२. रट्ठपालसुत्तवण्णना

२९३. थूलमेव थुल्लं, थुल्ला विपुला महन्ता कोट्ठा जाता इमस्साति थुल्लकोट्ठिकन्ति ओदनपूपपहूतवसेन लद्धनामो निगमो. अट्ठकथायं पन थुल्लकोट्ठन्ति अत्थो वुत्तो. तेन पाळियं इक-सद्देन पदवड्ढनं कतन्ति दस्सेति.

२९४. रट्ठपालोति इदं तस्स कुलपुत्तस्स नामं. पवेणिवसेन आगतकुलवंसानुगतन्ति समुदागमतो पट्ठाय दस्सेतुं ‘‘कस्मा रट्ठपालो’’तिआदि वुत्तं. सन्धारेतुन्ति विनासनतो पुब्बे यादिसं, तथेव सम्मदेव धारेतुं समत्थो. सद्धाति कम्मफलसद्धाय सम्पन्ना. सामणेरं दिस्वाति सिक्खाकामताय एतदग्गे ठपियमानं दिस्वा.

सह रञ्ञाति सराजिकं, रञ्ञा सद्धिं राजपरिसं. चातुवण्णन्ति ब्राह्मणादिचतुवण्णसमुदायं. पोसेतुन्ति वद्धेतुं दानादीहि सङ्गहवत्थूहि सङ्गण्हितुं. यं कुलं. पहोस्सतीति सक्खिस्सति.

तेन तेन मे उपपरिक्खतोति ‘‘कामा नामेते अनिच्चा दुक्खा विपरिणामधम्मा, अट्ठिकङ्कलूपमा’’ति (म. नि. १.२३४; पाचि. ४१७; महानि. ३, ६) च आदिना येन येन आकारेन कामेसु आदीनवं ओकारं संकिलेसं, तब्बिपरियायतो नेक्खम्मे आनिसंसं गुणं पकासेन्तं भगवता धम्मं देसितं आजानामि, तेन तेन पकारेन उपपरिक्खतो वीमंसन्तस्स मय्हं एवं होति एवं उपट्ठाति. सिक्खत्तयब्रह्मचरियन्ति अधिसीलादिसिक्खत्तयसङ्गहं सेट्ठचरियं. अखण्डादिभावापादनेन अखण्डं लक्खणवचनञ्हेतं. कञ्चिपि सिक्खेकदेसं असेसेत्वा एकन्तेनेव परिपूरेतब्बताय एकन्तपरिपुण्णं. चित्तुप्पादमत्तम्पि संकिलेसमलं अनुप्पादेत्वा अच्चन्तमेव विसुद्धं कत्वा परिहरितब्बताय एकन्तपरिसुद्धं. ततो एव सङ्खं विय लिखितन्ति सङ्खलिखितं. तेनाह ‘‘लिखितसङ्खसदिस’’न्ति. दाठिकापि मस्सुग्गहणेनेव गहेत्वा ‘‘मस्सु’’त्वेव वुत्तं, उत्तराधरमस्सुन्ति अत्थो. कसायेन रत्तानि कासायानि. अननुञ्ञातं पुत्तं न पब्बाजेति ‘‘मातापितूनं लोकियमहाजनस्स चित्तञ्ञथत्तं मा होतू’’ति. तथा हि सुद्धोदनमहाराजस्स तथा वरो दिन्नो.

