६. अङ्गुलिमालसुत्तवण्णना

३४७. अङ्गुलीनं मालं धारेतीति इमिना अन्वत्था तस्स समञ्ञाति दस्सेति. तत्राति तस्मिं आचरियवचनेन अङ्गुलिमालस्स धारणे. करीससहस्सखेत्ते एकसालिसीसं विय अपञ्ञायमानसककिच्चो होतीति अधिप्पायो. तक्कसीलं पेसयिंसु ‘‘तादिसस्स आचरियस्स सन्तिके सिप्पुग्गहसम्मापयोगेन दिट्ठधम्मिके सम्परायिके च अत्थे जानन्तो भारियं न करेय्या’’ति. बाहिरका अहेसुं अहिंसकस्स वत्तसम्पत्तिया आचरियस्स चित्तसभावतो निब्बत्तनतिभावेन. सिनेहेनेव वदन्तेति सिनेहेन विय वदन्ते.

गणनम्पि न उग्गण्हातीति गणनविधिम्पि न सल्लक्खेति. तत्थ कारणमाह ‘‘पकतिया’’तिआदिना. ठपितट्ठानेति रुक्खगच्छन्तरादिके ठपितट्ठाने सकुन्तसिङ्गालानं वसेन अङ्गुलियो विनस्सन्ति. भग्गवोति कोसलरञ्ञो पुरोहितं गोत्तेन वदति. चोरो अविस्सासनीयो साहसिकभावतो. पुराणसन्थता साखा अविस्सासनीया विच्छिकादीनं पवेसनयोग्यत्ता. राजा अविस्सासनीयो इस्सरियमदेन धनलोभेन च कदाचि जीविते सङ्काभावतो. इत्थी अविस्सासनीया लोलसीलचित्तभावतो. अनुद्धरणीयो भविस्सति संसारपङ्कतो.

३४८. सङ्करित्वाति ‘‘मयं एकज्झं सन्निपतित्वा चोरं मारेत्वा वा पलापेत्वा गमिस्सामा’’ति सङ्करं कत्वा. इद्धाभिसङ्खारन्ति अभिसङ्खरणं अधिट्ठानं. अभिसङ्खासीति अधिट्ठहि. संहरित्वाति संखिपित्वा. ओरभागेति चोरस्स ओरभागे.

३४९. दण्डोति पहरणहत्थच्छेदनादिको दण्डनसङ्खातो दण्डो. पवत्तयितब्बोति आनेतब्बो. अपनेत्वाति अत्तनो सन्तानतो समुच्छेदवसेन पहाय. पटिसङ्खायाति पटिसङ्खानेन. अविहिंसायाति करुणाय. सारणीयधम्मेसूति छसुपि सारणीयधम्मेसु, ठितो अट्ठितानं पापधम्मानं बोधिमूले एव समुच्छिन्नत्ता. यथा अतीते अपरिमितं कालं सन्धावितं, एवं इमाय पटिपत्तिया अनागतेपि सन्धाविस्सतीति दस्सेन्तो ‘‘इदानी’’तिआदिमाह.

इत्वेवाति इति एव, इति-सद्दो निदस्सनत्थो. तेनाह ‘‘एवं वत्वा येवा’’ति. अकिरीति आकिरि, पञ्चपि आवुधानि विकिरि. तेन वुत्तं ‘‘खिपि छड्डेसी’’ति.

३५०. एत्तोवाति अतो एव आगतमग्गेनेव सावत्थिं गता. अधिवासेस्सतीति ‘‘चोरं पटिसेधेतुं गमिस्सामी’’ति वुत्ते तुण्ही भविस्सति. दारुणकम्मेन उप्पन्ननामन्ति ‘‘अङ्गुलिमालो’’ति इमं नामं सन्धाय वदति.

३५१. हत्थी अरञ्ञहत्थी होन्ति मनुस्सानं तत्थ गन्तुं असक्कुणेय्यत्ता, एवं अस्सापि. कूटसहस्सानं भिज्जनकारणं होति थेरस्स आगमनभयेन घटे छड्डेत्वा पलायनेन. गब्भमूळ्हायाति ब्याकुलगब्भाय. पब्बज्जाबलेनाति वुत्तं, सत्थु देसनानुभावेनाति पन वत्तब्बं. सो हि तस्सापि कारणन्ति. अरिया नाम जाति पब्बज्जा अरियभावत्थाय जातीति कत्वा.

