१. ब्रह्मायुसुत्तवण्णना
३८३. ‘‘महासत्तो महिद्धिको महानुभावो’’तिआदीसु (महाव. ३८) उळारता विसयो, ‘‘महाजनकायो सन्निपती’’तिआदीसु सम्बहुलभावविसयो, इध पन तदुभयम्पिस्स अत्थोति ‘‘महताति गुणमहत्तेनपि महता’’तिआदि वुत्तं. अप्पिच्छतादीति आदि-सद्देन सन्तुट्ठिसल्लेखपविवेकअसंसग्गवीरियारम्भादीनं सङ्गहो. दिट्ठिसीलसामञ्ञसङ्घातसङ्खातेनाति एत्थ ‘‘नियतो सम्बोधिपरायणो’’ (सं. नि. २.४१; ३.९९८, १००४) – ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो सञ्चिच्च पाणं जीविता वोरोपेय्याति नेतं ठानं विज्जती’’तिआदिवचनतो दिट्ठिसीलानं नियतसभावत्ता सोतापन्नापि अञ्ञमञ्ञं दिट्ठिसीलसामञ्ञेन संहता, पगेव सकदागामिआदयो. ‘‘तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरति (दी. नि. ३.३२४, ३५६; म. नि. १.४९२; ३.५४; अ. नि. ६.११; परि. २७४) तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरती’’ति (दी. नि. ३.३२४; म. नि. १.४९२; ३.५४; अ. नि. ६.१२; परि. २७४) वचनतो पुथुज्जनानम्पि दिट्ठिसीलसामञ्ञेन संहतभावो लब्भतियेव.
ओट्ठपहतकरणवसेन अत्थविभागवसेन. सनिघण्डुकेटुभानन्ति एत्थ निघण्डूति वचनीयवाचकभावेन अत्थं सद्दञ्च खण्डति विभज्ज दस्सेतीति निखण्डु. सो एव इध ख-कारस्स घ-कारं कत्वा ‘‘निघण्डू’’ति वुत्तो. किटति गमेति किरियादिविभागं, तं वा अनवसेसपरियादानतो गमेन्तो पूरेतीति केटुभं. वेवचनप्पकासकन्ति परियायसद्ददीपकं, एकेकस्स अत्थस्स अनेकपरियायवचनविभावकन्ति अत्थो. निदस्सनमत्तञ्चेतं अनेकेसम्पि अत्थानं एकसद्दवचनीयताविभावनवसेनपि तस्स गन्थस्स पवत्तत्ता. वचीभेदादिलक्खणा किरिया कप्पीयति एतेनाति किरियाकप्पो, सो पन वण्णपदसम्बन्धपदत्थविभागतो बहुविकप्पोति आह ‘‘किरियाकप्पविकप्पो’’ति. इदञ्च मूलकिरियाकप्पगन्थं सन्धाय वुत्तं. सो हि सतसहस्सपरिमाणो नलचरियादिपकरणं. ठानकरणादिविभागतो निब्बचनविभागतो च अक्खरा पभेदीयन्ति एतेहीति अक्खरप्पभेदा, सिक्खानिरुत्तियो. एतेसन्ति वेदानं. ते एव वेदे पदसो कायतीति पदको. तं तं सद्दं तदत्थञ्च ब्याकरोति ब्याचिक्खति एतेनाति ब्याकरणं, सद्दसत्थं. आयतिं हितं तेन लोको न यतति न ईहतीति लोकायतं. तञ्हि गन्थं निस्साय सत्ता पुञ्ञकिरियाय चित्तम्पि न उप्पादेन्ति. वयतीति वयो, न वयो अवयो, न अवयो अनवयो, आदिमज्झपरियोसानेसु कत्थचि अपरिकिलन्तो अवित्थायन्तो ते गन्थे सन्धारेति पूरेतीति अत्थो. द्वे पटिसेधा पकतिं गमेन्तीति दस्सेन्तो ‘‘अवयो न होती’’ति वत्वा तत्थ अवयं दस्सेतुं ‘‘अवयो…पे… न सक्कोती’’ति वुत्तं.
३८४. गरूति भारियं अत्तानं ततो मोचेत्वा गमनं दुक्करं होति. अनत्थोपि उप्पज्जति निन्दाब्यारोसउपारम्भादि. अब्भुग्गतोति एत्थ अभिसद्दयोगेन इत्थम्भूताख्यानत्थे उपयोगवचनं.
लक्खणानीति लक्खणदीपनानि मन्तपदानि. अन्तरधायन्तीति न केवलं लक्खणमन्तानियेव, अञ्ञानिपि ब्राह्मणानं ञाणबलाभावेन अनुक्कमेन अन्तरधायन्ति. तथा हि वदन्ति ‘‘एकसतं अद्धरियं दिपञ्ञासमत्ततो सामा’’तिआदि. पणिधिमहतो समादानमहतोतिआदिना पच्चेकं मह-सद्दो योजेतब्बो. पणिधिमहन्ततादि चस्स बुद्धवंसचरियापिटकवण्णनादिवसेनेव वेदितब्बो. निट्ठाति निप्फत्तियो. जातिसामञ्ञतोति लक्खणजातिया लक्खणभावेन समानभावतो. यथा हि बुद्धानं लक्खणानि सुविसुद्धानि सुपरिब्यत्तानि परिपुण्णानि च होन्ति, न एवं चक्कवत्तीनं. तेनाह ‘‘न तेहेव बुद्धो होती’’ति.
