचसिकेन वा पयोगेन. पधानेनाति पदहनेन चेतसिकेन उस्साहनेन. आसन्ने भवन्तरे विपाचेतुं न सक्का, पगेव दूरेति दस्सेतुं, ‘‘दुतिये वा ततिये वा अत्तभावे’’ति वुत्तं. निब्बत्तकभावतो सुखवेदनाय हितन्ति सुखवेदनीयं. सा पन विपाकवेदनाभावतो एकन्ततो इट्ठारम्मणा एव होतीति आह ‘‘इट्ठारम्मणविपाकदायक’’न्ति. विपरीतन्ति अनिट्ठारम्मणविपाकदायकं. निप्फन्नेति सद्धिं अञ्ञेन कम्मेन निब्बत्ते. सम्परायवेदनीयस्साति उपपज्जवेदनीयस्स अपरापरियवेदनीयस्स. एवं सन्तेपीति कामं परिपक्कवेदनीयन्ति दिट्ठधम्मवेदनीयमेव वुच्चति, तथापि अत्थेत्थ अतिसयो दिट्ठधम्मविसेसभावतो परिपक्कवेदनीयस्साति दस्सेतुं, ‘‘अयमेत्था’’तिआदि वुत्तं. यस्मिं दिवसे कतं, ततो सत्तदिवसब्भन्तरे.
तत्राति तस्मिं परिपक्कवेदनीयकम्मस्स सत्तदिवसब्भन्तरे विपाकदाने. एकवारं कसित्वा निसीदि छातज्झत्तो हुत्वा. आगच्छन्ती आह – ‘‘उस्सूरे भत्तं आहरीयित्था’’ति दोमनस्सं अनुप्पादेत्वा यथा कतपुञ्ञं अनुमोदति. विज्जोतमानं दिस्वा, ‘‘किं नु खो इदम्पि तप्पकारो, मम चित्तविकप्पमत्तं, उदाहु सुवण्णमेवा’’ति वीमंसन्तो यट्ठिया पहरित्वा.
वाळयक्खसञ्चरणत्ता राजगहूपचारस्स नगरे सहस्सभण्डिकं चारेसुं. उप्पन्नरागो चूळाय डंसि. रञ्ञो आचिक्खित्वाति तं पवत्तिं रञ्ञो आचिक्खित्वा. मल्लिकाय वत्थु धम्मपदवत्थुम्हि (ध. प. अट्ठ. २.मल्लिकादेवीवत्थु) आगतेन नयेन कथेतब्बं.
मरणसन्तिकेपि कतं, पगेव ततो पुरेतरं अतीतत्तभावेसु च कतं. इध निब्बत्तितविपाकोति वुत्तो अवस्संभाविभावतो. सम्परायवेदनीयमेव भवन्तरे विपाकदायकभावतो. इध निब्बत्तितगुणोत्वेव वुत्तो, न इध निब्बत्तितविपाकोति विमुत्तिभावतो. परिपक्कवेदनीयन्ति वेदितब्बं हेट्ठा वुत्तपरिपक्कवेदनीयलक्खणानतिवत्तनतो. सब्बलहुं फलदायिकाति एतेन फलुप्पादनसमत्थतायोगेन कम्मस्स परिपक्कवेदनीयताति दस्सेति.
चतुप्पञ्चक्खन्धफलताय सञ्ञाभवूपगं कम्मं बहुवेदनीयन्ति वुत्तं. एकखन्धफलत्ता असञ्ञाभवूपगं कम्मं अप्पवेदनीयं. केचि पन, ‘‘अरूपावचरकम्मं बहुकालं वेदितब्बफलत्ता बहुवेदनीयं, इतरं अप्पवेदनीयं. रूपारूपावचरकम्मं वा बहुवेदनीयं, परित्तकम्मं अप्पवेदनीय’’न्ति वदन्ति. सविपाकं कम्मन्ति पच्चयन्तरसमवाये विपाकुप्पादनसमत्थं, न आरद्धविपाकमेव. अविपाकं कम्मन्ति पच्चयवेकल्लेन विपच्चितुं असमत्थं अहोसिकम्मादिभेदं.
