५. मागण्डियसुत्तवण्णना
२०७. द्वे मागण्डियाति द्वे मागण्डियनामका. देवगब्भसदिसन्ति देवानं वसनओवरकसदिसं. एतं वुत्तन्ति ‘‘भारद्वाजगोत्तस्स ब्राह्मणस्स अग्यागारे तिणसन्थारके’’ति एतं वुत्तं. न केवलं तं दिवसमेवाति यं दिवसं मागण्डियो परिब्बाजको तिणसन्थारकं पञ्ञत्तं, न केवलं तं दिवसमेव भगवा येनञ्ञतरो वनसण्डो, तेनुपसङ्कमीति योजना. गामूपचारेति गामसमीपे. सञ्ञाणं कत्वाति सञ्ञाणं कत्वा विय. न हि भगवतो तस्स सञ्ञाणकरणे पयोजनं अत्थि.
समणसेय्यानुरूपन्ति समणस्स अनुच्छविका सेय्या. पासंसत्थो हि अयं रूप-सद्दो. तेनाह ‘‘इमं तिणसन्थारक’’न्तिआदि. अनाकिण्णोति विलुळितो अघट्टितो. हत्थपादसीसेहि तत्थ तत्थ पहटेन न चलितो अभिन्नो, अचलितत्ता एव अभिन्नं अत्थरणं. परिच्छिन्दित्वा पञ्ञत्तो वियाति अयं छेकेन चित्तकारेन चिन्तेत्वा तुलिकाय परिच्छिन्नलेखाय परिच्छिन्दित्वा लिखिता चित्तकतसेय्या विय. भूनं वुच्चति वड्ढितं, तं हन्तीति भूनहुनो. तेनाह ‘‘हतवड्ढिनो’’ति. तं पनायं चक्खादीसु संवरविधानं वड्ढिहननं मञ्ञति. तेनाह ‘‘मरियादकारकस्सा’’ति. ब्रूहेतब्बन्ति उळारविसयूपहारेन वड्ढेतब्बं पीणेतब्बं. तं पन अननुभूतानुभवनेन होतीति आह ‘‘अदिट्ठं दक्खितब्ब’’न्ति. अनुभूतं पन अपणीतं होतीति वुत्तं ‘‘दिट्ठं समतिक्कमितब्ब’’न्ति. सेसवारेसुपि एसेव नयो. परमदिट्ठधम्मनिब्बानवादी किरेस परिब्बाजको, तस्मा एवं छसु द्वारेसु वड्ढिं पञ्ञपेति. यस्मा यं छन्नम्पि चक्खादीनं यथासकं विसयग्गहणं पटिक्खिपन्तो लोकस्स अवड्ढितं विनासमेव पञ्ञपेति, तस्मा सो सयम्पि वड्ढिहतो हतवड्ढितो.
संकिलेसतो आरकत्ता अरियो निय्यानिकधम्मभावतो ञायो धम्मो. वज्जलेसस्सपि अभावतो कुसलो. तेनाह ‘‘परिसुद्धे कारणधम्मे अनवज्जे’’ति. उग्गतस्साति उच्चकुलीनतादिना उळारस्स. मुखे आरक्खं ठपेत्वाति मुखेन संयतो हुत्वा. अम्बजम्बूआदीनि गहेत्वा विय अपूरयमानोति अम्बजम्बूआदीनि अञ्ञमञ्ञविसदिसानि विय पूरणकथानयेन यं किञ्चि अकथेत्वा. तेनाह ‘‘मया कथितनियामेना’’ति.
२०८. फलसमापत्तिया वुट्ठितोति दिवाविहारतो वुट्ठितोति अत्थो. दिवाविहारोपि हि ‘‘पटिसल्लान’’न्ति वुच्चति ‘‘रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादी’’तिआदीसु (पारा. १८). भगवा हि फलसमापत्तितो वुट्ठानुत्तरकालं तेसं कथासल्लापं सुत्वा दिवाविहारतो वुट्ठाय तत्थ गतो. संवेगो नाम सहोत्तप्पञाणं, तं निब्बिन्दनवसेनपि होति, संवेगनिस्सितं सन्धायाह ‘‘पीतिसंवेगेन संविग्गो’’ति. सो पन यस्मा पुरिमावत्थाय चलनं होति चित्तस्स, तस्मा आह ‘‘चलितो कम्पितो’’ति. तिखिणसोतेन पुरिसेनाति भगवन्तं सन्धायाह.
२०९. धम्मदेसनं आरभि यथा विनेय्यदमनकुसलो वसनट्ठानट्ठेनाति इदं आरमितब्बभावस्स भावलक्खणवचनं. आरमति एत्थाति आरामो, रूपं आरामो एतस्साति रूपारामं, ततो एव तन्निन्नभावेन रूपे रतन्ति रूपरतं, तेन सम्मो दुप्पत्तिया रूपेन सम्मुदितन्ति रूपसम्मुदितं, तदेतं तदभिहतजवनकिच्चं तत्थ आरोपेत्वा वुत्तं. दन्तन्तिआदीसुपि एसेव नयो. दन्तं दमितं. निब्बिसेवनन्ति विगतविसुकायिकं. गुत्तन्ति सतिया गुत्तं. रक्खितन्ति तस्सेव वेवचनं. संवुतन्ति अपनीतं पवेसनिवारणेन. तेनाह ‘‘पिहित’’न्ति.
