५. जीवकसुत्तवण्णना
५१. कुमारेन भतो पोसापितोति कुमारभतो, कुमारभतो एव कोमारभच्चो यथा ‘‘भिसक्कमेव भेसज्ज’’न्ति.
आरभन्तीति एत्थ आरभ-सद्दो कामं कामायूहनयञ्ञुट्ठापनआपत्तिआपज्जनविञ्ञापनादीसुपि आगतो, इध पन हिंसने इच्छितब्बोति आह – ‘‘आरभन्तीति घातेन्ती’’ति. उद्दिसित्वा कतन्ति (अ. नि. टी. ३.८.१२; सारत्थ. टी. महावग्ग ३.२९४) अत्तानं उद्दिसित्वा मारणवसेन कतं निब्बत्तितं. पटिच्चकम्मन्ति एत्थ कम्म-सद्दो कम्मसाधनो अतीतकालिकोति आह – ‘‘अत्तानं पटिच्च कत’’न्ति. निमित्तकम्मस्सेतं अधिवचनं ‘‘पटिच्च कम्मं फुसती’’तिआदीसु (जा. १.४.७५) विय. निमित्तकम्मस्साति निमित्तभावेन लद्धब्बकम्मस्स, न करणकारापनवसेन. पटिच्चकम्मं एत्थ अत्थीति मंसं पटिच्चकम्मं यथा ‘‘बुद्धं एतस्स अत्थीति बुद्धो’’ति. तेसन्ति निगण्ठानं. अञ्ञेपि ब्राह्मणादयो तंलद्धिका अत्थेव.
कारणन्ति एत्थ युत्ति अधिप्पेता, सा एव च धम्मतो अनपेतत्ता ‘‘धम्मो’’ति वुत्ताति आह – ‘‘कारणं नाम तिकोटिपरिसुद्धमच्छमंसपरिभोगो’’ति. अनुकारणं नाम महाजनस्स तथा ब्याकरणं युत्तिया धम्मस्स अनुरूपभावतो मंसं परिभुञ्जितब्बन्ति अनुञ्ञातं तथेव कथनन्ति कत्वा. तन्ति ‘‘जानं उद्दिस्सकतं मंसं परिभुञ्जती’’ति एवं वुत्तं परिभुञ्जनं नेव कारणं होति सब्बेन सब्बं अभावतो सति च अयुत्तियं अधम्मोति कत्वा. तथा ब्याकरणन्ति ‘‘जानं उद्दिस्सकतं मंसं परिभुञ्जती’’ति कथनं युत्तिया धम्मस्स अननुरूपभावतो न अनुकारणं होति. परेहि वुत्तकारणेन सकारणो हुत्वाति परे तित्थिया ‘जान’न्तिआदिना धम्मं कथेन्ति वदन्ति, तेन कारणभूतेन सकारणो हुत्वा. तेहि तथा वत्तब्बो एव हुत्वा तुम्हाकं वादो वा अनुवादो वा ‘‘मंसं परिभुञ्जितब्ब’’न्ति पवत्ता तुम्हाकं कथा वा परतो परेहि तथा पवत्तिता तस्सा अनुकथा वा. विञ्ञूहि गरहितब्बकारणन्ति तित्थिया ताव तिट्ठन्तु, ततो अञ्ञेहि पण्डितेहि गरहितब्बकारणं. कोचि न आगच्छतीति गरहितब्बतं न आपज्जतीति अत्थो. अभिभवित्वा आचिक्खन्तीति अभिभुय्य मद्दित्वा कथेन्ति, अभिभूतेन अक्कोसन्तीति अत्थो.
५२. कारणेहीति परिभोगचित्तस्स अविसुद्धताहेतूहि. भिक्खू उद्दिस्सकतं दिट्ठं. तादिसमंसञ्हि परिभोगानारहत्ता चित्तअविसुद्धिया कारणं चित्तसंकिलेसावहतो. इदानि दिट्ठसुतपरिसङ्कितानि सरूपतो दस्सेतुं ‘‘दिट्ठादीसू’’तिआदि वुत्तं. तत्थ तदुभयविमुत्तपरिसङ्कितन्ति ‘‘दिट्ठं सुत’’न्ति इमं उभयं अनिस्साय – ‘‘किं नु खो इमं भिक्खुं उद्दिस्स वधित्वा सम्पादित’’न्ति केवलमेव परिसङ्कितं. सब्बसङ्गाहकोति सब्बेसं तिण्णं परिसङ्कितानं सङ्गण्हनको.
मङ्गलादीनन्ति आदि-सद्देन आहुनपाहुनादिकं सङ्गण्हाति. निब्बेमतिका होन्तीति सब्बेन सब्बं परिसङ्किताभावमाह. इतरेसन्ति अजानन्तानं वट्टति, जानतो एवेत्थ आपत्ति होति. तेयेवाति ये उद्दिस्स कतं, तेयेव.
उद्दिस्सकतमंसपरिभोगतो अकप्पियमंसपरिभोगस्स विसेसं दस्सेतुं ‘‘अकप्पियमंसं पना’’तिआदि वुत्तं. पुरिमस्मिं सचित्तका आपत्ति, इतरस्मिं अचित्तका. तेनाह – ‘‘अकप्पियमंसं अजानित्वा भुत्तस्सपि आपत्तियेवा’’ति. परिभोगन्ति परिभुञ्जितब्बन्ति वदामीति अत्थो.
