२. अट्ठकनागरसुत्तवण्णना
१७. अविदूरेति इमिना पाळियं ‘‘वेसालिय’’न्ति इदं समीपे भुम्मवचनन्ति दस्सेति. सारप्पत्तकुलगणनायाति (अ. नि. टी. ३.११.१६) महासारमहप्पत्तकुलगणनाय. दसमे ठानेति अञ्ञे अञ्ञेति दसगणनट्ठाने. अट्ठकनगरे जातो भवो अट्ठकनागरो. कुक्कुटारामोति पाटलिपुत्ते कुक्कुटारामो, न कोसम्बियं.
१८. पकतत्थनिद्देसो त-सद्दोति तस्स ‘‘भगवता’’तिआदीहि पदेहि समानाधिकरणभावेन वुत्तस्स येन अभिसम्बुद्धभावेन भगवा पकतो अधिगतो सुपाकटो च, तं अभिसम्बुद्धभावं सद्धिं आगमनीयपटिपदाय अत्थभावेन दस्सेन्तो ‘‘यो सो…पे… अभिसम्बुद्धो’’ति आह. सतिपि ञाणदस्सन-सद्दानं इध पञ्ञावेवचनभावे तेन तेन विसेसेन तेसं विसयविसेसे पवत्तिदस्सनत्थं असाधारणञाणविसेसवसेन विज्जात्तयवसेन विज्जाअभिञ्ञानावरणञाणवसेन सब्बञ्ञुतञाणमंसचक्खुवसेन पटिवेधदेसनाञाणवसेन च तदत्थं योजेत्वा दस्सेन्तो ‘‘तेसं तेस’’न्तिआदिमाह. तत्थ आसयानुसयं जानता आसयानुसयञाणेन सब्बं ञेय्यधम्मं पस्सता सब्बञ्ञुतानावरणञाणेहि. पुब्बेनिवासादीहीति पुब्बेनिवासासवक्खयञाणेहि. पटिवेधपञ्ञायाति अरियमग्गपञ्ञाय. देसनापञ्ञाय पस्सताति देसेतब्बधम्मानं देसेतब्बप्पकारं बोधनेय्यपुग्गलानञ्च आसयानुसयचरिताधिमुत्तिआदिभेदं धम्मदेसनापञ्ञाय याथावतो पस्सता. अरीनन्ति किलेसारीनं, पञ्चविधमारानं वा, सासनस्स वा पच्चत्थिकानं अञ्ञतित्थियानं तेसं पन हननं पाटिहारियेहि अभिभवनं अप्पटिभानताकरणं अज्झुपेक्खनमेव वा, केसिविनयसुत्तञ्चेत्थ निदस्सनं.
तथा ठानाट्ठानादिविभागं जानता यथाकम्मूपगसत्ते पस्सता, सवासनानं आसवानं खीणत्ता अरहता, अभिञ्ञेय्यादिभेदे धम्मे अभिञ्ञेय्यादितो अविपरीतावबोधतो सम्मासम्बुद्धेन. अथ वा तीसु कालेसु अप्पटिहतञाणताय जानता, कायकम्मादिवसेन तिण्णं कम्मानं ञाणानुपरिवत्तितो निसम्मकारिताय पस्सता, दवादीनं अभावसाधिकाय पहानसम्पदाय अरहता, छन्दादीनं अहानिहेतुभूताय अक्खयपटिभानसाधिकाय सब्बञ्ञुताय सम्मासम्बुद्धेनाति एवं दसबलअट्ठारसआवेणिकबुद्धधम्मवसेनपि योजना कातब्बा.
१९. अभिसङ्खतन्ति अत्तनो पच्चयेहि अभिसम्मुखभावेन समेच्च सम्भूय्य कतं, स्वस्स कतभावो उप्पादनेन वेदितब्बो, न उप्पन्नस्स पटिसङ्खरणेनाति आह ‘‘उप्पादित’’न्ति. ते चस्स पच्चया चेतनापधानाति दस्सेतुं पाळियं ‘‘अभिसङ्खतं अभिसञ्चेतयित’’न्ति वुत्तन्ति ‘‘चेतयितं पकप्पित’’न्ति अत्थमाह. अभिसङ्खतं अभिसञ्चेतयितन्ति च झानस्स पातुभावदस्सनमुखेन विद्धंसनभावं उल्लिङ्गेति यञ्हि अहुत्वा सम्भवति, तं हुत्वा पटिवेति. तेनाह पाळियं ‘अभिसङ्खत’न्तिआदि. समथविपस्सनाधम्मे ठितोति समथधम्मे ठितत्ता समाहितो विपस्सनं पट्ठपेत्वा अनिच्चानुपस्सनादीहि निच्चसञ्ञादयो पजहन्तो अनुक्कमेन तं अनुलोमञाणं पापेता हुत्वा विपस्सनाधम्मे ठितो. समथविपस्सनासङ्खातेसु धम्मेसु रञ्जनट्ठेन रागो, नन्दनट्ठेन नन्दीति. तत्थ सुखुमा अपेक्खा वुत्ता, या ‘‘निकन्ती’’ति वुच्चति.
