७. चातुमसुत्तवण्णना

१५७. यथाउपनिस्सयेनाति यो यो उपनिस्सयो यथाउपनिस्सयो, तेन यथाउपनिस्सयेन सम्मापयोगेन. पतिट्ठहिस्सन्ति सासने पतिट्ठं पटिलभिस्सन्ति. वसनट्ठानानीति वस्सग्गादिवसेन वसनट्ठानानि. सण्ठापयमानाति सुविभत्तभावेन ठपेन्ता.

अविनिब्भोगसद्दन्ति विनिभुञ्जित्वा गहेतुं असक्कुणेय्यसद्दं. वचीघोसोपि हि बहूहि एकच्चं पवत्तितो ठानतो च दूरतरो केवलं महानिग्घोसो एव हुत्वा सोतपथमागच्छति. मच्छविलोपेति मच्छे विलुम्पित्वा विय गहणे, मच्छानं वा नयने.

१५८. ववस्सग्गत्थेति निच्छयत्थे, इदं ताव अम्हेहि वुच्चमानवचनं एकन्तसोतब्बं, पच्छा तुम्हेहि कातब्बं करोथाति अधिप्पायो. वचनपरिहारोति तेहि सक्यराजूहि वुत्तवचनस्स परिहारो. लेसकप्पन्ति कप्पियलेसं. धुरवहाति धुरवाहिनो, धोरय्हाति अत्थो. पादमूलन्ति उपचारं वदति. विगच्छिस्सतीति हायिस्सति. पटिप्फरितोति न भगवतो सम्मुखाव, सक्यराजूनं पुरतोपि विप्फरितोव होति.

१५९. अभिनन्दतूति अभिमुखो हुत्वा पमोदतु. अभिवदतूति अभिरूपवसेन वदतु. पसादञ्ञथत्तन्ति अप्पसादस्स विपरिणामो हीनायावत्तनसङ्खातं परिवत्तनं, तेनाह ‘‘विब्भमन्तानं. विपरिणामञ्ञथत्त’’न्ति. कारणूपचारेन सस्सेसु बीजपरियायोति आह ‘‘बीजानं तरुणानन्ति तरुणसस्सान’’न्ति. तरुणभावेनेव तस्स भाविनो फलस्स अभावेन विपरिणामो.

१६०. कत्तब्बस्स सरसेनेव करणं चित्तरुचियं, न तथा परस्स उस्सादनेनाति आह – ‘‘पक्कोसियमानानं गमनं नाम न फासुक’’न्ति. मयम्पि भगवा विय दिट्ठधम्मसुखविहारेनेव विहरिस्सामाति दीपेति पकतिया विवेकज्झासयभावतो विरद्धो आगतस्स भारस्स अवहनतोयेव. तेनाह ‘‘अत्तनो भारभावं न अञ्ञासी’’ति.

१६१. कस्मा आरभीति? सप्पायतो. पञ्चसता हि भिक्खू अभिनवा, तस्मा तेसं ओवाददानत्थं भगवा इमं देसनं आरभीति.

१६२. कोधुपायासस्साति एत्थ कुज्झनट्ठेन कोधो, स्वेव चित्तस्स कायस्स च अतिप्पमद्दनमथनुप्पादनेहि दळ्हं आयासट्ठेन उपायासो. अनेकवारं पवत्तित्वा अत्तना समवेतं सत्तं अज्झोत्थरित्वा सीसं उक्खिपितुं अदत्वा अनयब्यसनपापनेन कोधुपायासस्स ऊमिसदिसता दट्ठब्बा. तेनाह ‘‘कोधुपायासे’’तिआदि.

१६३. ओदरिकत्तेन खादितोति ओदरिकभावेन आमिसगेधेन मिच्छाजीवेन जीविकाकप्पनेन नासितसीलादिगुणताय खादितधम्मसरीरो.

१६४. पञ्चकामगुणावट्टे निमुज्जित्वाति एत्थ कामरागाभिभूते सत्ते इतो च एत्तो, एत्तो च इतोति एवं मनापियरूपादिविसयसङ्खाते आवट्टे अत्तानं संसारेत्वा यथा ततो बहिभूते नेक्खम्मे चित्तम्पि न उप्पादेति, एवं आवट्टेत्वा ब्यसनापादनेन कामगुणानं आवट्टसदिसता दट्ठब्बा. तेनाह ‘‘यथा ही’’तिआदि.

१६५. रागानुद्धंसितेनाति रागेन अनुद्धंसितेन. चण्डमच्छं आगम्माति सुसुकादिचण्डमच्छं आगम्म. मातुगामं आगम्माति मातुगामो हि योनिसोमनसिकाररहितं अधीरपुरिसं इत्थिकुत्तभूतेहि अत्तनो हावभावविलासेहि अभिभुय्य गहेत्वा धीरजातियम्पि अत्तनो रूपादीहि पलोभनवसेन अनवसेसं अत्तनो उपकारधम्मे सीलादिके सम्पादेतुं असमत्थं करोन्तो अनयब्यसनं पापेति. तेनाह – ‘‘मातुगामं आगम्म उप्पन्नकामरागो विब्भमती’’ति.

भयं नाम यत्थ भायितब्बवत्थु, तत्थ ओतरन्तस्सेव होति, न अनोतरन्तस्स, तं ओतरित्वा भयं विनोदेत्वा तत्थ किच्चं साधेतब्बं, इतरथा चत्थसिद्धि न होतीति इममत्थं उपमोपमितब्बसरूपवसेन दस्सेतुं ‘‘यथा’’तिआदि वुत्तं. तत्थ उदकं निस्साय आनिसंसो पिपासविनयनं सरीरसुद्धि परिळाहूपसमो कायउतुग्गाहापनन्ति एवमादि. सासनं निस्साय आनिसंसो पन सङ्खेपतो वट्टदुक्खूपसमो, वित्थारतो पन सीलानिसंसादिवसेन अनेकविधो, सो विसुद्धिमग्गे (विसुद्धि. १.९) वुत्तनयेन वेदितब्बो. वुत्तप्पकारो आनिसंसो होति तानि भयानि अभिभुय्य पवत्तस्साति अधिप्पायो. इमानि अभायित्वाति इमानि कोधूपायासादिभयानि अभिभुय्य पवत्तित्वा अभायित्वा. कोधूपायासादयो हि भायति एतस्माति भयन्ति वुत्ता. थेरोति महाधम्मरक्खितत्थेरो. कामं पहानाभिसमयकालो एव सच्छिकिरियाभिसमयो, सम्मादिट्ठिया पन संकिलेसवोदानधम्मेसु किच्चं असंकिण्णं कत्वा दस्सेतुं समानकालिकम्पि असमानकालिकं विय वुत्तं ‘‘तण्हासोतं छिन्दित्वा निब्बानपारं दट्ठुं न सक्कोती’’ति. सेसं सुविञ्ञेय्यमेव.

चातुमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.