महापरित्तं नामेतन्ति महानुभावं परित्तं नामेतं. तथा हि नं थेरो सब्बभावेन अरियाय जातो सच्चाधिट्ठानेन अकासि. तेनाह ‘‘सच्चकिरियकतट्ठाने’’ति. गब्भमूळ्हन्ति मूळ्हगब्भं. गब्भो हि परिपक्को सम्पज्जमानो विजायनकाले कम्मजवातेहि सञ्चालेत्वा परिवत्तितो उद्धंपादो अधोसीसो हुत्वा योनिमुखाभिमुखो होति, एवं सो कस्सचि अलग्गो सोत्थिना बहि निक्खमति, विपज्जमानो पन विपरिवत्तनवसेन योनिमग्गं पिदहित्वा तिरियं निपज्जति, तथा यस्सा योनिमग्गो पिदहति, सा तत्थ कम्मजवातेहि अपरापरं परिवत्तमाना ब्याकुला मूळ्हगब्भाति वुच्चति, तं सन्धाय वुत्तं ‘‘गब्भमूळ्ह’’न्ति.

सच्चकिरिया नाम बुद्धासयं अत्तनो सीलं पच्चवेक्खित्वा कता, तस्मा सच्चकिरिया वेज्जकम्मं न होतीति दट्ठब्बं. थेरस्सपि चातिआदिना उपसङ्कमितब्बकारणं वदति. इमे द्वे हेतू पटिच्च भगवा थेरं सच्चकिरियं कारेसि. जातिन्ति मूलजातिं.

३५२. परियादाय आहच्च भिन्नेन सीसेन. सभागदिट्ठधम्मवेदनीयकम्मन्ति निरये निब्बत्तनसककम्मसभागभूतं दिट्ठधम्मवेदनीयकम्मं. सभागता च समानवत्थुकता समानारम्मणताएकवीथिपरियापन्नतादिवसेन सब्बथा सरिक्खता, सदिसम्पि च नाम तदेवाहरीयति यथा ‘‘तस्सेव कम्मस्स विपाको’’ति च ‘‘सा एव तित्तिरी तानेव ओसधानी’’ति च. इदानि तमेव सभागतं दस्सेतुं ‘‘कम्मं ही’’तिआदि आरद्धं. करियमानमेवाति पच्चयसमवायेन पटिपाटिया निब्बत्तियमानमेव. तयो कोट्ठासे पूरेति, दिट्ठधम्मवेदनीयअपरापरियायवेदनीयउपपज्जवेदनीयसङ्खाते तयो भागे पूरेति, तेसं तिण्णं भागानं वसेन पवत्तति.

दिट्ठधम्मो वुच्चति पच्चक्खभूतो पच्चुप्पन्नो अत्तभावो, तत्थ वेदितब्बफलं कम्मं दिट्ठधम्मवेदनीयं. पच्चुप्पन्नभवतो अनन्तरं वेदितब्बफलं कम्मं उपपज्जवेदनीयं. दिट्ठधम्मानन्तरभवतो अञ्ञस्मिं अत्तभावपरियाये अत्तभावपरिवत्ते वेदितब्बफलं कम्मं अपरापरियायवेदनीयं. पटिपक्खेहि अनभिभूतताय, पच्चयविसेसेन पटिलद्धविसेसताय च बलवभावप्पत्ता तादिसस्स पुब्बाभिसङ्खारस्स वसेन सातिसया हुत्वा पवत्ता पठमजवनचेतना तस्मिंयेव अत्तभावे फलदायिनी दिट्ठधम्मवेदनीया नाम. सा हि वुत्ताकारेन बलवति जवनसन्ताने गुणविसेसयुत्तेसु उपकारानुपकारवसप्पवत्तिया आसेवनालाभेन अप्पविपाकताय च इतरद्वयं विय पवत्तसन्तानुपरमापेक्खं ओकासलाभापेक्खञ्च कम्मं न होतीति इधेव पुप्फमत्तं विय पवत्तिविपाकमत्तं फलं देति.