अभिरूपता दीघायुकता, अप्पातङ्कता ब्राह्मणादीनं पियमनापताति चतूहि अच्छरियधम्मेहि. दानं पियवचनं अत्थचरिया समानत्तताति इमेहि चतूहि सङ्गहवत्थूहि. रञ्जनतोति पीतिजननतो. चक्कं चक्करतनं वत्तेति पवत्तेतीति चक्कवत्ती, सम्पत्तिचक्केहि सयं वत्तेति, तेहि च परं सत्तनिकायं वत्तेति पवत्तेतीति चक्कवत्ती, परहितावहो इरियापथचक्कानं वत्तो वत्तनं एतस्स अत्थीति चक्कवत्ती, अप्पटिहतं वा आणासङ्खातं चक्कं वत्तेतीति चक्कवती, अप्पटिहतं वा आणासङ्खातं चक्कं वत्तेतीति चक्कवत्ती, खत्तियमण्डलादिसञ्ञितं चक्कं समूहं अत्तनो वसे वत्तेतीति चक्कवत्ती. धम्मं चरतीति धम्मिको. धम्मतो अनपेतत्ता धम्मो रञ्जनत्थेन राजाति धम्मराजा. कोपादीति आदि-सद्देन कामलोभमानमदादिके सङ्गण्हाति. विजितावीति विजितवा. केनचि अकम्पियट्ठेन जनपदत्थावरियप्पत्तो. दळ्हभत्तिभावतो वा जनपदो थावरियं पत्तो एत्थाति जनपदत्थावरियप्पत्तो. चित्तीकतभावादिनापि (खु. पा. अट्ठ. ६.३; दी. नि. अट्ठ. २.३३; सं. नि. अट्ठ. ३.५.२२३; सु. नि. अट्ठ. १.२२६; महानि. अट्ठ. ५०) चक्कस्स रतनट्ठो वेदितब्बो. एस नयो सेसेसुपि. रतिनिमित्तताय वा चित्तीकतादिभावस्स रतिजननट्ठेन एकसङ्गहताय विसुं अग्गहणं.
इमेहि पन रतनेहि राजा चक्कवत्ती यं यमत्थं पच्चनुभोति, तं तं दस्सेतुं ‘‘इमेसु पना’’तिआदि वुत्तं. अजितं जिनाति महेसक्खतासंवत्तनियकम्मनिस्सन्दभावतो. विजिते यथासुखं अनुविचरति हत्थिरतनं अस्सरतनञ्च अभिरुहित्वा तेसं आनुभावेन अन्तोपातरासेयेव सकलं पथविं अनुसंयायित्वा राजधानियं पच्चागमनतो. परिणायकरतनेन विजितमनुरक्खति तेन तत्थ तत्थ कत्तब्बकिच्चस्स संविधानतो. सेसेहीति मणिरतनइत्थिरतनगहपतिरतनेहि. तत्थ मणिरतनेन योजनप्पमाणे देसे अन्धकारं विधमित्वा आलोकदस्सनादिना सुखमनुभवति, इत्थिरतनेन अतिक्कन्तमानुसरूपसम्पत्तिदस्सनादिवसेन, गहपतिरतनेन इच्छितिच्छितमणिकनकरजतादिधनप्पटिलाभवसेन. उस्साहसत्तियोगो येन केनचि अप्पटिहताणाचक्कभावसिद्धितो. हत्थिअस्सरतनादीनं महानुभावत्ता कोससम्पत्तियापि पभावसम्पत्तिसिद्धितो ‘‘हत्थि…पे… योगो’’ति वुत्तं. कोसो हि नाम सति उस्साहसम्पत्तियं (उग्गतेजस्स सुकुमारपरक्कमस्स पसन्नमुखस्स सम्मुखे पापुणाति). पच्छिमेनाति परिणायकरतनेन. तञ्हि सब्बराजकिच्चेसु कुसलं अविरज्झनपयोगं. तेनाह ‘‘मन्तसत्तियोगो’’ति. तिविधसत्तियोगफलं परिपुण्णं होतीति सम्बन्धो. सेसेहीति सेसेहि पञ्चहि रतनेहि. अदोसकुसलमूलजनितकम्मानुभावेनाति अदोससङ्खातेन कुसलमूलेन सहजातादिपच्चयवसेन उप्पादितकम्मस्स आनुभावेन सम्पज्जन्ति सोम्मतररतनजातिकत्ता. मज्झिमानि मणिइत्थिगहपतिरतनानि. अलोभ…पे… कम्मानुभावेन सम्पज्जन्ति उळारधनस्स उळारधनपटिलाभकारणस्स च परिच्चागसम्पदाहेतुकत्ता. पच्छिमन्ति परिणायकरतनं. तञ्हि अमोह…पे… कम्मानुभावेन सम्पज्जति महापञ्ञेनेव चक्कवत्तिराजकिच्चस्स परिणेतब्बत्ता.
सरणतो पटिपक्खविधमनतो सूरा. तेनाह ‘‘अभीरुकजातिका’’ति. असुरे विजिनित्वा ठितत्ता वीरो, सक्को देवानमिन्दो, तस्स अङ्गं देवपुत्तो सेनङ्गभावतोति वुत्तं ‘‘वीरङ्गरूपाति देवपुत्तसदिसकाया’’ति. सभावोति सभावभूतो अत्थो. वीरकारणन्ति वीरभावकारणं. वीरियमयसरीरा वियाति सविग्गहवीरियसदिसा सविग्गहञ्चे वीरियं सिया, तंसदिसाति अत्थो. ननु रञ्ञो चक्कवत्तिस्स पटिसेना नाम नत्थि, यमस्स पुत्ता पमद्देय्युं, अथ कस्मा ‘‘परसेनपमद्दना’’ति वुत्तन्ति चोदनं सन्धायाह ‘‘सचे’’तिआदि. तेन परसेना होतु वा मा वा, ते पन एवं महानुभावाति दस्सेति. धम्मेनाति कतूपचितेन अत्तनो पुञ्ञधम्मेन. तेन हि सञ्चोदिता पथवियं सब्बराजानो पच्चुग्गन्त्वा ‘‘स्वागतं ते महाराजा’’तिआदिं वत्वा अत्तनो रज्जं रञ्ञो चक्कवत्तिस्स निय्यादेन्ति. तेन वुत्तं ‘‘सो इमं…पे… अज्झावसती’’ति. अट्ठकथायं पन तस्स यथावुत्तधम्मस्स चिरतरं विपच्चितुं पच्चयभूतं चक्कवत्तिवत्तसमुदागतं पयोगसम्पत्तिसङ्खातं धम्मं दस्सेतुं ‘‘पाणो न हन्तब्बोतिआदिना पञ्चसीलधम्मेना’’ति वुत्तं. एवञ्हि ‘‘अदण्डेन असत्थेना’’ति इदं वचनं सुट्ठुतरं समत्थितं होति, यस्मा रागादयो पापधम्मा उप्पज्जमाना सत्तसन्तानं छादेत्वा परियोनन्धित्वा तिट्ठन्ति, कुसलपवत्तिं निवारेन्ति, तस्मा ते ‘‘छदना, छदा’’ति च वुत्ता.
