१०. कण्णकत्थलसुत्तवण्णना

३७५. अनन्तरसुत्ते वुत्तकरणीयेनेवाति ‘‘पासादे वा नाटकेसु वा चित्तस्सादं अलभमानो तत्थ तत्थ विचरितुं आरद्धो’’ति वुत्तकरणीयेन. अप्पदुट्ठपदोसीनञ्हि एवं होतीति.

३७६. पुच्छितोति ‘‘अञ्ञं दूतं नालत्थु’’न्ति पुच्छितो. सोति राजा. तासं वन्दना सचे उत्तरकालं, अत्तनो आगमनकारणं कथेस्सति.

३७८. एकावज्जनेनाति एकवीथिजवनेन. तेन एकचित्तं ताव तिट्ठतु, एकचित्तवीथियापि सब्बं जानितुं न सक्काति दस्सेति. ‘‘इदं नाम अतीतं जानिस्सामी’’ति अनियमेत्वा आवज्जतो यं किञ्चि अतीतं जानाति, नियमिते पन नियमितमेवाति आह – ‘‘एकेन हि…पे… एकदेसमेव जानाती’’ति. तेन चित्तेनाति ‘‘अतीतं सब्बं जानिस्सामी’’ति एवं पवत्तचित्तेन. इतरेसूति अनागतपच्चुप्पन्नेसु. कारणजातिकन्ति युत्तिसभावं, युत्तिया युत्तन्ति अत्थो. सम्परायगुणन्ति सम्पराये कतकम्मस्स विसेसं.

३७९. लोकुत्तरमिस्सकानि कथितानि बोधिराजकुमारसुत्ते विय लोकिया चेव लोकुत्तरा च. यथालाभवसेन चेत्थ पधानियङ्गानं लोकुत्तरग्गहणं वेदितब्बं. पच्चेकं एव नेसञ्च पधानियङ्गता दट्ठब्बा यथा ‘‘अट्ठविमोक्खा सन्दिस्सन्ति लोकुत्तरमिस्सका’’ति. लोकुत्तरानेवाति चेत्थ यं वत्तब्बं, तं परतो आवि भविस्सति. पधाननानत्तन्ति पदहननानत्तं, भावनानुयोगविसेसन्ति अत्थो. सङ्खारे परिमद्दित्वा पटिपक्खधम्मे एकदेसतो पजहित्वा ठितस्स भावनानुयोगो सब्बेन सब्बं अपरिमद्दितसङ्खारस्स अप्पहीनपटिपक्खस्स भावनानुयोगतो सुखुमो विसदोव होति, सच्चाभिसमयेन सन्तानस्स आहितविसेसत्ताति आह – ‘‘अञ्ञादिसमेव हि पुथुज्जनस्स पधानं, अञ्ञादिसं सोतापन्नस्सा’’तिआदि. अयञ्च विसेसो न केवलं अनरियअरियपुग्गलतो एव, अथ खो अरियेसुपि सेक्खादिविसेसतोपि लब्भति अभिसङ्खारविसेसतो अभिनीहारतो च इज्झनतोति दस्सेन्तो ‘‘अञ्ञादिसं सकदागामिनो’’तिआदिमाह. न पापुणातीति यस्मा पुथुज्जनो सब्बथाव पधानं पदहन्तो सोतापत्तिमग्गं अधिगच्छति, सोतापन्नो च सकदागामिमग्गन्ति हेट्ठिमं उपरिमतो ओळारिकं, उपरिमञ्च इतरतो सुखुमं तेन पहातुं असक्कुणेय्यस्स पजहनतो, इति अधिगन्तब्बविसेसेन च अधिगमपटिपदाय सण्हसुखुमता तिक्खविसदता च विञ्ञायतीति आह – ‘‘पुथुज्जनस्स पधानं सोतापन्नस्स पधानं न पापुणाती’’तिआदि.

अकूटकरणन्ति अवञ्चनकिरियं. अनवच्छिन्दनन्ति अतियानं. अविञ्छनं न आकड्ढनं, नियुत्ततं विनिवेठेत्वा समन्ता विपरिवत्तित्वा समधाराय छड्डनं वा. तस्स कारणं तंकारणं, तं कारणन्ति वा तं किरियं तं अधिकारं. दन्तेहि गन्तब्बभूमिन्ति दन्तेहि पत्तब्बट्ठानं, पत्तब्बवत्थुं वा. चत्तारोपि अस्सद्धा नाम उपरिमउपरिमसद्धाय अभावतो. येन हि यं अप्पत्तं, तस्स तं नत्थि. अरियसावकस्स…पे… नत्थि पठममग्गेनेव मायासाठेय्यानं पहातब्बत्ता. तेनेवाति सम्मदेव विरुद्धपक्खानं सद्धादीनं इधाधिप्पेतत्ता. यदि एवं कथं मिस्सककथाति आह ‘‘अस्सखळुङ्कसुत्तन्ते पना’’तिआदि. चत्तारोव होन्ति पुथुज्जनादिवसेन.

ओपम्मसंसन्दने अदन्तहत्थिआदयो वियातिआदिना कण्हपक्खे, यथा पन दन्तहत्थिआदयोतिआदिना सुक्कपक्खे च साधारणतो एकज्झं कत्वा वुत्तं, असाधारणतो भिन्दित्वा दस्सेतुं ‘‘इदं वुत्तं होती’’तिआदि वुत्तं.

३८०. सम्मप्पधाना निब्बिसिट्ठवीरिया. तेनाह – ‘‘न किञ्चि नानाकरणं वदामि, यदिदं विमुत्तिया विमुत्ति’’न्ति. न हि सुक्खविपस्सकतेविज्जछळभिञ्ञानं विमुत्तिया नानाकरणं अत्थि. तेन वुत्तं ‘‘यं एकस्सा’’तिआदि. किं त्वं न जानासीति सम्बन्धो. आगच्छन्तीति उप्पज्जनवसेन आगच्छन्ति. नागच्छन्तीति एत्थापि एसेव नयो. इदं पुच्छन्तोति इदं पुच्छामीति दस्सेन्तो. अप्पहीनचेतसिकदुक्खा अनधिगतअनागामिता. तेनाह ‘‘उपपत्तिवसेन आगन्तारो’’ति. समुच्छिन्नदुक्खाति समुग्घाटितचेतसिकदुक्खा.

३८१. तम्हा ठानाति ततो यथाधिगतइस्सरियट्ठानतो. पुन तम्हा ठानाति ततो दुग्गता. सम्पन्नकामगुणन्ति उळारकामगुणसमन्नागतं.

तत्थाति कामदेवलोके. ठानभावतोति अरहत्तञ्चे अधिगतं, तावदेव परिनिब्बानतो. उपरिदेवे चाति उपरूपरि भूमिवासे देवे च, चक्खुविञ्ञाणदस्सनेनपि दस्सनाय नप्पहोन्तीति योजना.

३८२. वुत्तनयेनेवाति देवपुच्छाय वुत्तेनेव नयेन. सा किर कथाति ‘‘नत्थि सो समणो वा ब्राह्मणो वा, यो सकिदेव सब्बं नेय्य’’न्ति कथा. तेति विटटूभसञ्जया. इमस्मिंयेव ठानेति इमस्मिं मिगदायेयेव. सेसं सुविञ्ञेय्यमेव.

कण्णकत्थलसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च राजवग्गवण्णना.