२९५. पियायितब्बतो पियोति आह ‘‘पीतिजनको’’ति. मनस्स अप्पायनतो मनापोति आह ‘‘मनवड्ढनको’’ति. सुखेधितो तरुणदारककाले. ततो परञ्च सप्पिखीरादिसादुरसमनुञ्ञभोजनादिआहारसम्पत्तिया सुखपरिभतो. अथ वा दळ्हभत्तिकधातिजनादिपरिजनसम्पत्तिया चेव परिच्छदसम्पत्तिया च उळारपणीतसुखपच्चयूपहारेहि च सुखेधितो, अकिच्छेनेव दुक्खप्पच्चयविनोदनेन सुखपरिभतो. अज्झत्तिकङ्गसम्पत्तिया वा सुखेधितो, बाहिरङ्गसम्पत्तिया सुखपरिभतो. कस्सचीति उपयोगत्थे सामिवचनं, किञ्चीति वुत्तं होति, अयमेव वा पाठो. तथा हि ‘‘अप्पमत्तकम्पि कलभागं दुक्खस्स न जानासी’’ति अत्थो वुत्तो. एवं सन्तेति ननु मयं रट्ठपाल मरणादीसु केनचि उपायेन अप्पतीकारेन मरणेनपि तया अकामकापि विना भविस्साम, एवं सति. येनाति येन कारणेन. किं पनाति एत्थ किन्ति कारणत्थे पच्चत्तवचनन्ति दस्सेन्तो आह ‘‘केन पन कारणेना’’ति.

२९६. परिचारेहीति परितो तत्थ तत्थ यथासकं विसयेसु चारेहि. तेनाह ‘‘इतो चितो च उपनेही’’ति. परिचारेहीति वा सुखूपकरणेहि अत्तानं परिचारेहि, अत्तनो परिचरणं कारेहि. तथाभूतो च यस्मा लळन्तो कीळन्तो नाम होति, तस्मा ‘‘लळा’’तिआदि वुत्तं. निच्चदानं दानं नाम, उपोसथदिवसादीसु दातब्बं अतिरेकदानं पदानं नाम. पवेणीरक्खणवसेन वा दीयमानं दानं नाम, अत्तनाव पट्ठपेत्वा दीयमानं पदानं नाम. पचुरजनसाधारणं वा नातिउळारं दानं नाम, अनञ्ञसाधारणं अतिउळारं पदानं नाम. उद्दस्सेतब्बाति उद्धं दस्सेतब्बा. कुतो उद्धं ते दस्सेतब्बा? पब्बजिततो उद्धं अत्तानं मातापितरो दस्सेतब्बा, तेनाह ‘‘यथा’’तिआदि.

२९९. बलं गहेत्वाति एत्थ बलग्गहणं नाम कायबलस्स उप्पादनमेवाति आह ‘‘कायबलं जनेत्वा’’ति. एवं विहरन्तोति यथा पाळियं वुत्तं एवं एको वूपकट्ठो अप्पमत्तो विहरन्तो. तस्माति यस्मा नेय्यो, न उग्घटितञ्ञू, न च विपञ्चितञ्ञू, तस्मा. चिरेन पब्बजितो द्वादसमे वस्से अरहत्तं पापुणि. यं पन वुत्तं पाळियं ‘‘न चिरस्सेवा’’ति, तं सट्ठि वस्सानि ततो अधिकम्पि विपस्सनापरिवासं वसन्ते उपादाय वुत्तं.

सत्तद्वारकोट्ठकस्साति सत्तगब्भन्तरद्वारकोट्ठकसीसेन गब्भन्तरानि वदति. पहरापेतीति वयोवुड्ढानुरूपं कप्पापनादिना अलङ्कारापेति. अन्तोजातताय ञातिसदिसी दासी ञातिदासी. पूतिभावेनेव लक्खितब्बो दोसो वा अभिदोसो, सोव आभिदोसिको, अभिदोसं वा पच्चूसकालं गतो पत्तो अतिक्कन्तोति आभिदोसिको. तेनाह ‘‘एकरत्तातिक्कन्तस्सा’’तिआदि. अपरिभोगारहो पूतिभूतभावेन. अरियवोहारेनाति अरियसमुदाचारेन. अरिया हि मातुगामं भगिनिवादेन समुदाचरन्ति. निस्सट्ठपरिग्गहन्ति परिच्चत्तालयं. वत्तुं वट्टतीति निरपेक्खभावतो वुत्तं, इध पन विसेसतो अपरिभोगारहत्ताव वत्थुनो. निमीयति सञ्ञायतीति निमित्तं, तथासल्लक्खितो आकारोति आह ‘‘आकारं अग्गहेसी’’ति.