विवट्टेत्वा परिवत्तेत्वा. पूजारहता वुत्ता ‘‘अरहतीति अरह’’न्ति. तस्साति पूजारहताय. यस्मा सम्मासम्बुद्धो, तस्मा अरहन्ति. बुद्धत्तहेतुभूता विवट्टच्छदता वुत्ता सवासनसब्बकिलेसप्पहानपुब्बकत्ता बुद्धभावसिद्धिया. अरहं वट्टाभावेनाति फलेन हेतुअनुमानदस्सनं. सम्मासम्बुद्धो छदनाभावेनाति हेतुना फलानुमानदस्सनं. हेतुद्वयं वुत्तं ‘‘विवट्टो विच्छदो चा’’ति. दुतियवेसारज्जेनाति ‘‘खीणासवस्स ते पटिजानतो’’तिआदिना (म. नि. १.१५०) आगतेन वेसारज्जेन. पुरिमसिद्धीति पुरिमस्स पदस्स अत्थसिद्धि. पठमेनाति ‘‘सम्मासम्बुद्धस्स ते पटिजानतो’’तिआदिना (म. नि. १.१५०) आगतेन वेसारज्जेन. दुतियसिद्धीति बुद्धत्तसिद्धि. ततियचतुत्थेहीति ‘‘ये खो पन ते अन्तरायिका धम्मा’’तिआदिना (म. नि. १.१५०), ‘‘यस्स खो पन ते अत्थाया’’तिआदिना (म. नि. १.१५०) च आगतेहि ततियचतुत्थेहि वेसारज्जेहि. ततियसिद्धीति विवट्टच्छदनता सिद्धि. याथावतो अन्तरायिकनिय्यानिकधम्मापदेसेन हि सत्थु विवट्टच्छदभावो लोके पाकटो अहोसि. पुरिमं धम्मचक्खुन्ति पुरिमपदं भगवतो धम्मचक्खुं साधेति किलेसारीनं संसारचक्कस्स च अरानं हतभावदीपनतो. दुतियं पदं बुद्धचक्खुं साधेति सम्मासम्बुद्धस्सेव तं सम्भवतो. ततियं पदं समन्तचक्खुं साधेति सवासनसब्बकिलेसप्पहानदीपनतो. ‘‘सम्मासम्बुद्धो’’ति हि वत्वा ‘‘विवट्टच्छदो’’ति वचनं बुद्धभावावहमेव सब्बकिलेसप्पहानं विभावेतीति. सूरभावन्ति लक्खणविभावनेन विसदञाणतं.
३८५. गवेसीति (दी. नि. टी. १.२८७) ञाणेन परियेसनं अकासि. समानयीति ञाणेन सङ्कलेन्तो समानं आनयि समाहरि. न सक्कोति संकुचिते इरियापथे येभुय्येन तेसं दुब्बिभावनतो. कङ्खतीति पदस्स आकङ्खतीति अयमत्थोति आह – ‘‘अहो वत पस्सेय्यन्ति पत्थनं उप्पादेती’’ति. किच्छतीति किलमति. ‘‘कङ्खती’’ति पदस्स पुब्बे आसीसनत्थतं वत्वा इदानि तस्स संसयत्थत्तमेव विकप्पन्तरवसेन दस्सेन्तो ‘‘कङ्खाय वा दुब्बला विमति वुत्ता’’तिआदि वुत्तं. तीहि धम्मेहि तिप्पकारेहि संसयधम्मेहि. कालुस्सियभावोति अप्पसन्नताय हेतुभूतो आविलभावो. यस्मा भगवतो कोसोहितं सब्बबुद्धावेणिकं वत्थगुय्हं सुविसुद्धकञ्चनमण्डलसन्निकासं अत्तनो सण्ठानसन्निवेससुन्दरताय आजानेय्यगन्धहत्थिनो वरङ्गचारुभावं विकसमानतपनियारविन्दसमुज्जलकेसरावत्तविलासं सञ्झापभानुरञ्जितजलवनन्तराभिलक्खित-सम्पुण्णचन्दमण्डलसोभञ्च अत्तनो सिरिया अभिभुय्य विराजति, यं बाहिरब्भन्तरमलेहि अनुपक्किलिट्ठताय चिरकालं सुपरिचितब्रह्मचरियाधिकारताय सुसण्ठितसण्ठानसम्पत्तिया च कोपीनम्पि सन्तं अकोपीनमेव, तस्मा वुत्तं ‘‘भगवतो ही’’तिआदि. पहूतभावन्ति पुथुलभावं. एत्थेव हि तस्स संसयो, तनुमुदुसुकुमारतादीसु पनस्स गुणेसु तस्स विचारणा एव नाहोसि.
हिरिकरणोकासन्ति हिरियितब्बट्ठानं. छायन्ति पटिबिम्बं. कीदिसन्ति आह ‘‘इद्धिया’’तिआदि. छायारूपन्ति भगवतो पटिबिम्बरूपं. तञ्च खो बुद्धसन्तानतो विनिमुत्तं रूपकमत्तं भगवतो सरीरवण्णसण्ठानावयवं इद्धिमयं बिम्बकमत्तं, तं पन दस्सेन्तो भगवा यथा अत्तनो बुद्धरूपं न दिस्सति, तथा कत्वा दस्सेति. नीहरित्वाति फरित्वा.
कण्णसोतानं उपचिततनुतम्बलोमताय धोतरजतपनाळिकासदिसता वुत्ता. मुखपरियन्तेति केसन्ते.
किरियाकरणन्ति किरियाय कायिकस्स वाचसिकस्स पटिपत्ति. तत्थाति तेसु किच्चेसु. धम्मकथिकानं वत्तं दस्सेतुं बीजनिग्गहणं कतं. न हि अञ्ञथा सब्बस्सपि लोकस्स अलङ्कारभूतं परमुक्कंसगतं सिक्खासंयमानं बुद्धानं मुखचन्दमण्डलं पटिच्छादेतब्बं होति.
पत्थरितवितानओलम्बितगन्धदामकुसुमदामके गन्धमण्डलमाळे. पुब्बभागेन परिच्छिन्दित्वाति ‘‘एत्तकं वेलं समापत्तिया वीतिनामेस्सामी’’ति एवं पवत्तेन पुब्बभागेन कालं परिच्छिन्दित्वा. पच्चयदायकेसु अनुरोधवसेन परिसं उस्सादेन्तो वा पग्गण्हन्तो, अदायकेसु विरोधवसेन परिसं अपसादेन्तो वा.
योगक्खेमं अन्तरायाभावं. सभावगुणेनेवाति यथावुत्तगुणेनेव. भोतो गोतमस्स गुणं सविग्गहं चक्कवाळं अतिसम्बाधं वित्थारेन सन्धारेतुं अप्पहोन्ततो. भवग्गं अतिनीचं उपरूपरि सन्धारेतुं अप्पहोन्ततो.