५३. तादिसस्साति तिकोटिपरिसुद्धस्स मच्छमंसस्स परिभोगे. मेत्ताविहारिनोपीति अपि-सद्देन अमेत्ताविहारिनोपि. मेत्ताविहारिनो परिभोगे सिखाप्पत्ता अनवज्जताति दस्सेतुं ‘‘इध, जीवक, भिक्खू’’तिआदि वुत्तं. अनियमेत्वाति अविसेसेत्वा सामञ्ञतो. यस्मा भगवता – ‘‘यतो खो, वच्छ, भिक्खुनो तण्हा पहीना होती’’तिआदिना महावच्छगोत्तसुत्ते (म. नि. २.१९४) अत्ता अनियमेत्वा वुत्तो. तथा हि वच्छगोत्तो – ‘‘तिट्ठतु भवं गोतमो, अत्थि पन भोतो गोतमस्स एकभिक्खुपि सावको आसवानं खया…पे… उपसम्पज्ज विहरती’’ति आह, ‘‘इध, भारद्वाज, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरती’’तिआदिना चङ्कीसुत्ते (म. नि. २.४३०) अत्ता अनियमेत्वा वुत्तो. तथा हि तत्थ परतो – ‘‘यं खो पन अयमायस्मा धम्मं देसेति, गम्भीरो सो धम्मो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो, न सो धम्मो सुदेसनीयो लुद्देना’’तिआदिना देसना आगता, तस्मा वुत्तं ‘‘भगवता हि महावच्छगोत्तसुत्ते, चङ्कीसुत्ते इमस्मिं सुत्तेति तीसु ठानेसु अत्तानंयेव सन्धाय देसना कता’’ति. मंसूपसेचनोव अधिप्पेतो मच्छमंससहितस्स आहारस्स परिभोगभावतो मच्छमंसस्स च इध अधिप्पेतत्ता.
अगथितो अप्पटिबद्धो. तण्हामुच्छनायाति तण्हायनवसेन मुच्छापत्तिया. अनज्झोपन्नो तण्हाय अभिभवित्वा न अज्झोत्थटो, गिलित्वा परिनिट्ठपेत्वा न सण्ठितोति अत्थो. तेनाह – ‘‘सब्बं आलुम्पित्वा’’तिआदि. इध आदीनवो आहारस्स पटिकूलभावोति आह ‘‘एकरत्तिवासेना’’तिआदि. अयमत्थो आहारपरिभोगोति अत्थसंयोजनपरिच्छेदिका ‘‘यावदेव इमस्स कायस्स ठितिया’’तिआदिना (दी. नि. ३.१८२; म. नि. १.२३; २.२४; ३.७५; सं. नि. ४.१२०) पवत्ता आहारपटिबद्धछन्दरागनिस्सरणभूता पञ्ञा अस्स अत्थीति निस्सरणपञ्ञो. इदमत्थन्ति एतमत्थाय. एवं सन्तेति ‘‘ब्रह्माति च मेत्ताविहारिनो समञ्ञा’’ति अवत्वा ये धम्मा मेत्ताविहारस्स पटिपक्खभूता, तत्थ सावसेसं पहासि ब्रह्मा, अनवसेसं पहासि भगवाति सचे ते इदं सन्धाय भासितं, एवं सन्ते तव इदं यथावुत्तवचनं अनुजानामि, न मेत्ताविहारितासामञ्ञमत्ततोति अत्थो.
५५. ‘‘पाटियेक्को अनुसन्धी’’ति वत्वा विसुं अनुसन्धिभावं दस्सेतुं ‘‘इमस्मिं ही’’तिआदि वुत्तं. द्वारं थकेतीति मच्छमंसपरिभोगानुञ्ञाय अञ्ञेसं वचनद्वारं पिदहति, चोदनापथं निरुन्धति. कथं सत्तानुद्दयं दस्सेति? सत्तानुद्दयमुखेन बाहिरकानं मच्छमंसपरिभोगपटिक्खेपो तयिदं मिच्छा, तिकोटिपरिसुद्धस्सेव मच्छमंसस्स परिभोगो भगवता अनुञ्ञातो. तथा हि वुत्तं – ‘तीहि खो अहं, जीवक, ठानेहि मंसं परिभोगन्ति वदामी’तिआदि (म. नि. २.५२). विनयेपि (पारा. ४०९; चूळव. ३४३) वुत्तं – ‘‘तिकोटिपरिसुद्धं, देवदत्त, मच्छमंसं मया अनुञ्ञात’’न्ति. तिकोटिपरिसुद्धञ्च भुञ्जन्तानं सत्तेसु अनुद्दया निच्चला. ‘‘सत्तानुद्दयं दस्सेती’’ति सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘सचे ही’’तिआदिमाह.
पठमेन कारणेनाति देसनावसेनपि पयोगवसेनपि पठमेन परूपघातहेतुना. कड्ढितो सो पाणो. गलेन पवेधेन्तेनाति योत्तगलेन करणेन असय्हमानेन. बहुपुञ्ञमेव होति आसादनापेक्खाय अभावतो, हितज्झासयत्ता वाति अधिप्पायो. एसाहं, भन्तेतिआदि कस्मा वुत्तं, सरणगमनवसेनेव गहितसरणोति चोदनं सन्धायाह ‘‘अय’’न्तिआदि. ओगाहन्तोतिआदितो पट्ठाय याव परियोसाना सुत्तं अनुस्सरन्तो अत्थं उपधारेन्तो. सेसं सुविञ्ञेय्यमेव.
जीवकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.