३००. घरं पविसित्वाति गेहसामिनिया निसीदितब्बट्ठानभूतं अन्तोगेहं पविसित्वा. आलपनेति दासिजनस्स आलपने. बहि निक्खमन्ताति यथावुत्तअन्तोगेहतो बहि निक्खमन्तियो. घरेसु साला होन्तीति घरेसु एकमन्ते भोजनसाला होन्ति पाकारपरिक्खित्ता सुसंविहितद्वारबन्धा सुसम्मट्ठवालिकङ्गणा.

अनोकप्पनं असद्दहनं. अमरिसनं असहनं. अनागतवचनं अनागतसद्दप्पयोगो, अत्थो पन वत्तमानकालिकोव. तेनाह ‘‘पच्चक्खम्पी’’ति. अरियिद्धियन्ति ‘‘पटिकूले अपटिकूलसञ्ञी विहरती’’ति (अ. नि. ५.१४४) एवं वुत्तअरियिद्धियं.

पूतिकुम्मासो छड्डनीयधम्मो तस्स गेहतो लद्धोपि न दातब्बयुत्तको दासिजनेन दिन्नोति आह ‘‘देय्यधम्मवसेन नेव दानं अलत्थम्हा’’ति. ‘‘इमेहि मुण्डकेही’’तिआदिना नित्थुननवचनेन पच्चक्खानं अत्थतो लद्धमेव, तस्स पन उजुकफासुसमाचारवसेन अलद्धत्ता वुत्तं ‘‘न पच्चक्खान’’न्ति. तेनाह – ‘‘पटिसन्थारवसेन पच्चक्खानम्पि न अलत्थम्हा’’ति. ‘‘नेव दान’’न्तिआदि पच्चासीसाय अक्खन्तिया च वुत्तं विय पचुरजनो मञ्ञेय्याति तन्निवत्तनत्थं अधिप्पायमस्स विवरितुं ‘‘कस्मा पना’’तिआदि वुत्तं. सुत्तिकापटिच्छन्नन्ति सिप्पिकाछदाहि छन्नं.

उक्कट्ठएकासनिकतायाति इदं भूतकथनमत्तं थेरस्स तथाभावदीपनतो. मुदुकस्सपि हि एकासनिकस्स याय निसज्जाय किञ्चिमत्तं भोजनं भुत्तं, वत्तसीसेनपि ततो वुट्ठितस्स पुन भुञ्जितुं न वट्टति. तेनाह तिपिटकचूळाभयत्थेरो ‘‘आसनं वा रक्खेय्य भोजनं वा’’ति. उक्कट्ठसपदानचारिकोति पुरतो पच्छतो च आहटभिक्खम्पि अग्गहेत्वा बहिद्वारे ठत्वा पत्तविस्सज्जनमेव करोति. एतेनेव थेरस्स उक्कट्ठपिण्डपातिकभावो दीपितो. तेनाह – ‘‘स्वातनाय भिक्खं नाम नाधिवासेती’’ति. अथ कस्मा अधिवासेसीति आह ‘‘मातु अनुग्गहेना’’तिआदि. पण्डिता हि मातापितूनं आचरियुपज्झायानं वा कातब्बं अनुग्गहं अज्झुपेक्खित्वा धुतङ्गसुद्धिका न भवन्ति.

३०१. पयुत्तन्ति वद्धिवसेन पयोजितं, तद्धितलोपं कत्वा वुत्तन्ति वेदितब्बं यथा अञ्ञत्थापि ‘‘पितामहं धनं लद्धा, सुखं जीवति सञ्चयो’’ति. जेट्ठकित्थियोति पधानित्थियो. इतोति इमस्मिं कुले अनुभवितब्बविभवसम्पत्तितो. अञ्ञतोति इमस्स दिन्नत्ता अञ्ञस्मिं कुले अनुभवितब्बसम्पत्तितो.