८. दिट्ठधम्मवेदनीयादीनन्ति दिट्ठधम्मवेदनीयादीनं दसन्नं कम्मानं उपक्कमेन कम्मानं अञ्ञाथाभावस्स अनापादनीयत्ता यथासभावेनेव कम्मानि तिट्ठन्ति. तत्थ निगण्ठानं उपक्कमो निप्पयोजनोति आह ‘‘अफलो’’ति. निगण्ठानं पदहनस्स मिच्छावायामस्स निप्फलभावप्पवेदनो पधानच्छेदकवादो. परेहि वुत्तकारणेहीति येहि कारणेहि निगण्ठानं वादेसु दोसं दस्सेन्ति. तेहि परेहि वुत्तकारणेहि. न हि लक्खणयुत्तेन हेतुना विना परवादेसु दोसं दस्सेतुं सक्का. तेनाह ‘‘सकारणा हुत्वा’’ति. निगण्ठानं वादा च अनुवादा चाति निगण्ठेहि वुच्चमाना सकसकसमयप्पवेदिका वादाचेव सावकेहि वुच्चमाना तेसं अनुवादा च. विञ्ञूहि गरहितब्बं कारणं आगच्छन्तीति, ‘‘अयमेत्थ दोसो’’ति तत्थ तत्थ विञ्ञूहि पण्डितेहि गरहारहं कारणं उपगच्छन्ति, पापुणन्तीति अत्थो. तस्सत्थोतिआदीसु अयं सङ्खेपत्थो, ‘‘वुत्तनयेन परेहि वुत्तेन कारणेन सकारणा हुत्वा दोसदस्सनवसेन निगण्ठानं वादा अनुप्पत्ता, ततो एव तं वादं अप्पसादनीयभावदस्सनेन सोसेन्ता हेतुसम्पत्तिवोहारसुक्खनेन मिलापेन्ता दुक्कटकम्मकारिनोतिआदयो दस गारय्हापदेसा उपगच्छन्ती’’ति.
९. सङ्गतिभावहेतूति तत्थ तत्थ यदिच्छाय समुट्ठितसङ्गतिनिमित्तं. सा पन सङ्गति नियतिलक्खणाति आह ‘‘नियतिभावकारणा’’ति. अच्छेज्जसुत्तावुतअभेज्जमणि विय हि पटिनियतता नियतिपवत्तीति. छळभिजातिहेतूति कण्हाभिजाति नीलाभिजाति लोहिताभिजाति हलिद्दाभिजाति सुक्काभिजाति परमसुक्काभिजातीति इमासु अभिजातीसु जातिनिमित्तं. पापसङ्गतिकाति निहीनसङ्गतिका.
१०. अनद्धभूतन्ति एत्थ अधि-सद्देन समानत्थो अद्ध-सद्दोति आह – ‘‘अनद्धभूतन्ति अनधिभूत’’न्ति. यथा आपायिको अत्तभावो महता दुक्खेन अभिभुय्यति, न तथा अयन्ति आह – ‘‘दुक्खेन अनधिभूतो नाम मनुस्सत्तभावो वुच्चती’’ति. ‘‘अचेलको होती’’तिआदिना (दी. नि. १.३९४) वुत्ताय नानप्पकाराय दुक्करकारिकाय किलमथेन. यदि एवं कथं धुतङ्गधराति आह ‘‘ये पना’’तिआदि. निय्यानिकसासनस्मिञ्हि वीरियन्ति विवट्टसन्निस्सितं कत्वा पवत्तियमानं वीरियं सरीरं खेदन्तम्पि सम्मावायामो नाम होति ञायारद्धभावतो.
थेरोति एत्थ आगतमहारक्खितत्थेरो. तिस्सो सम्पत्तियो मनुस्सदेवनिब्बानसम्पत्तियो, सीलसमाधिपञ्ञासम्पत्तियो वा. खुरग्गेयेवाति खुरे सीसग्गे एव, खुरे सीसग्गतो अपनीते एवाति अधिप्पायो. अयन्ति, ‘‘इस्सरकुले निब्बत्तो’’तिआदिना वुत्तो. न सब्बे एव सक्कारपुब्बकं पब्बजित्वा अरहत्तं पापुणन्तीति आह ‘‘यो दासिकुच्छिय’’न्तिआदि. रजतमुद्दिकन्ति रजतमयं अङ्गुलिमुद्दिकं. गोरकपियङ्गुमत्तेनपीति कपित्थछल्लिकङ्गुपुप्फगन्धमत्तेनपि.
धम्मेन ञायेन आगतसुखं धम्मसुखन्ति आह – ‘‘सङ्घतो वा…पे… पच्चयसुख’’न्ति. अमुच्छितोति अनज्झापन्नो. इदानि तं अनज्झापन्नतं तस्स च फलं दस्सेतुं ‘‘धम्मिकं ही’’तिआदि वुत्तं. इमस्साति समुदयस्स. सो हि पञ्चक्खन्धस्स दुक्खस्स कारणभूतत्ता आसन्नो पच्चक्खो कत्वा वुत्तो. तेनाह ‘‘पच्चुप्पन्नान’’न्तिआदि. सङ्खारन्ति यथारद्धाय सातिसयं करणतो सङ्खारन्ति लद्धनामं बलववीरियं उस्सोळ्हिं. पदहतोति पयुञ्जन्तस्स पवत्तेन्तस्स. मग्गेन विरागो होतीति अरियमग्गेन दुक्खनिदानस्स विरज्जना होति. तेनाह ‘‘इदं वुत्तं होती’’ति. इमिना सुखापटिपदा खिप्पाभिञ्ञा कथिता अकसिरेनेव सीघतरं मग्गपजानताय बोधितत्ता. मज्झत्तताकारोति वीरियूपेक्खमाह. सङ्खारं तत्थ पदहतीति पधानसङ्खारं तत्थ दुक्खनिदानस्स विरज्जननिमित्तं विरज्जनत्थं पदहति. कथं? मग्गप्पधानेन चतुकिच्चप्पधाने अरियमग्गे वायामेन पदहति वायमति. अज्झुपेक्खतोति वीरियस्स अनच्चारद्धनातिसिथिलताय वीरियसमतायोजने ब्यापाराकरणेन अज्झुपेक्खतो. तेनाह ‘‘उपेक्खं भावेन्तस्सा’’ति. उपेक्खाभावना च नामेत्थ तथापवत्ता अरियमग्गभावना एवाति आह – ‘‘मग्गभावनाय भावेती’’ति.