३८६. ठानगमनादीसु (दी. नि. टी. २.३५) भूमियं सुट्ठु समंपतिट्ठिता पादा एतस्साति सुप्पतिट्ठितपादो. तं पन भगवतो सुप्पतिट्ठितपादतं ब्यतिरेकमुखेन विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ अग्गतलन्ति अग्गपादतलं. पण्हीति पण्हितलं. पस्सन्ति पादतलस्स द्वीसु पस्सेसु एकेकं, उभयमेव वा परियन्तं पस्सं. सुवण्णपादुकतलं विय उजुकं निक्खिपियमानं. एकप्पहारेनेवाति एकक्खणेयेव. सकलं पादतलं भूमिं फुसति निक्खिपने. एकप्पहारेनेव सकलं पादतलं भूमितो उट्ठहतीति योजना.
तत्राति ताय सुप्पतिट्ठितपादताय अनुपुब्बनिन्नाव अच्छरियब्भुतं इदं वुच्चमानं निस्सन्दफलं. वुत्तमेवत्थं सत्थु तिदिवगमनेन सुपाकटं कातुं ‘‘तथा ही’’तिआदिं वत्वा ‘‘न ही’’तिआदिना तं समत्थेति. तेन पठमलक्खणतोपि दुतियलक्खणं महानुभावन्ति दस्सेति. तथा हि वक्खति ‘‘अन्तमसो चक्कवत्तिरञ्ञो परिसं उपादाय सब्बोपि चक्कलक्खणस्सेव परिवारो’’ति. युगन्धरपब्बतस्स तावतिंसभवनस्स च पकतिपदनिक्खेपट्ठानुपसङ्कमने नेव बुद्धानं, न देवतानं आनुभावो, अथ खो बुद्धानं लक्खणानुभावोति इममत्थं निदस्सितं. सीलतेजेन…पे… दसन्नं पारमीनं आनुभावेनाति इदम्पि लक्खणनिब्बत्तकम्मविसेसकित्तनमेवाति दट्ठब्बं. सब्बावन्तेहीति सब्बपदेसवन्तेहि.
नाभिपरिच्छिन्नाति नाभियं परिच्छिन्ना परिच्छेदवसेन ठिता. नाभिमुखपरिक्खेपपट्टोति पकतिचक्कस्स अक्खब्भाहतपरिहरणत्थं नाभिमुखे ठपेतब्बपरिक्खेपपट्टो. नेमिमणिकाति नेमियं आवळिभावेन ठितमणिकालेखा.
सम्बहुलवारोति बहुविधलेखङ्गविभावनवारो. सत्तीति आवुधसत्ति. सिरिवच्छोति सिरिमुखं. नन्दीति दक्खिणावट्टं. सोवत्तिकोति सोवत्तिअङ्को. वटंसकोति आवेळं. वड्ढमानकन्ति पुरिसहारि पुरिसङ्गं. मोरहत्थकोति मोरपिञ्छकलापो, मोरपिञ्छ परिसिब्बितो वा बीजनिविसेसो. वालबीजनीति चामरिवालं. सिद्धत्थादि पुण्णघटपुण्णपातियो. ‘‘चक्कवाळो’’ति वत्वा तस्स पधानावयवे दस्सेतुं ‘‘हिमवा सिनेरु…पे… सहस्सानी’’ति वुत्तं.
आयतपण्हीति इदं अञ्ञेसं पण्हितो दीघतं सन्धाय वुत्तं, न पन अतिदीघतन्ति आह ‘‘परिपुण्णपण्ही’’ति. यथा पन पण्हिलक्खणं परिपुण्णं नाम होति, तं ब्यतिरेकमुखेन दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. आरग्गेनाति मण्डलाय सिखाय. वट्टेत्वाति यथा सुवट्टं होति, एवं वट्टेत्वा. रत्तकम्बलगेण्डुकसदिसाति रत्तकम्बलमयगेण्डुकसदिसा.
मक्कटस्सेवाति वानरस्स विय. दीघभावेन समतं सन्धायेतं वुत्तं. निय्यासतेलेनाति छदिकनिय्यासादिनिय्याससम्मिस्सेन तेलेन.
तलुनाति सुकुमारा.
चम्मेनाति अङ्गुलन्तरवेठितचम्मेन. पटिबद्धअङ्गुलन्तरोति एकतो सम्बद्धअङ्गुलन्तरो. एकप्पमाणाति दीघतो समानप्पमाणा. यवलक्खणन्ति अब्भन्तरतो अङ्गुलिपब्बेठितं यवलक्खणं. पटिविज्झित्वाति तंतंपब्बानं समानदेसताय अङ्गुलीनं पसारितकाले अञ्ञमञ्ञं विज्झितानि विय फुसित्वा तिट्ठन्ति.
सङ्खा वुच्चन्ति गोप्फका, उद्धं सङ्खा एतेसन्ति उस्सङ्खा, पादा. पिट्ठिपादेति पिट्ठिपादसमीपे. सुखेन पादा परिवत्तन्ति पादनामनादीसु, तेनेव गच्छन्तानं तेसं हेट्ठा पादतलानि दिस्सन्ति. तेनाति गोप्फकानं पिट्ठिपादतो उद्धं पतिट्ठितत्ता. चतुरङ्गुलमत्तञ्हि तानि उद्धं आरोहित्वा पतिट्ठहन्ति, निगुळ्हानि च होन्ति, न अञ्ञेसं विय पञ्ञायमानानि. सतिपि देसन्तरप्पवत्तियं निच्चलोति दस्सनत्थं नाभिग्गहणं.
यस्मा एणीमिगस्स समन्ततो एकसदिसमंसा अनुक्कमेन उद्धं थूला जङ्घा होन्ति, तस्मा वुत्तं ‘‘एणीमिगसदिसजङ्घा’’ति. परिपुण्णजङ्घोति समन्ततो मंसूपचयेन परिपुण्णजङ्घो. तेनाह ‘‘न एकतो’’तिआदि.
एतेनाति ‘‘अनोनमन्तो’’तिआदिवचनेन, जाणुफासुभावदीपनेनाति अत्थो. अवसेसजनाति इमिना लक्खणेन रहिता जना. खुज्जा वा होन्ति हेट्ठिमकायतो उपरिमकायस्स रस्सताय. वामना वा उपरिमकायतो हेट्ठिमकायस्स रस्सताय. एतेन ठपेत्वा सम्मासम्बुद्धं चक्कवत्तिनञ्च इतरे सत्ता खुज्जा वामना चाति दस्सेति.
