६. महाधम्मसमादानसुत्तवण्णना

४७३. एवं इदानि वुच्चमानाकारो कामो कामनं इच्छा एतेसन्ति एवंकामा. एवं छन्दो छन्दनं रोचनं अज्झासयो एतेसन्ति एवंछन्दा. अभिमुखं, अभिनिविस्स वा पकारेहि एति उपगच्छतीति अधिप्पायो, लद्धि. सा हि लद्धब्बवत्थुं अभिमुखं ‘‘एवमेत’’न्ति अभिनिविसन्ती तेन तेन पकारेन उपगच्छति, हत्थगतं कत्वा तिट्ठति न विस्सज्जेति. एवं वुच्चमानाकारो अधिप्पायो एतेसन्ति एवंअधिप्पाया. भगवा मूलं कारणं एतेसं याथावतो अधिगमायाति भगवंमूलका. तेनाह ‘‘भगवन्तञ्हि निस्साय मयं इमे धम्मे आजानाम पटिविज्झामा’’ति. अम्हाकंधम्माति तेहि अत्तना अधिगन्तब्बताय वुत्तं. सेवितब्बानञ्हि याथावतो अधिगमञाणानि अधिगच्छनकसम्बन्धीनि, तानि च सम्मासम्बुद्धमूलकानि अनञ्ञविसयत्ता. तेनाह ‘‘पुब्बे कस्सपसम्बुद्धेना’’तिआदि. भगवा नेता तेसन्ति भगवंनेत्तिका. नेताति सेवितब्बधम्मे विनेय्यसन्तानं पापेता. विनेताति असेवितब्बधम्मे विनेय्यसन्तानतो अपनेता. तदङ्गविनयादिवसेन वा विनेता. अनुनेताति इमे धम्मा सेवितब्बा, इमे न सेवितब्बाति उभयसम्पापनापनयनत्थं पञ्ञपेता. तेनाह ‘‘यथासभावतो’’तिआदि.

पटिसरन्ति एत्थाति पटिसरणं, भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा. पटिसरति सभावसम्पटिवेधवसेन पच्चेकमुपगच्छतीति वा पटिसरणं, भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा. पटिवेधवसेनाति पटिविज्झितब्बतावसेन. असतिपि मुखे अत्थतो एवं वदन्तो विय होतीति आह ‘‘फस्सो आगच्छति, अहं भगवा किं नामो’’ति. पटिभातूति एत्थ पटि-सद्दापेक्खाय ‘‘भगवन्त’’न्ति उपयोगवचनं, अत्थो पन सामिवचनवसेनेव वेदितब्बोति दस्सेन्तो आह ‘‘भगवतो’’ति पटिभातूति च भगवतो भागो होतु. भगवतो हि एस भागो, यदिदं धम्मस्स देसना, अम्हाकं पन भागो सवनन्ति अधिप्पायो. केचि पन पटिभातूति पदिस्सतूति अत्थं वदन्ति, ञाणेन दिस्सतु, देसीयतूति वा अत्थो. उपट्ठातूति च ञाणस्स पच्चुपट्ठातु.

४७४. निस्सयितब्बेति अत्तनो सन्ताने उप्पादनवसेन अपस्सयितब्बे. ततियचतुत्थधम्मसमादानानि हि अपस्साय सत्तानं एतरहि आयतिञ्च सम्पत्तियो अभिवड्ढन्ति. भजितब्बेति तस्सेव वेवचनं. सेवितब्बेति वा सप्पुरिसुपस्सयसद्धम्मस्सवनयोनिसोमनसिकारे सन्धायाह. भजितब्बेति तप्पच्चये दानादिपुञ्ञधम्मे.

४७५. उप्पटिपाटिआकारेनाति पठमं संकिलेसधम्मे दस्सेत्वा पच्छा वोदानधम्मदस्सनं सत्थु देसनापटिपाटि, यथा – ‘‘वामं मुञ्च, दक्खिणं गण्हा’’ति (ध. स. अट्ठ. ४९८; विसुद्धि. महाटी. १.१४), तथा उप्पटिपाटिपकारेन, सा च खो पुरिमेसु द्वीसु धम्मसमादानेसु, पच्छिमेसु पन पटिपाटियाव मातिका पट्ठपिता. यथाधम्मरसेनेवाति पहातब्बपहायकधम्मानं यथासभावेनेव. सभावो हि याथावतो रसितब्बतो जानितब्बतो ‘‘रसो’’ति वुच्चति. पठमं पहातब्बधम्मे दस्सेत्वा तदनन्तरं ‘‘इमे धम्मा एतेहि पहीयन्ती’’ति पहायकधम्मदस्सनं देसनानुपुब्बी. गहणं आदियनं अत्तनो सन्ताने उप्पादनं.