२१०. उप्पज्जनपरिळाहन्ति उप्पज्जनकिलेसपरिळाहं. किं वचनं वत्तब्बं अस्साति रूपारम्मणं अनुभवित्वा समुदयादिपहानं परिग्गण्हित्वा परिनिब्बिन्दित्वा विरज्जित्वा यो विमुत्तो, तत्थ किं वुद्धिहतपरियायो अवस्सं लभति न लभतीति पुच्छति. परिब्बाजको तादिसे सारबद्धविमुत्तिके वुद्धिहतोति न वदेय्याति आह ‘‘न किञ्चि, भो, गोतमा’’ति.
२११. तेति तया, अयमेव वा पाठो. वस्सं वासो वस्सं उत्तरपदलोपेन, वस्सितुं अरहतीति वस्सिको, वस्सकाले निवासानुच्छविकोति अत्थो.
नातिउच्चो होति नातिनीचोति गिम्हिको विय उच्चो, हेमन्तिको विय नीचो न होति, अथ खो तदुभयवेमज्झलक्खणताय नातिउच्चो होति नातिनीचो. नातितनूनीति हेमन्तिकस्स विय न खुद्दकानि. नातिबहूनीति गिम्हिकस्स विय न अतिबहूनि. मिस्सकानेवाति हेमन्तिकगिम्हिकेसु वुत्तलक्खणवोमिस्सकानि. उण्हपवेसनत्थायाति नियूहेसु पुरेभत्तं पच्छाभत्तञ्च पतितसूरियोभासवसेन उण्हस्स अब्भन्तरपवेसनत्थाय. भित्तिनियूहानि नीहरीयन्तीति दक्खिणपस्से भित्तीसु नियूहानि नीहरित्वा करीयन्ति. विपुलजालानीति पुथुलछिद्दानि. उदकयन्तानीति उदकवाहकयन्तानि.
नीलुप्पलगच्छके कत्वाति विकसितेहि नीलुप्पलेहि गच्छके नळिनिके कत्वा. गन्धकललन्ति गन्धमिस्सककद्दमं. यमकभित्तीति युगळभित्ति, तस्सा अन्तरे नाळि, यतो उदकं अभिरुहति. लोहनाळिन्ति लोहमययन्तनाळिं. जालन्ति तम्बलोहमयं जालं. हेट्ठा यन्तं परिवत्तेन्तीति हेट्ठाभागे उदकयन्तं गमेन्ति. उदकफुसिते तेमेन्ते विवण्णता माहोसीति नीलपटं निवासेति. दिवाकालेति दिवसवेलाय. अज्झत्तं वूपसन्तचित्तो विहरामीति एतेन अत्तनो फलसमापत्तिविहारो भगवता दस्सितोति आह – ‘‘ताय रतिया रममानोति इदं चतुत्थज्झानिकफलसमापत्तिरतिं सन्धाय वुत्त’’न्ति.
२१२. महाच नेसं पपञ्चोति नेसं राजूनं महापपञ्चो राजिद्धिवसेन सब्बदा सम्पत्तिविसयो च, अनुभवितुं न लभन्तीति अधिप्पायो. मन्ते गवेसन्ता विचरन्ति, न भोगसुखं. गणना नाम अच्छिन्नगणना, न विगणगणना न पणगणना. आवट्टोति यथाधिगते दिब्बे कामे पहाय कामहेतु आवट्टो निवत्तो परिवत्तितो भवेय्य. एवं मानुसका कामाति यथा कोचि कुसग्गेन उदकं गहेत्वा महासमुद्दे उदकं मिनेय्य. तत्थ महासमुद्दे उदकमेव महन्तं विपुलं पणीतञ्च, एवं दिब्बानं कामानं समीपे उपनिधाय मानुसका कामा अप्पमत्तका ओरमत्तका निहीना, दिब्बाव कामा महन्ता विपुला उळारा पणीता. समधिगय्हाति सम्मा अधिगमनवसेन निग्गय्ह दिब्बम्पि सुखं हीनं कत्वा तिट्ठति.
२१३. आरोग्यहेतुकं सुखं अस्स अत्थीति सुखी, तं पनस्स रोगविगमतोवाति आह ‘‘पठमं दुक्खितो पच्छा सुखितो’’ति. सेरी नाम अत्ताधीनवुत्तीति आह ‘‘सेरी एकको भवेय्या’’ति. अत्तनो वसो सयंवसो, सो एतस्स अत्थीति सयंवसी. अङ्गारकपल्लं विय कामवत्थुपरिळाहहेतुतो. तच्छेत्वाति घट्टेत्वा, कण्डूयित्वाति अत्थो.