तथा असक्कोन्तन्ति कम्मस्स फलदानं नाम उपधिपयोगादिपच्चयन्तरसमवायेनेव होतीति तदभावतो तस्मिंयेव अत्तभावे विपाकं दातुं असक्कोन्तं. अहोसिकम्मन्ति कम्मंयेव अहोसि, न तस्स विपाको अहोसि, अत्थि भविस्सति वाति एवं वत्तब्बं कम्मं. अत्थसाधिकाति दानादिपाणातिपातादिअत्थस्स निप्फादिका. का पन साति आह ‘‘सत्तमजवनचेतना’’ति. सा हि सन्निट्ठापकचेतना वुत्तनयेन पटिलद्धविसेसा पुरिमजवनचेतनाहि लद्धासेवना च समाना अनन्तरे अत्तभावे विपाकदायिनी उपपज्जवेदनीयकम्मं नाम. तेनाह ‘‘अनन्तरे अत्तभावे विपाकं देती’’ति. सति संसारप्पवत्तियाति इमिना असति संसारप्पवत्तिया अहोसिकम्मपक्खे तिट्ठति विपच्चनोकासस्स अभावतोति.

समुग्घाटितानि विपच्चनोकासस्स अनुप्पत्तिधम्मतापादनेन. दिट्ठधम्मवेदनीयं अत्थि विपाकारहाभावस्स अनिब्बत्तितत्ता विपच्चनोकासस्स अनुपच्छिन्नत्ता. कतूपचितञ्हि कम्मं सति विपच्चनोकासे याव न फलं देति, ताव अत्थेव नाम विपाकारहभावतो. ‘‘यस्स खो’’ति इदं अनियमाकारवचनं भगवता कम्मसरिक्खतावसेन साधारणतो वुत्तन्ति आह ‘‘यादिसस्स खो’’ति.

पमादकिलेसविमुत्तोति पमादहेतुकेहि सब्बेहि किलेसेहि विमुत्तो.

पापस्स पिधानं नाम अविपाकधम्मतापादनन्ति आह ‘‘अप्पटिसन्धिकं करीयती’’ति. बुद्धसासनेति सिक्खात्तयसङ्गहे बुद्धस्स भगवतो सासने. युत्तप्पयुत्तो विहरतीति अकत्तब्बस्स अकरणवसेन, कत्तब्बस्स च परिपूरणवसेन पवत्तति.

दिस्सन्ति कुज्झन्तीति दिसा, पटिपक्खाति आह ‘‘सपत्ता’’ति. तप्पसंसपकारन्ति मेत्तानिसंसकित्तनाकारं. कालेनाति आमेडितलोपेन निद्देसोति आह ‘‘खणे खणे’’ति. अनुकरोन्तूति येसं कल्याणमित्तानं सन्तिके सुणन्ति, यथासुतं धम्मं तेसं अनुकरोन्तु दिट्ठानुगतिकरणं आपज्जन्तु, अत्तनो वेरिपुग्गलानम्पि भगवतो सन्तिके धम्मस्सवनं सम्मापटिपत्तिञ्च पच्चासीसति.

तसन्ति गतिं पत्थयन्तीति तसा भवन्तरादीसु संसरणभावतो. तेनाह ‘‘तसा वुच्चन्ति सतण्हा’’ति.

नेतब्बट्ठानं उदकं नयन्तीति नेत्तिका. बन्धित्वाति दळ्हं बन्धित्वा. तेलकञ्जिकेनाति तेलमिस्सितेन कञ्जिकेन.

यादिसोव अनिट्ठे, तादिसोव इट्ठेति इट्ठानिट्ठे निब्बिकारेन तादी. येसं पन कामामिसादीनं वन्तत्ता रागादीनं चत्तत्ता कामोघादीनं तिण्णत्ता तादिभावो भवेय्य, तेसं भगवता सब्बसो वन्ता चत्ता तिण्णा, तस्मा भगवा वन्तावीति तादी, चत्तावीति तादी, तिण्णावीति तादी, येहि अनञ्ञसाधारणेहि सीलादिगुणेहि समन्नागतत्ता भगवा तादिभावेन उक्कंसपारमिप्पत्तो तंनिद्देसो, तेहि गुणेहि याथावतो निद्दिसितब्बतोपि तादी. यथा यन्तरज्जुया यन्तं नीयति, एवं याय तण्हाय भवो नीयति, सा ‘‘भवनेत्ति भवरज्जू’’ति वुत्ता. तेनाह ‘‘ताय ही’’तिआदि, कम्मानि कुसलादीनि विपच्चयन्ति अपच्चयन्ति एतायाति कम्मविपाको. अपच्चयभावो नाम अरियमग्गचेतनायाति आह ‘‘मग्गचेतनाया’’ति. याव न किलेसा पहीयन्ति, ताव इमे सत्ता सइणा एव असेरिविहारभावतोति आह ‘‘अणणो निक्किलेसो जातो’’ति.