एत्थ च एवं पाळिया पदयोजना वेदितब्बा, – ‘‘सो एवं पजानाति. कथं? सङ्खारं मे पदहतो सङ्खारपदहना इमस्स दुक्खनिदानस्स विरागो होति, अज्झुपेक्खतो मे उपेक्खना इमस्स दुक्खनिदानस्स विरागो होती’’ति. पटिपज्जमानस्स चायं पुब्बभागवीमंसस्साति गहेतब्बं. तत्थ सङ्खारप्पधानाति सम्मसनपदेन सुखेनेव खिप्पतरं भावनाउस्सुक्कापनवीरियं दस्सितन्ति सुखापटिपदा खिप्पाभिञ्ञा दस्सिता. अज्झुपेक्खतोति एत्थ कस्सचि नातिदळ्हं कत्वा पवत्तितवीरियेनपि दुक्खनिदानस्स विरागो होति विपस्सनमनुयुञ्जतीति दस्सितं. उभयत्थापि चतुत्थीयेव पटिपदा विभाविताति दट्ठब्बं. इदानि, ‘‘यस्स हि ख्वास्स…पे… उपेक्खं तत्थ भावेती’’ति वारेहि तासंयेव पटिपदानं वसेन तेसं पुग्गलानं पटिपत्ति दस्सिता. वट्टदुक्खनिदानस्स परिजिण्णं इमेहि वारेहि दुक्खक्खयो विभावितो.
११. बद्धचित्तोति सम्बद्धचित्तो. बहलच्छन्दोति बहलतण्हाछन्दो. अतिचरित्वाति अतिक्कमित्वा. नटसत्थविधिना नच्चनका नटा, नच्चका इतरे. सोमनस्सं उप्पज्जति, ‘‘ईदिसं नाम इत्थिं परिच्चजि’’न्ति. छिज्जाति द्विधा होतु. भिज्जाति भिज्जतु. ‘‘छिज्ज वा भिज्जवा’’ति पदद्वयेनपि विनासमेव वदति. ञत्वाति पुब्बभागञाणेन जानित्वा. तदुभयन्ति सङ्खारपदहनउपेक्खाभावनं.
१२. पेसेन्तस्साति वायमन्तस्स. तं सन्धायाति दुक्खाय पटिपदाय निय्यानतं सन्धाय.
उसुकारो विय योगी तेजनस्स विय चित्तस्स उजुकरणतो. गोमुत्तवङ्कं, चन्दलेखाकुटिलं, नङ्गलकोटिजिम्हं चित्तं. अलाता विय वीरियं आतापन-परितापनतो. कञ्चिकतेलं विय सद्धा सिनेहनतो. नमनदण्डको विय लोकुत्तरमग्गो निब्बानारम्मणे चित्तस्स नामनतो. लोकुत्तरमग्गेन चित्तस्स उजुकरणं भावनाभिसमयतो दट्ठब्बं. अन्तद्वयवज्जिता मज्झिमा पटिपत्तीति कत्वा किलेसगणविज्झनं पहानाभिसमयो. इतरा पन पटिपदा दन्धाभिञ्ञाति इमेसं द्विन्नं भिक्खूनं इमासु द्वीसु यथावुत्तासु खिप्पाभिञ्ञासु कथितासु, इतरापि कथिताव होन्ति लक्खणहारनयेन पटिपदासामञ्ञतो. सहागमनीयापि वा पटिपदा कथिताव, ‘‘न हेव अनद्धभूतं अत्थान’’न्तिआदिना पुब्बभागपटिपदाय कथितत्ता. ‘‘आगमनीयपटिपदा पन न कथिता’’ति इदं सविसेसं अज्झुपेक्खस्स अकथिततं सन्धाय वुत्तन्ति दट्ठब्बं. निक्खमनदेसनन्ति निक्खमनुपायं देसनं. सेसं सुविञ्ञेय्यमेव.
देवदहसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.