३०२. चित्तविचित्तन्ति कप्पनाय चेव अरहरूपेन अलङ्कारादिना च चित्तितञ्चेव विचित्तितञ्च. वणकायन्ति वणभूतं कायं. समन्ततो उस्सितन्ति हेट्ठिमकायवसेन हेट्ठा उपरि च सन्निस्सितं. निच्चातुरन्ति अभिण्हप्पटिपीळितं, सदा दुक्खितं वा. बहुसङ्कप्पन्ति रागवत्थुभावेन अभिजनेहि हावभावविलासवसेन, आमिसवसेन च सोणसिङ्गालादीहि बहूहि सङ्कप्पेतब्बं. ठितीति अवट्ठानं अविपरिणामो नत्थि. तेनाह – ‘‘भिज्जनधम्मताव नियता’’ति, परिस्सवभावापत्ति चेव विनासपत्ति च एकन्तिकाति अत्थो.

चित्तकतम्पीति गन्धादीहि चित्तकतम्पि. रूपन्ति सरीरं.

अलत्तककताति पिण्डिअलत्तकेन सुवण्णकता. तेनाह ‘‘अलत्तकेन रञ्जिता’’ति. चुण्णकमक्खितन्ति दोसनीहरणेहि तापदहनादीहि कताभिसङ्खारमुखं गोरोचनादीहि ओभासनकचुण्णेहि मक्खितं, तेनाह ‘‘सासपकक्केना’’तिआदि.

रसोदकेनाति सरलनिय्यासरसमिस्सेन उदकेन. आवत्तनपरिवत्ते कत्वाति आवत्तनपरिवत्तनवसेन नते कत्वा. अट्ठपदकरचनायाति भित्तिकूटद्धचन्दादिविभागाय अट्ठपदकरचनाय.

विरवमानेति ‘‘अयं पलायति, गण्ह गण्हा’’ति विरवमाने. हिरञ्ञसुवण्णओरोधेति वत्तब्बं.

३०३. उस्सिताय उस्सितायाति कुलविभवबाहुसच्चपञ्ञासम्पत्तिया उग्गताय उग्गताय. अभिलक्खितो उळारभावेन.

३०४. परिजुञ्ञानीति परिहानानि. ये ब्याधिना अभिभूता सत्ता जिण्णकप्पा वयोहानिसत्ता विय होन्ति, ततो निवत्तेन्तो ‘‘जराजिण्णो’’ति आह. वयोवुड्ढो, न सीलादिवुड्ढो. महत्तं लाति गण्हातीति महल्लको, जातिया महल्लको, न विभवादिनाति जातिमहल्लको. द्वत्तिराजपरिवत्तसङ्खातं अद्धानं कालं गतो वीतिवत्तोति अद्धगतो. तथा च पठमवयं मज्झिमवयञ्च अतीतो होतीति आह ‘‘अद्धानं अतिक्कन्तो’’ति. जिण्णादिपदेहि पठमवयमज्झिमवयस्स बोधितत्ता अनुप्पत्तताविसिट्ठो वय-सद्दो ओसानवयविसयोति आह ‘‘पच्छिमवयं अनुप्पत्तो’’ति.