ओहितन्ति समोहितं अन्तोगधं. तथाभूतं पन तं तेन छन्नं होतीति आह ‘‘पटिच्छन्न’’न्ति.
सुवण्णवण्णोति सुवण्णवण्णवण्णोति अयमेत्थ अत्थोति आह ‘‘जातिहिङ्गुलकेना’’तिआदि. स्वायमत्थो आवुत्तिञायेन च वेदितब्बो. सरीरपरियायो इध वण्णसद्दोति अधिप्पायेन पठमविकप्पं वत्वा तथारूपाय पन रुळ्हिया अभावं मनसि कत्वा वण्णधातुपरियायमेव वण्णसद्दं गहेत्वा दुतियविकप्पो वुत्तो.
रजोति सुखुमरजो. जल्लन्ति मलीनभावावहो रेणुसञ्चयो. तेनाह ‘‘मलं वा’’ति. यदि विवट्टति, कथं न्हानादीति आह ‘‘हत्थधोवना’’तिआदि.
आवट्टपरियोसानेति पदक्खिणावट्टाय अन्ते.
ब्रह्मुनो सरीरं पुरतो वा पच्छतो वा अनोनमित्वा उजुकमेव उग्गतन्ति आह ‘‘ब्रह्मा विय उजुगत्तो’’ति. पस्सवङ्काति दक्खिणपस्सेन वा वामपस्सेन वा वङ्का.
हत्थपिट्ठिआदिवसेन सत्त उस्सदा एतस्साति सत्तुस्सदो.
सीहस्स पुब्बद्धं सीहपुब्बद्धं, परिपुण्णावयवताय सीहपुब्बद्धं विय सकलो कायो अस्साति सीहपुब्बद्धकायो. सीहस्सेवाति सीहस्स विय. सण्ठन्तीति सण्ठहन्ति. नानाचित्तेनाति विविधचित्तेन. पुञ्ञचित्तेनाति पारमितापुञ्ञचित्तरूपेन. चित्तितोति सञ्जातचित्तभावो.
द्विन्नं कोट्टानमन्तरन्ति द्विन्नं पिट्ठिबाहानं वेमज्झं, पिट्ठिमज्झस्स उपरिभागो. चितं परिपुण्णन्ति अनिन्नभावेन चितं, द्वीहि कोट्टेहि समतलताय परिपुण्णं. उग्गम्माति उग्गन्त्वा.
निग्रोधपरिमण्डलो विय परिमण्डलो निग्रोधपरिमण्डलो एकस्स परिमण्डलसद्दस्स लोपं कत्वा. न हि सब्बो निग्रोधो मण्डलो. तेनाह ‘‘समक्खन्धसाखो निग्रोधो’’ति. परिमण्डलसद्दसन्निधानेन वा परिमण्डलोव निग्रोधो गय्हतीति परिमण्डलसद्दस्स लोपेन विनापि अयमत्थो लब्भतीति आह ‘‘निग्रोधो विय परिमण्डलो’’ति. यावतक्वस्साति ओ-कारस्स व-कारादेसं कत्वा वुत्तं.
समवट्टितक्खन्धोति समं सुवट्टितक्खन्धो. कोञ्चा विय दीघगला, बका विय वङ्कगला, वराहा विय पुथुलगलाति योजना. सुवण्णालिङ्गसदिसोति सुवण्णमयखुद्दकमुदिङ्गसदिसो.
रसग्गसग्गीति मधुरादिभेदं रसं गसन्ति अन्तो पवेसन्तीति रसग्गसा, रसग्गसानं अग्गा रसग्गसग्गा, ता एतस्स सन्तीति रसग्गसग्गी. तेनाति ओजाय अफरणेन, हीनधातुकत्ता ते बह्वाबाधा होन्ति.
‘‘हनू’’ति सन्निस्सयदन्ताधारस्स समञ्ञा, तं भगवतो सीहहनुसदिसं, तस्मा भगवा सीहहनु. तत्थ यस्मा बुद्धानं रूपकायस्स धम्मकायस्स च उपमा नाम निहीनुपमाव, नत्थि समानुपमा, कुतो अधिकूपमा, तस्मा अयम्पि निहीनुपमाति दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. तिभागवसेन मण्डलताय द्वादसियं पक्खस्स चन्दसदिसानि.
दन्तानं उच्चनीचता अब्भन्तरबाहिरपस्सवसेनपि वेदितब्बा, न अग्गवसेनेव. तेनाह ‘‘अयपट्टछिन्नसङ्खपटलं विया’’ति. अयपट्टन्ति च ककचं अधिप्पेतं. विसमाति विसमसण्ठाना.
विच्छिन्दित्वा विच्छिन्दित्वा पवत्तसरताय छिन्नस्सरापि. अनेकाकारताय भिन्नस्सरापि. काकस्स विय अमनुञ्ञसरताय काकस्सरापि. अपलिबुद्धत्ताति अनुपद्दुतवत्थुकत्ता. वत्थुन्ति च अक्खरुप्पत्तिट्ठानमाह. अट्ठङ्गसमन्नागतोति एत्थ अट्ठङ्गानि परतो आगमिस्सन्ति. मञ्जुघोसोति मधुरस्सरो.
करवीकसद्दो येसं सत्तानं सोतपथं उपगच्छति, ते अत्तनो सरसम्पत्तिया पकतिं जहापेत्वा अवसे करोन्तो अत्तनो वसे वत्तेति, एवं मधुरोति दस्सेन्तो ‘‘तत्रिद’’न्तिआदिमाह. तं पीतिन्ति तं बुद्धगतं पीतिं. तेनेव नीहारेन पुनप्पुनं पवत्तन्तं अविजहित्वा विक्खम्भितकिलेसा थेरानं सन्तिके लद्धधम्मस्सवनसप्पाया उपनिस्सयसम्पत्तिया परिपक्कञाणताय ‘‘सत्तहि…पे… पतिट्ठासी’’ति. सत्तसतमत्तेन ओरोधजनेन सद्धिं पदसाव थेरानं सन्तिकं उपगतत्ता ‘‘सत्तहि जङ्घासतेहि सद्धि’’न्ति वुत्तं.