थेय्यपरिभोगो (विसुद्धि. टी. १.९१) नाम सामिपरिभोगाभावतो. भगवतापि हि अत्तनो सासने सीलवतो पच्चया अनुञ्ञाता, न दुस्सीलस्स, दायकानं सीलवतोयेव परिच्चागो, न दुस्सीलस्स अत्तनो कारानं महप्फलभावस्स पच्चासीसनतो. इति सत्थारा अननुञ्ञातत्ता दायकेहि च अपरिच्चत्तत्ता ‘‘दुस्सीलस्स परिभोगो थेय्यपरिभोगो नामा’’ति वुत्तं. इणवसेन परिभोगो इणपरिभोगो. पटिग्गाहकतो दक्खिणाविसुद्धिया अभावतो इणं गहेत्वा परिभोगो वियाति अत्थो. यस्मा सेक्खा भगवतो ओरसपुत्ता, तस्मा ते पितुसन्तकानं पच्चयानं दायादा हुत्वा ते पच्चये परिभुञ्जन्तीति तेसं परिभोगो दायज्जपरिभोगो नाम. किं पन ते भगवतो पच्चये परिभुञ्जन्ति, उदाहु गिहीहि दिन्नन्ति? गिहीहि दिन्नापि ते भगवता अनुञ्ञातत्ता भगवतो सन्तका होन्ति अननुञ्ञातेसु सब्बेन सब्बं परिभोगाभावतो अनुञ्ञातेसुयेव परिभोगसम्भवतो. धम्मदायादसुत्तञ्चेत्थ (म. नि. १.२९ आदयो) साधकं.

अवीतरागानं तण्हापरवसताय पच्चयपरिभोगे सामिभावो नत्थि, तदभावेन वीतरागानं तत्थ सामिभावो यथारुचि परिभोगसम्भवतो. तथा हि ते पटिकूलम्पि अप्पटिकूलाकारेन, अप्पटिकूलम्पि पटिकूलाकारेन तदुभयं विवज्जेत्वा उपेक्खाकारेन च पच्चये परिभुञ्जन्ति, दायकानञ्च मनोरथं परिपूरेन्ति. सेसमेत्थ यं वत्तब्बं, तं विसुद्धिमग्गे, तंसंवण्णनासु च वुत्तनयेनेव वेदितब्बं. किलेसइणानं अभावं सन्धाय ‘‘अणणो’’ति वुत्तं, न पच्चवेक्खितपरिभोगमत्तं. तेनाह आयस्मा च बाकुलो – ‘‘सत्ताहमेव खो अहं, आवुसो, सरणो रट्ठपिण्डं भुञ्जि’’न्ति (म. नि. ३.२११).

वत्थुकामकिलेसकामेहि तण्हाय पवत्तिआकारं पटिच्च अत्थि रमणवोहारोति आह – ‘‘दुविधेसुपि कामेसु तण्हारतिसन्थव’’न्ति. मन्तितन्ति कथितं. उप्पन्नेहि सत्थुपटिञ्ञेहि. संविभत्ताति कुसलादिवसेन खन्धादीहि आकारेहि विभत्ता. सुन्दरं आगमनन्ति स्वागतं. ततो एव न कुच्छितं आगतं. सोळसविधकिच्चस्स परियोसितत्ता आह ‘‘तं सब्बं मया कत’’न्ति. मग्गपञ्ञायमेव ततियविज्जासमञ्ञाति आह – ‘‘तीहि विज्जाहि नवहि च लोकुत्तरधम्मेही’’ति.

अङ्गुलिमालसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.