‘‘अप्पिच्छो, अप्पडंसमकसवातातपसरीसपसम्फस्सो’’ति (अ. नि. १०.११) एवमादीसु विय अप्प-सद्दो अभावत्थोति अधिप्पायेनाह ‘‘अप्पाबाधोति अरोगो, अप्पातङ्कोति निद्दुक्खो’’ति. अप्पत्थो वा इध, तत्थापि अप्प-सद्दो दट्ठब्बो. एवञ्हि ‘‘यो हि, गहपति, इमं पूतिकायं परिहरन्तो मुहुत्तम्पि आरोग्यं पटिजानेय्य किमञ्ञत्र बाल्या’’ति (सं. नि. ३.१) सुत्तपदं समत्थितं होति. विपच्चनं विपाको, सो एव वेपाको. समो वेपाको एतिस्सा अत्थीति समवेपाकिनी, ताय. तेनेव समवेपाकिनिभावेन सब्बम्पि सम्मदेव गण्हाति धारेतीति गहणी. गहणिसम्पत्तिया हि यथाभुत्तआहारो सम्मदेव जीरन्तो सरीरे तिट्ठति, नो अञ्ञथा भुत्तभुत्तो आहारो जीरति गहणिया तिक्खभावेन. तथेव तिट्ठतीति भुत्ताकारेनेव तिट्ठति गहणिया मन्दभावतो. भत्तच्छन्दो उप्पज्जतेव भुत्तआहारस्स सम्मा परिणामं गतत्ता. तेनेवाति समवेपाकिनिभावेनेव. पत्तानं भोगानं परिक्खियमानं न सहसा एकज्झंयेव परिक्खयं गच्छन्ति, अथ खो अनुक्कमेन, तथा ञातयोपीति आह ‘‘अनुपुब्बेना’’ति. छातकभयादिनाति आदि-सद्देन ब्याधिभयादिं सङ्गण्हाति.

३०५. उद्देससीसेन निद्देसो गहितोति आह ‘‘धम्मनिद्देसा उद्दिट्ठा’’ति. यस्मा वा ये धम्मा उद्दिसितब्बट्ठेन ‘‘उद्देसा’’ति वुच्चन्ति. तेव धम्मा निद्दिसितब्बट्ठेन निद्देसाति ‘‘धम्मनिद्देसा उद्दिट्ठा’’ति अत्थो वुत्तो. अथ वा ये धम्मा अनिच्चतादिविभावनवसेन उद्धं उद्धं देसेस्सन्ति, ते धम्मा तथेव निस्सेसतो देसेस्सन्तीति एवं उद्देसनिद्देसपदानं अनत्थन्तरता वेदितब्बा. तत्थाति जरामरणसन्तिके. अद्धुवोति निद्धुवो न थिरो, अनिच्चोति अत्थो. तेनाह ‘‘धुवट्ठानविरहितो’’ति, अजाताभूतासङ्खतधुवभावकारणविवित्तोति अत्थो. उपनीय्यतीति वा जरामरणेन लोको सम्मा नीयति, तस्मा अद्धुवोति एवमेत्थ अत्थो दट्ठब्बो. तायितुन्ति जातिआदिब्यसनतो रक्खितुं समत्थेन इस्सरेन अत्तना विरहितोति. ‘‘इमं लोकं इतो वट्टदुक्खतो मोचेस्सामि, जराब्याधिमरणानं तं अधिभवितुं न दस्सामी’’ति एवं अभिसरतीति अभिस्सरणं, लोकस्स सुखस्स दाता हितस्स विधाता कोचि इस्सरो, तदभावतो आह ‘‘अनभिस्सरोति असरणो’’ति. निस्सको ममायितब्बवत्थुअभावतो, तेनाह ‘‘सकभण्डविरहितो’’तिआदि. तण्हाय वसे जातो तण्हाय विजितोति कत्वा ‘‘तण्हाय दासो’’ति वुत्तं.

३०६. हत्थिविसयत्ता हत्थिसन्निस्सितत्ता वा हत्थिसिप्पं ‘‘हत्थी’’ति गहितन्ति आह – ‘‘हत्थिस्मिन्ति हत्थिसिप्पे’’ति, सेसपदेसुपि एसेव नयो. सातिसयं ऊरुबलं एतस्स अत्थीति ऊरुबलीति आह – ‘‘ऊरुबलसम्पन्नो’’ति, तमेवत्थं पाकटं कत्वा दस्सेतुं ‘‘यस्स ही’’तिआदि वुत्तं. अभिन्नं परसेनं भिन्दतो भिन्नं सकसेनं सन्धारयतो उपत्थम्भयतो. बाहुबलीति एत्थापि ‘‘यस्स हि फलकञ्च आवुधञ्च गहेत्वा’’तिआदिना अत्थो वत्तब्बो, इध पन परहत्थगतं रज्जं आहरितुं बाहुबलन्ति योजना. यथा हि ‘‘ऊरुबली’’ति एत्थापि बाहुबलं अनामसित्वा अत्थो, एवं ‘‘बाहुबली’’ति एत्थ ऊरुबलं अनामसित्वा अत्थो वेदितब्बो, आहितो अहंमानो एत्थाति अत्ता, अत्तभावो. अलं समत्थो अत्ता एतस्साति अलमत्थोति आह ‘‘समत्थअत्तभावो’’ति.