अभिनीलनेत्तोति अधिकनीलनेत्तो. अधिकनीलता च सातिसयं नीलभावेन वेदितब्बा, न नेत्ते नीलवण्णस्सेव अधिकभावतोति आह ‘‘न सकलनीलनेत्तोवा’’तिआदि. पीतलोहितवण्णा सेतमण्डलगतराजिवसेन, नीलसेतकाळवण्णा पन तंतंमण्डलवसेनेव वेदितब्बा.
चक्खुभण्डन्ति अक्खिदलन्ति केचि, अक्खिदलपत्तन्ति अञ्ञे. अक्खिदलेहि पन सद्धिं अक्खिबिम्बन्ति वेदितब्बं. एवञ्हि विनिग्गतगम्भीरजोतनापि युत्ता होति.
उण्णासद्दो लोके अविसेसतो लोमपरियायो, इध पन लोमविसेसवाचकोति आह ‘‘उण्णलोम’’न्ति. नलाटमज्झजाताति नलाटमज्झगता. ओदातताय उपमा, न मुदुताय. रजतपुब्बुळकाति रजतमयतारका.
द्वे अत्थवसे पटिच्च वुत्तन्ति यस्मा बुद्धा चक्कवत्तिनो च परिपुण्णनलाटताय परिपुण्णसीसबिम्बताय च ‘‘उण्हीससीसा’’ति वुच्चन्ति, तस्मा ते द्वे अत्थवसे पटिच्च ‘‘उण्हीससीसो’’ति इदं वुत्तं. इदानि तं अत्थद्वयं भगवति सुप्पतिट्ठितन्ति दस्सेतुं ‘‘तथागतस्सही’’तिआदि वुत्तं. सण्हतमताय सुवण्णवण्णताय च रञ्ञो बद्धउण्हीसपट्टो विय विरोचति. कप्पसीसाति द्विधाभूतसीसा. फलसीसाति फलसदिससीसा. अट्ठिसीसाति मंसस्स अभावतो तचोपरियोनद्धअट्ठिमत्तसीसा. तुम्बसीसाति लाबुसदिससीसा. पब्भारसीसाति पिट्ठिभागेन ओलम्बमानसीसा. पुरिमनयेनाति परिपुण्णनलाटतापक्खेन. उण्हीसवेठितसीसो वियाति उण्हीसपट्टेन वेठितसीसपदेसो विय. उण्हीसं वियाति छेकेन सिप्पिना विरचितउण्हीसमण्डलं विय.
कम्मन्ति येन येन कम्मेन यं यं लक्खणं निब्बत्तं, तं तं कम्मं. कम्मसरिक्खकन्ति तस्स तस्स लक्खणस्स तंकम्मानुरूपता. लक्खणन्ति तस्स महापुरिसलक्खणस्स अविपरीतसभावो. लक्खणानिसंसन्ति तं लक्खणपटिलाभेन लद्धब्बगुणो. इमानि कम्मादीनीति इमानि अनन्तरं वुत्तानि कम्मकम्मसरिक्खकादीनि दस्सेत्वा तं सरूपतो विभावेत्वा कथेतब्बानि संवण्णकेन.
रतनविचित्तसुवण्णतोरणं तस्मिं काले मनुस्सलोके नत्थीति वुत्तं ‘‘देवनगरे’’ति. सब्बसो सुपुप्फितसालरुक्खो असाधारणसोभो मनुस्सूपचारे न लब्भतीति आह ‘‘सेलन्तरम्ही’’ति. किरियाचारन्ति कायिकवाचसिककिरियापवत्तिं.
३८७. सततपाटिहारियन्ति सततं चरिमभवे सब्बकालं लक्खणनिब्बत्तककम्मानुभावहेतुकं बुद्धावेणिकं पाटिहारियं. बुद्धानं अतिदूरे पादं निक्खिपितुकामानम्पि नातिदूरे एव निक्खिपनं होतीति ‘‘न अतिदूरे ठपेस्सामीति उद्धरती’’ति वुत्तं. पकतिसञ्चरणवसेनेतं वुत्तं, तादिसेन पादेन अनेकयोजने ठपेस्सामीति उद्धरणम्पि होतियेव. अतिदूरं हीतिआदि पमाणातिक्कमे दोसदस्सनं. एवं सतीति एवं दक्खिणपादवामपादानं यथाधिप्पेतपतिट्ठितट्ठाने सति. पदविच्छेदोति पदवारविच्छेदो. यादिसं पसारेन्तो वामपादस्स उद्धरणं पतिट्ठानञ्च, दक्खिणपादस्स तादिसमेव, इति नेसं उद्धरणपतिट्ठानानं समानतो अञ्ञमञ्ञभावेन अनूनानधिकताय वुत्तं ‘‘दक्खिणपादकिच्चं वामपादेन नियमितं, वामपादकिच्चं दक्खिणपादेन नियमित’’न्ति.
दिवाति उपकट्ठाय वेलाय. विहारभत्तत्थायाति विहारे यथावुद्धं गहेतब्बभत्तत्थाय. पच्छतो आगच्छन्तोति पकतिगमनेन पच्छतो आगच्छन्तो. ओकासं न लभतीति पदनिक्खेपट्ठानं न लभति. ऊरुपरियायो इध सत्थि-सद्दोति आह ‘‘न ऊरुं उन्नामेती’’ति. दण्डङ्कुसं वुच्चति दीघदण्डो अङ्कुसो, तेन रुक्खसाखं छिन्दतो पुरिसस्स यथा पच्छाभागेन पादानं ओसक्कनं होति, एवं भगवतो पादा न ओसक्कन्तीति आह ‘‘रुक्खसाखाछेदन…पे… ओसक्कापेती’’ति. ओबद्धानाबद्धट्ठानेहि पादं कोट्टेन्तो वियाति आबद्धट्ठानेन अनाबद्धट्ठानेन च पादखण्डं कोट्टेत्वा थद्धं करोन्तो विय. न इतो चितो च चालेतीति अपरापरं न चालेति. उस्सङ्खपादताय सुखेनेव पादानं परिवत्तनतो नाभितो पट्ठाय उपरिमकायो न इञ्जतीति हेट्ठिमकायोव इञ्जति. तेनाह ‘‘उपरिम…पे… निच्चलो होती’’ति. न जानाति अनिञ्जनतो. कायबलेनाति गमनपयोगसङ्खातेन कायगतेन विसेसबलेन. जवगमनहेतुभूतेन वा कायबलेन. तेनाह ‘‘बाहा खिपन्तो’’तिआदि. जवेन गच्छन्तो हि बाहा खिपति, सरीरतो सेदा मुच्चन्ति. नागापलोकितवसेनाति नागस्स अपलोकनमिव सकलकायेनेव परिवत्तेत्वा अपलोकनवसेन.
