२. अभिधम्मभाजनीयवण्णना

२४३. पथवीआकासा विय पटिच्चसमुप्पादो महापत्थटवित्थारितानं अत्थानं परिकप्पवसेन कथितो. तञ्हि अपत्थटं अवित्थतञ्च पथविं आकासञ्च पत्थरन्तो वित्थारयन्तो विय च एकेकचित्तावरुद्धं अकत्वा सब्बसत्तसब्बचित्तसाधारणवसेन पत्थटवित्थतं कत्वा सुत्तन्तभाजनीयेन भगवा दस्सेति. तत्थ नानाचित्तवसेनाति असहजातानं सहजातानञ्च पच्चयपच्चयुप्पन्नानं नानाचित्तगतानं दस्सितभावं सन्धाय वुत्तं. नव मूलपदानि एतेसन्ति नवमूलपदा, नया. ‘‘एकेकेन नयेन चतुन्नं चतुन्नं वारानं सङ्गहितत्ता’’ति वुत्तं, एत्थ ‘‘एकेकेन चतुक्केना’’ति वत्तब्बं. नयचतुक्कवारा हि एत्थ ववत्थिता दस्सितानं चतुक्कानं नयभावाति.

१. पच्चयचतुक्कवण्णना

अविज्जं अङ्गं अग्गहेत्वा ततो परं ‘‘अविज्जापच्चया सङ्खारो’’तिआदीनि पच्चयसहितानि पच्चयुप्पन्नानि अङ्गभावेन वुत्तानीति आह ‘‘न, तस्स अनङ्गत्ता’’ति. एवञ्च कत्वा निद्देसे (विभ. २२६) ‘‘तत्थ कतमा अविज्जा’’ति अविज्जं विसुं विस्सज्जेत्वा ‘‘तत्थ कतमो अविज्जापच्चया सङ्खारो’’तिआदिना तंतंपच्चयवन्तो सङ्खारादयो विस्सज्जिताति. तीसु पकारेसु पठमपठमवारो दुतियवारादीसु पविसन्तो पच्चयविसेसादिसब्बनानत्तसाधारणत्ता ते वारविसेसे गण्हातीति ‘‘सब्बसङ्गाहको’’ति वुत्तो. पठमवारो एव हि न केवलं छट्ठायतनमेव, अथ खो नामञ्च फस्सस्स पच्चयो, नामं वा न केवलं छट्ठायतनस्सेव, अथ खो फस्सस्सापीति पच्चयविसेसदस्सनत्थं, येन अत्थविसेसेन महानिदानसुत्तदेसना पवत्ता, तंदस्सनत्थञ्च छट्ठायतनङ्गं परिहापेत्वा वुत्तोति तस्स दुतियवारे च पवेसो वुत्तो, न सब्बङ्गसमोरोधतो.

यत्थाति वारचतुक्के एकेकवारे च. अञ्ञथाति सुत्तन्तभाजनीयतो अञ्ञथा सङ्खारोति वुत्तं. अवुत्तन्ति ‘‘रूपं सळायतन’’न्ति, तेसुपि च वारेसु चतूसुपि सोकादयो अवुत्ता सुत्तन्तभाजनीयेसु वुत्ता. तत्थ च वुत्तमेव इध ‘‘छट्ठायतन’’न्ति अञ्ञथा वुत्तन्ति दट्ठब्बं.

सब्बट्ठानसाधारणतोति वुत्तनयेन सब्बवारसाधारणतो, सब्बविञ्ञाणपवत्तिट्ठानभवसाधारणतो वा. विना अभावेन विञ्ञाणस्स खन्धत्तयम्पि समानं फलं पच्चयो चाति आह ‘‘अविसेसेना’’ति. ‘‘तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४; सं. नि. २.४३) वचनतो पन विञ्ञाणं फस्सस्स विसेसपच्चयोति तस्स फस्सो विसिट्ठं फलं, सतिपि पच्चयसम्पयुत्तानं आहारपच्चयभावे मनोसञ्चेतनाय विञ्ञाणाहरणं विसिट्ठं किच्चन्ति सङ्खारो चस्स विसिट्ठो पच्चयो. अचित्तक्खणमत्तानीति चित्तक्खणप्पमाणरहितानि. तस्सत्थोति तस्स वुत्तस्स अविज्जादिकस्स अत्थो सुत्तन्तभाजनीयवण्णनायं वुत्तनयेनेव वेदितब्बो.

हेतुकादीनीति एत्थ यस्मिं चतुक्के हेतुक-सद्दो वुत्तो, तं हेतुक-सद्दसहचरितत्ता ‘‘हेतुक’’न्ति वुत्तन्ति वेदितब्बं. हेतु-सद्दो गतिसूचको अविगतता च विगततानिवारणवसेन गति एव होतीति हेतुकचतुक्कं अविगतपच्चयवसेन वुत्तन्ति वुत्तं.