२१४. येन कायो मधुरकजातो होति, तं किर कुट्ठं छविं विनासेति, चम्मं छिद्दजातं विय होति. तेनेवाह ‘‘उपहतकायप्पसादो’’ति. पच्चलत्थाति पटिलभि. अविज्जाभिभूतताय विरोधिपच्चयसमायोगेन पञ्ञिन्द्रियस्स उपहतत्ता. आयतिं दुक्खफलताय एतरहि च किलेसदुक्खबहुलताय कामानं दुक्खसम्फस्सता, तदुभयसंयुत्तेसु तेसु च तं असल्लक्खित्वा एकन्तसुखाभिनिवेसो विपरीतसञ्ञाय, न केवलाय सुखवेदनाय सुखाति पवत्तसञ्ञी.
२१५. तानीति कुट्ठसरीरे वणमुखानि. असुचीनीति असुभानि. दुग्गन्धानीति विस्सगन्धानि. पूतीनीति कुणपभूतानि. इदानीति एतरहि. नखेहि विप्पतच्छनअग्गिपरितापनेहि अतिनिप्पीळनकाले पाणका…पे… पग्घरन्ति, तेन वेदना तनुका होति. एवन्ति वुत्तनयेन वेदनाय तनुकभावतो.
आरोग्यभावे धनलाभादिलाभुप्पत्तितो, असति च आरोग्ये लाभस्स निरत्थकभावतो, दिट्ठधम्मिकादिसब्बसम्पत्तीनं लाभस्स निमित्तभावतो च आरोग्यपरमा लाभा. निब्बाने सुखुप्पत्तितो, असति च निब्बानाधिगमे तादिसस्स सुखस्स अनुपलब्भनतो, सब्बसङ्खतविवित्तत्ता च सब्बसो च संसारदुक्खाभावतो, अधिगते च तस्मिं सकलवट्टदुक्खाभावतो च निब्बानं परमं सुखं. पुब्बभागमग्गानन्ति कायानुपस्सनादिभेदभिन्नानं अरियमग्गस्स पुब्बभागियानं मग्गानं. तेसञ्च अमतगामिता नाम तन्निन्नतावसेनेव सच्छिकिरियावसेनाति आह ‘‘पुब्बभागगमनेनेव अमतगामिन’’न्ति. अट्ठङ्गिको अरियमग्गो खेमो सब्बपरिस्सयसमुग्घातनेन अनुपद्दुतत्ता, तंसमङ्गीनं सब्बसो अनुपद्दुतत्ता तंसमङ्गीनं सब्बसो अनुपद्दवहेतुतो च. लद्धिवसेन गहिताति सस्सतवादादीहि केवलं तेसं लद्धिवसेन तथा गहिता. खेमअमतगामिनन्ति इमिना हि ‘‘खेमंअमतगामिन’’न्ति विभत्तिअलोपेन निद्देसो, अत्थो पन विभत्तिलोपेन दट्ठब्बोति दस्सेति.
२१६. अनोमज्जतीति अनु अनु ओमज्जति. अपरापरं हत्थं हेट्ठा ओतारेन्तो मज्जति.
२१७. छेकन्ति घनभावेन वीतं. घनमट्ठभावेन सुन्दरं होतीति आह ‘‘सम्पन्न’’न्ति. साधूहि परमप्पिच्छसन्तुट्ठेहि लातो गहितोति साहुळि. सङ्कारचोळकं निच्चकाळकं.
२१८. तत्थ तत्थ रुजनट्ठेन विबाधनट्ठेन रोगोव भूतो. विपस्सनाञाणेनपि सिखाप्पत्तेन आरोग्यं एकदेसेन पस्सति, निब्बानञ्च वट्टपटिपक्खतोति आह ‘‘विपस्सनाञाणञ्चेवा’’ति.
२१९. अन्तराति पठमुप्पत्ति जरामरणानं वेमज्झे. उपहतोति पित्तसेम्हादिदोसेहि दूसितभावेन कथितो. पित्तादिदोसे पन भेसज्जसेवनाय निवत्तेन्तो उपहतं पटिपाकतिकं करोन्तो चक्खूनि उप्पादेति नाम. विनट्ठानीति अनुप्पत्तिधम्मतं आपन्नानि.
२२०. पुब्बे वुत्ते साहुळियचीरे. वट्टे अनुगतचित्तेनाति अनमतग्गे संसारवट्टे अनादीनवदस्सिताय अनुगामिचित्तेन.
२२१. धम्मस्साति निब्बानस्स. अनुधम्मन्ति अनुरूपं निय्यानधम्मं. तेनाह ‘‘अनुच्छविकं पटिपद’’न्ति. पञ्चक्खन्धेति पञ्चुपादानक्खन्धे दस्सेति. ‘‘दीघरत्तं वत, भो’’तिआदिना पाळियं विवट्टं दस्सितं. तेनाह ‘‘उपादाननिरोधाति विवट्टं दस्सेन्तो’’ति. सेसं सुविञ्ञेय्यमेव.
मागण्डियसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.