परियोधायाति वा परितो आरक्खं ओदहित्वा. ‘‘संविज्जन्ते खो, भो रट्ठपाल, इमस्मिं राजकुले हत्थिकायापि…पे… वत्तिस्सन्ती’’ति इदम्पि सो राजा उपरि धम्मुद्देसस्स कारणं आहरन्तो आह.

वुत्तस्सेव अनु पच्छा गायनवसेन कथनं अनुगीति. ता पन गाथा धम्मुद्देसानं देसनानुपुब्बिं अनादियित्वापि यथारहं सङ्गण्हनवसेन अनुगीताति आह ‘‘चतुन्नं धम्मुद्देसानं अनुगीति’’न्ति.

३०७. एकन्ति एकजातियं. वत्थुकामकिलेसकामा विसयभेदेन भिन्दित्वा तथा वुत्ताति दट्ठब्बो.

सागरन्तेनाति सागरपरियन्तेन.

अहो वताति सोचने निपातो, ‘‘अहो वत पापं कतं मया’’तिआदीसु विय. अमरातिआदीसु आहूति कथेन्ति. मतं उद्दिस्स ‘‘अम्ह’’न्ति वत्तब्बे सोकवसेन ‘‘अमर’’न्ति वुच्चति.

वोसानन्ति निट्ठं, परियोसानन्ति अत्थो. सावाति पञ्ञा एव. धनतोति सब्बधनतो. उत्तमतरा सेट्ठा, तेनेवाह ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं. नि. १.२४६; सु. नि. १८४).

तेसु पापं करोन्तेसु सत्तेसु, निद्धारणे चेतं भुम्मवचनं. परम्परायाति अत्तभावपरम्पराय. संसारं आपज्जित्वाति भवादीसु संसारस्स आपज्जनहेतुं आपज्जन्तो परलोकं उपेति, परलोकं उपेन्तोव बहुविधदुक्खसङ्खातं गब्भञ्च उपेति. तादिसस्साति तथारूपस्स गब्भवासदुक्खादीनं अधिट्ठानभूतस्स अप्पपञ्ञस्स अञ्ञो अप्पपञ्ञो च अभिसद्दहन्तो हितसुखावहन्ति पत्तियायन्तो.

‘‘पापधम्मो’’ति वुत्तत्ता तादिसस्स परलोको नाम दुग्गति एवाति आह ‘‘परम्हि अपायलोके’’ति.

विविधरूपेनाति रूपसद्दादिवसेन तत्थपि पणीततरादिवसेन बहुविधरूपेन.

सामञ्ञमेवाति समणभावो एव सेय्यो. एत्थ च आदितो द्वीहि गाथाहि चतुत्थो धम्मुद्देसो अनुगीतो. चतुत्थगाथाय ततियो. पञ्चमगाथाय दुतियो. छट्ठगाथाय दुतियततिया. सत्तमगाथाय पठमो धम्मुद्देसो अनुगीतो, अट्ठमादीहि पवत्तिनिवत्तीसु कामेसु नेक्खम्मे च यथारहं आदीनवानिसंसं विभावेत्वा अत्तनो पब्बज्जकारणं परमतो दस्सेन्तो यथावुत्तधम्मुद्देसं निगमेति, तेन वुत्तं ‘‘ता पन गाथा धम्मुद्देसानं देसनानुपुब्बिं अनादियित्वापि यथारहं सङ्गण्हनवसेन अनुगीता’’ति. सेसं सुविञ्ञेय्यमेव.

रट्ठपालसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.