अनावरणञाणस्साति अनावरणञाणबलेन दस्सनस्स. अनावरणवारो पन काये पतिट्ठितरूपदस्सनम्पि अनावरणमेवाति दस्सनत्थं वुत्तो. इन्दखीलतो पट्ठायाति नगरद्वारे इन्दखीलतो पट्ठाय. पकतिइरियापथेनेवाति ओनमनादिं अकत्वा उजुकगमनादिना एव. यदि एवं कोट्ठकद्वारगेहप्पवेसे कथन्ति आह ‘‘दलिद्दमनुस्सान’’न्तिआदि. परिवत्तेन्तेनाति निपज्जनत्थं कायं परिवत्तेन्तेन.
हत्थेहि गहेत्वाति उभोहि हत्थेहि उभोसु कटिप्पदेसेसु परिग्गहेत्वा. पतति निसीदनट्ठाने निपज्जनवसेन पतति. ओरिमं अङ्गं निस्साय निसिन्नोति पल्लङ्कमाभुजित्वा उक्कुटिकनिसज्जाय उपरिमकायं हेट्ठिमकाये पतिट्ठपेन्तोयेव भारीकरणवसेन ओरिमङ्गं निस्साय निसिन्नो. घंसन्तोति आनिसददेसेन आसनट्ठानं घंसन्तो. पारिमङ्गन्ति सत्थिभागसम्मद्दं आनिसदपदेसं. तथेवाति घंसन्तो एव. ओलम्बकं धारेन्तो वियाति ओलम्बकसुत्तं ओतारेन्तो विय. तेन उजुकमेव निसीदनमाह. सरीरस्स गरुकभावहेतूनं दूरतो समुपायितभावेन सल्लहुकभावतो तूलपिचुं ठपेन्तो विय.
अप्पेसक्खानं महानुभावगेहप्पवेसे सिया छम्भितत्तं, चित्तक्खोभो, दरथवसेन नानप्पकारकप्पनं, भयवसेन तण्हावसेन परितस्सनं, तं सब्बं भगवतो नत्थीति दस्सेतुं पाळियं ‘‘न छम्भती’’तिआदि (म. नि. २.३८७) वुत्तन्ति आह ‘‘न छम्भती’’तिआदि.
उदकं दीयति एतेनाति उदकदानं, भिङ्कारादि उदकभाजनं. बद्धं कत्वाति हत्थगतमत्तिकं विय अत्तनो वसे अवत्तन्तं कत्वा. परिवत्तेत्वाति कुज्जित्वा. विछड्डयमानो उदकस्स विक्खिपनवसेन छड्डयमानो.
तथा न गण्हाति, ब्यञ्जनमत्ताय एव गण्हन्तो. भत्तं वा अमनापन्ति आनेत्वा योजना. ब्यञ्जनेन आलोपअतिनामनं, आलोपेन ब्यञ्जनअतिनामनन्ति इमेसु पन द्वीसु पठममेव असारुप्पताय अनिट्ठं वज्जेतब्बन्ति पाळियं पटिक्खित्तन्ति दट्ठब्बं. सब्बत्थेवाति सब्बस्मिं आहरितब्बवत्थुस्मिं सुपणीतभावेन रसो पाकटो होति ञाणेन परिञ्ञातत्ता. रसगेधो पन नत्थि सेतुघातत्ता.
अस्साति ‘‘नेव दवाया’’तिआदिपदस्स. वुत्तमेतन्ति ‘‘विसुद्धिमग्गे विनिच्छयो आगतो’’ति सब्बासवसुत्ते (म. नि. १.२३) संवण्णयन्तेन वुत्तमेतं, तस्मा न एत्थ तं वत्तब्बन्ति अधिप्पायो, तस्मा यो तस्मिं तस्मिं विनिच्छये विसेसवादो इच्छितब्बो. सो परमत्थमञ्जूसाय विसुद्धिमग्गवण्णनाय वुत्तनयेनेव वेदितब्बो. पत्तस्स गहणट्ठानन्ति हत्थेन पत्तस्स गहणपदेसं. विनिवत्तित्वाति पत्ते सब्बं आमिसगतं सद्धिं भत्तेन विनिवत्तित्वा गच्छति. पमाणातिक्कन्तन्ति केलायनवसेन अतिक्कन्तपमाणं आरक्खं ठपेति. चीवरभोगन्तरन्ति चीवरपटलन्तरं. उदरेन अक्कमित्वाति उदरेनेव सन्निरुम्भित्वा.
अप्पत्तकालं अभिमुखं नामेति उपनामेतीति अतिनामेति, पत्तकालं अतिक्कामेन्तो नामेति अपनेतीति अतिनामेति. उभयम्पि एकज्झं गहेत्वा पाळियं ‘‘न च अनुमोदनस्स कालमतिनामेती’’ति वुत्तन्ति दस्सेन्तो ‘‘यो ही’’तिआदिमाह.
वेगगमनेन पटिसंमुञ्चित्वा धावित्वा गच्छति. अच्चुक्कट्ठन्ति अतिविय उद्धं कत्वा कड्ढितपारुतं. तेनाह ‘‘यो हि याव हनुकट्ठितो…पे… होती’’ति. अच्चोक्कट्ठन्ति अतिविय हेट्ठा कत्वा कड्ढितपारुतं. तेनाह ‘‘याव गोप्फका ओतारेत्वा’’ति. उभतो उक्खिपित्वाति दक्खिणतो वामतोति उभोसु पस्सेसु उत्तरासङ्गं उक्खिपित्वा. थनन्ति दक्खिणथनं.