४७८. वधदण्डादीहि भीतस्स उपसङ्कमने, मिच्छा चरित्वा तथा अपगमने च पुब्बापरचेतनानं वसेन मिच्छाचारो दुक्खवेदनो होति, तथा इस्सानिन्दादीहि उपद्दुतस्स अपरचेतनावसेन, एवं अभिज्झामिच्छादिट्ठीसुपि यथारहं वेदितब्बं. तिस्सन्नम्पि चेतनानन्ति पुब्बापरसन्निट्ठापकचेतनानं. अदिन्नादानं मुसावादो पिसुणवाचा सम्फप्पलापोति इमेसं चतुन्नं सन्निट्ठापकचेतनानं सुखसम्पयुत्ता वा उपेक्खासम्पयुत्ता वाति अयं नयो इध अधिकतत्ता न उद्धटो. दोमनस्समेव चेत्थ दुक्खन्ति इदं पुब्बभागापरभागचेतनापि चेत्थ आसन्ना दोमनस्ससहगता एव होन्तीति कत्वा वुत्तं. अनासन्ना पन सन्धाय ‘‘परियेट्ठिं वा आपज्जन्तस्सा’’तिआदि वुत्तं. तेनेव मिच्छाचाराभिज्झामिच्छादिट्ठीनं पुब्बभागापरभागचेतना आसन्ना सन्निट्ठापकचेतनागतिकावाति दस्सितं होतीति दट्ठब्बं. परियेट्ठिन्ति मिच्छाचारादीसु वीतिक्कमितब्बवत्थुमालागन्धादिपरियेसनं. पाणातिपातादीसु मारेतब्बवत्थुआवुधादिपरियेसनं आपज्जन्तस्स. अकिच्छेनपि तेसं परियेसनं सम्भवतीति ‘‘वट्टतियेवा’’ति सासङ्कं वदति.

४७९. सुखवेदना होन्तीति सुखवेदनापि होन्तीति अधिप्पायो. तासं चेतनानं असुखवेदनतापि लब्भतीति ‘‘सुखवेदनापि होन्तियेवा’’ति सासङ्कवचनं. सोमनस्समेव चेत्थ सुखन्ति इदं पुब्बभागापरभागचेतनापि सोमनस्ससहगता एव होन्तीति कत्वा वुत्तं. तञ्च खो मिच्छाचारवज्जानं छन्नं वसेन. मिच्छाचारस्स पन पुब्बापरभागस्स वसेन ‘‘कायिकं सुखम्पि वट्टतियेवाति सासङ्कवचनं.

४८०. दोसजपरिळाहवसेनस्स सिया कायिकम्पि दुक्खन्ति अधिप्पायेन ‘‘सो गण्हन्तोपि दुक्खितो’’ति वुत्तं. चेतोदुक्खमेव वा सन्धाय तस्स अपरापरुप्पत्तिदस्सनत्थं ‘‘दुक्खितो दोमनस्सितो’’ति वुत्तं.

४८१. दससुपि पदेसूति दससुपि कोट्ठासेसु, वाक्येसु वा. उपेक्खासम्पयुत्ततापि सम्भवतीति ‘‘सुखसम्पयुत्ता होन्तियेवा’’ति इध सासङ्कवचनं. पाणातिपाता पटिविरतस्स कायोपि सिया विगतदरथपरिळाहोति पाणातिपातावेरमणिआदिपच्चया कायिकपटिसंवेदनापि सम्भवतीति सहापि सुखेनाति एत्थ कायियसुखम्पि वट्टतियेव.

४८२. तित्तकालाबूति उपभुत्तस्स उम्मादादिपापनेन कुच्छिततित्तकरसो अलाबु. न रुच्चिस्सति अनिट्ठरसताय अनिट्ठफलताय च.

४८३. रसं देतीति रसं दस्सेति विभावेति.

४८४. पूतिमुत्तन्ति पूतिसभावमुत्तं. तरुणन्ति धारावसेन निपतन्तं हुत्वा उण्हं. तेनस्स उपरिमुत्ततमाह. मुत्तञ्हि पस्सावमग्गतो मुच्चमानं कायुस्मावसेन उण्हं होति.

४८५. यं भगन्दरसंसट्ठं लोहितं पक्खन्दतीति भगन्दरब्याधिसहिताय लोहितपक्खन्दताय वसेन यं लोहितं विस्सवति. पित्तसंसट्ठं लोहितं पक्खन्दतीति आनेत्वा सम्बन्धो.

४८६. उब्बिद्धेति दूरे. अब्भमहिकादिउपक्किलेसविगमेन हि आकासं उत्तुङ्गं विय दूरं विय च खायति. तेनाह ‘‘दूरीभूते’’ति. तमंयेव तमगतं ‘‘गूथगतं मुत्तगत’’न्ति (म. नि. २.११९; अ. नि. ९.११) यथा. भासते च तपते च विरोचते च इदं चतुत्थं धम्मसमादानं विभजन्तेन कुसलकम्मपथस्स विभजित्वा दस्सितत्ता.

सङ्गररुक्खो कन्दमादसपोव. सरभञ्ञवसेनाति अत्थं अविभजित्वा पदसो सरभञ्ञवसेन. ओसारेन्तस्साति उच्चारेन्तस्स. सद्देति ओसारणसद्दे. अधिगतविसेसं अनारोचेतुकामा देवता तत्थेव अन्तरधायि. तं दिवसन्ति सत्थारा देसितदिवसे. इति अत्तनो विसेसाधिगमनिमित्तताय अयं देवता इमं सुत्तं पियायति. सेसं उत्तानमेव.

महाधम्मसमादानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.