एवं सन्तेति एवं यथारुतवसेन च इमस्स सुत्तपदस्स अत्थे गहेतब्बे सति. समथविपस्सनासु छन्दरागो कत्तब्बोति अनागामिफलं निब्बत्तेत्वा तदत्थाय समथविपस्सनापि अनिब्बत्तेत्वा केवलं तत्थ छन्दरागो कत्तब्बो भविस्सति. कस्मा? तेसु समथविपस्सनासङ्खातेसु धम्मेसु छन्दरागमत्तेन अनागामिना लद्धब्बस्स अलद्धानागामिफलेन लद्धब्बत्ता तथा सति तेन अनागामिफलम्पि लद्धब्बमेव नाम होति. तेनाह – ‘‘अनागामिफलं पटिविद्धं भविस्सती’’ति. सभावतो रसितब्बत्ता अविपरीतो अत्थो एव अत्थरसो. अञ्ञापि काचि सुगतियोति विनिपातिके सन्धायाह. अञ्ञापि काचि दुग्गतियोति असुरकायमाह.
समथधुरमेव धुरं समथयानिकस्स वसेन देसनाय आगतत्ता. महामालुक्योवादे ‘‘विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचार’’न्ति पादकज्झानं कत्वा ‘‘सो यदेव तत्थ होति रूपगतं वेदनागत’’न्तिआदिना विपस्सनं वित्थारेत्वा ‘‘सो तत्थ ठितो आसवानं खयं पापुणाती’’ति (म. नि. २.१३३) आगतत्ता ‘‘महामालुक्योवादे विपस्सनाव धुर’’न्ति आह. महासतिपट्ठानसुत्ते (दी. नि. २.३७३ आदयो; म. नि. १.१०६ आदयो) सब्बत्थकमेव तिक्खतराय विपस्सनाय आगतत्ता वुत्तं ‘‘विपस्सनुत्तरं कथित’’न्ति. कायगतासतिसुत्ते (म. नि. ३.१५३-१५४) आनापानज्झानादिवसेन सविसेसं समथविपस्सनाय आगतत्ता वुत्तं ‘‘समथुत्तरं कथित’’न्ति.
अप्पं याचितेन बहुं देन्तेन उळारपुरिसेन विय एकं धम्मं पुच्छितेन ‘‘अयम्पि एकधम्मो’’ति कथितत्ता एकादसपि धम्मा पुच्छावसेन एकधम्मो नाम जातो पच्चेकं वाक्यपरिसमापनञायेन. एकवीसति पब्बानि तेहि बोधियमानाय पटिपदाय एकरूपत्ता पटिपदावसेन एकधम्मो नाम जातोति. इध इमस्मिं अट्ठकनागरसुत्ते. नेवसञ्ञानासञ्ञायतनधम्मानं सङ्खारावसेससुखुमभावप्पत्तताय तत्थ सावकानं दुक्करन्ति न चतुत्थारुप्पवसेनेत्थ देसना आगताति चतुन्नं ब्रह्मविहारानं, हेट्ठिमानं तिण्णं आरुप्पानञ्च वसेन एकादस. पुच्छावसेनाति ‘‘अत्थि नु खो, भन्ते आनन्द, तेन…पे… सम्मासम्बुद्धेन एकधम्मो अक्खातो’’ति (म. नि. २.१८) एवं पवत्तपुच्छावसेन. अमतुप्पत्तियत्थेनाति अमतभावस्स उप्पत्तिहेतुताय, सब्बानिपि कम्मट्ठानानि एकरसम्पि अमताधिगमपटिपत्तियाति अत्थो, एवमेत्थ अग्गफलभूमि अनागामिफलभूमीति द्वेव भूमियो सरूपतो आगता, नानन्तरियताय पन हेट्ठिमापि द्वे भूमियो अत्थतो आगता एवाति दट्ठब्बा.
२१. पञ्च सतानि अग्घो एतस्साति पञ्चसतं. सेसं उत्तानमेव.
अट्ठकनागरसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.