विस्सट्ठोति विमुत्तो. तेनाह ‘‘विस्सट्ठत्तायेव चेस विञ्ञेय्यो’’ति. यस्मा अमुत्तवादिनो वचनं अविस्सट्ठताय न सिनिय्हति, न एवं मुत्तवादिनोति आह ‘‘सिनिद्धो’’ति. विञ्ञेय्योति सुपरिब्यत्तताय अक्खरतो च ब्यञ्जनतो च विञ्ञातुं सक्कुणेय्यो. तेनाह ‘‘पाकटो’’ति. विञ्ञापनियोति विजानितब्बो. ब्यञ्जनवसेनेव चेत्थ विञ्ञेय्यता वेदितब्बा घोसस्स अधिप्पेतत्ता. मधुरोति पियो पेमनीयो अपलिबुद्धो. सवनमरहति, सवनस्स सोतस्स हितोति वा सवनीयो. सम्पिण्डितोति सहितो. भगवतो हि सद्दो उप्पत्तिट्ठानकतासञ्चितत्ता सहिताकारेनेव आपाथमागच्छति, न अयोसलाकाय पहटकंसथालं विय विप्पकिण्णो. तेनाह ‘‘अविसारी’’ति. गम्भीरोति यथा गम्भीरवत्थुपरिच्छिन्दनेन ञाणस्स गम्भीरसमञ्ञा, एवं गम्भीरट्ठानसम्भवतो सद्दस्स गम्भीरसमञ्ञाति आह ‘‘गम्भीरोति गम्भीरसमुट्ठितो’’ति. निन्नादवाति सविसेसं निन्नादवा. स्वायं विसेसो गम्भीरभावसिद्धोति आह ‘‘गम्भीरत्तायेव चेस निन्नादी’’ति. एवमेत्थ चत्तारि अङ्गानि चतुरङ्गनिप्फादीनि वेदितब्बानि. अकारणा मा नस्सीति बुद्धानुभावेन विय सरस्स परिसपरियन्तता वुत्ता, धम्मतावसेनेव पन सा वेदितब्बा तस्स मूलकारणस्स तथा अवट्ठितत्ता.
पच्चोसक्कित्वाति पटिनिवत्तित्वा. समुस्सितकञ्चनपब्बतं विय उपरि इन्दनीलरतनविततसिखं विज्जुल्लताभूसितं. महापथवीआदयो सत्थुगुणपटिभागताय निदस्सनं, केवलं महन्ततामत्तं उपादाय निदस्सिता.
३९०. अप्पटिसंविदितोति अनारोचितो. आगमनवसेन चेत्थ पटिसंवेदितन्ति आह ‘‘अविञ्ञातआगमनो’’ति. उग्गतभावन्ति कुलभोगविज्जादीहि उळारभावं. अनुद्दयसम्पन्नाति कारुणिका.
३९१. सहसाव ओकासकरणेन उच्चकुलीनता दीपिता होतीति आह ‘‘वेगेन उट्ठाय द्विधा भिज्जित्वा’’तिआदि.
नारिसमाननामन्ति इत्थिअत्थजोतकनामं. तेनाह ‘‘इत्थिलिङ्ग’’न्ति. अव्हातब्बाति कथेतब्बा.
३९४. एकनीहारेनेव अट्ठ पञ्हे ब्याकरोन्तो. ‘‘पुब्बेनिवासं…पे… पवुच्चती’’ति इमिना पुब्बेनिवासस्स विदितकारणं वुत्तन्ति आह ‘‘तस्स पुब्बेनिवासो पाकटो’’ति. दिब्बचक्खुञाणं कथितं तस्स परिभण्डञाणभावतो यथाकम्मूपगञाणस्स. ‘‘जातिक्खयं पत्तो, अभिञ्ञा वोसितो’’ति च वुत्तत्ता मुनीति असेक्खमुनि इधाधिप्पेतोति आह ‘‘अरहत्तञाणमोनेय्येन समन्नागतो’’ति.
किलेसरागेहि किलेसविवण्णताहि. जातिक्खयप्पत्तत्ता ‘‘अथो जातिक्खयं पत्तो’’ति वुत्तत्ता. अभिजानित्वाति अभिविसिट्ठताय अग्गमग्गपञ्ञाय ञत्वा. इदानि पटिसम्भिदायं आगतनयेन परिञ्ञापहानभावनासच्छिकिरियासमापत्तीनं पारगमनेन पारगूति अयमेत्थ अत्थोति दस्सेतुं ‘‘पारगूति वा’’तिआदि वुत्तं. अभिञ्ञेय्यधम्मानं जाननवसेन अभिञ्ञापारगू. तादिसोति यादिसो ‘‘पारगू सब्बधम्मान’’न्ति पदद्वयेन वुत्तो, तादिसो. छहि आकारेहीति पजाननादीहि यथावुत्तेहि छहि आकारेहि.
कामञ्चेत्थ द्वे एव पुच्छागाथा द्वे च विस्सज्जनागाथा, पुच्छापटिपाटिया पन असङ्करतो च विस्सज्जनं पवत्तति, तं निद्धारेतुं किं पनातिआदि वुत्तं. वेदेहि गतत्ताति वेदेहि मग्गञाणेहि पारङ्गतत्ता. पुब्बेनिवासन्तिआदीहि विज्जानं अत्थिताय बोधितत्ता. पापधम्मानन्ति छत्तिंसपापधम्मानं सोत्थानं मग्गं पापनेन निस्सेसतो सोधितत्ता.
३९५. धम्मो नाम अरहत्तमग्गो कुसलधम्मेसु उक्कंसपारमिप्पत्तिया उक्कट्ठनिद्देसेन. तस्स अनुरूपधम्मभावतो अनुधम्मो नाम हेट्ठिममग्गफलधम्मा. यो सत्थु सन्तिके धम्मं सुत्वा यथानुसिट्ठं न पटिपज्जति, सो तथागतं धम्माधिकरणं विहेठेति नाम. यो पन पटिपज्जन्तो च दन्धाभिञ्ञताय कम्मट्ठानसोधनत्थं अन्तरन्तरा भगवन्तं उपसङ्कमित्वा अनेकवारं कथापेति, सो एत्तावता धम्माधिकरणं तथागतं विहेठेतीति न वत्तब्बो. न हि भगवतो धम्मदेसनाय परिस्समो अत्थि, अयञ्च अत्थो महासुदस्सनसुत्तादीहि (दी. नि. २.२४१ आदयो) दीपेतब्बो, तस्मा – ‘‘सच्चधम्मस्स अनुधम्म’’न्ति वत्तब्बे वुत्तमेव ब्यतिरेकमुखेन विभावेतुं ‘‘न च मं धम्माधिकरणं विहेसेसी’’ति वुत्तन्ति दट्ठब्बं. तत्थ परिनिब्बायीति परकाले चेत्थ परिनिब्बानम्पि सङ्गय्हति, तं पन इमस्मिं गहितमेव होतीति आह ‘‘देसनाय अरहत्तेनेव कूटं गहित’’न्ति.
ब्रह्मायुसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.