तिधा चतुधा पञ्चधा वाति वा-सद्दो ‘‘छधा वा’’तिपि विकप्पेतीति दट्ठब्बो. समाधि हि साधारणेहि तीहि झानिन्द्रियमग्गपच्चयेहि च पच्चयोति. उपादानं भवस्स मग्गपच्चयेन चाति सत्तधाति कामुपादानवज्जानं वसेन वदति. कामुपादानं पन यथा भवस्स पच्चयो होति, सो पकारो तण्हायं वुत्तो एवाति न वुत्तो.

इमस्मिं चतुक्के सहजातपच्चयेन पच्चया होन्तीति वचनवसेनाति अधिप्पायो. अत्थो हि न कत्थचि अत्तनो पच्चयुप्पन्नस्स यथासकेहि पच्चयो न होति, सहजातपच्चयवसेनेव पन इमस्स चतुक्कस्स वुत्तत्ता सोयेवेत्थ होतीति वदन्ति. पठमवारोति पठमचतुक्कोति एवं वत्तब्बं. भवादीनं तथा अभावन्ति यदि सहजातपच्चयवसेनेव पठमचतुक्को वुत्तो, भवो जातिया, जाति च मरणस्स सहजातपच्चयो न होतीति यथा अविगतचतुक्कादीसु ‘‘भवपच्चया जाति भवहेतुका’’तिआदि न वुत्तं भवादीनं अविगतादिपच्चयताय अभावतो, एवमिधापि ‘‘भवपच्चया जाती’’तिआदि न वत्तब्बं सिया. पच्चयवचनमेव हि तेसं सहजातसूचकं आपन्नं अविगतचतुक्कादीसु विय इध पच्चयविसेससूचकस्स वचनन्तरस्स अभावा, न च तं न वुत्तं, न च भवादयो सहजातपच्चया होन्ति, तस्मा न सहजातपच्चयवसेनेवायं चतुक्को वुत्तो. सेसपच्चयानञ्च सम्भवन्ति इदं ‘‘भवादीन’’न्ति एतेन सह अयोजेत्वा सामञ्ञेन अविज्जादीनं सहजातेन सह सेसपच्चयभावानञ्च सम्भवं सन्धाय वुत्तं. अयञ्हेत्थ अत्थो – पच्चयविसेससूचकस्स वचनन्तरस्स अभावा सहजाततो अञ्ञे पच्चयभावा अविज्जादीनं न सम्भवन्तीति सहजातपच्चयवसेनेवायं चतुक्को आरद्धोति वुच्चेय्य, न च ते न सम्भवन्ति, तस्मा नायं तथा आरद्धोति.

‘‘महानिदानसुत्तन्ते एकादसङ्गिको पटिच्चसमुप्पादो वुत्तो’’ति वुत्तं, तत्थ पन ‘‘नामरूपपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामपच्चया फस्सो’’तिआदिना (दी. नि. २.९७) द्विक्खत्तुं आगते नामरूपे एकधा गहिते नवङ्गिको, द्विधा गहिते दसङ्गिको वुत्तो, अञ्ञत्थ पन वुत्तेसु अविज्जासङ्खारेसु अद्धत्तयदस्सनत्थं योजियमानेसु एकादसङ्गिको होतीति कत्वा एवं वुत्तन्ति दट्ठब्बं. महानिदानसुत्तन्तदेसनाय परिग्गहत्थन्ति तत्थ हि चक्खायतनादीनि विय रूपे छट्ठायतनञ्च नामे अन्तोगधं कत्वा फस्सस्स निरवसेसरूपपच्चयं विय निरवसेसनामपच्चयञ्च दस्सेतुं ‘‘नामरूपपच्चया फस्सो’’ति वुत्तं, एवमिधापि तत्थ दस्सितविसेसदस्सनेन तंदेसनापरिग्गहत्थं एकचित्तक्खणिके पटिच्चसमुप्पादे छट्ठायतनं नामन्तोगधं कत्वा ‘‘नामपच्चया फस्सो’’ति वुत्तन्ति अत्थो.

रूपप्पवत्तिदेसं सन्धाय देसितत्ता ‘‘इमस्सा’’ति वचनसेसो, न पुरिमानन्ति, तेनेव ‘‘अयञ्ही’’तिआदिमाह.

योनिवसेन ओपपातिकानन्ति चेत्थ संसेदजयोनिकापि परिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ताति दट्ठब्बा. पधानाय वा योनिया सब्बपरिपुण्णायतनयोनिं दस्सेतुं ‘‘ओपपातिकान’’न्ति वुत्तं. एवं सङ्गहनिदस्सनवसेनेव हि धम्महदयविभङ्गेपि (विभ. १००९) ‘‘ओपपातिकानं पेतान’’न्तिआदिना ओपपातिकग्गहणमेव कतं, न संसेदजग्गहणन्ति. एकचित्तक्खणे छहायतनेहि फस्सस्स पवत्ति नत्थि, न चेकस्स अकुसलफस्सस्स छट्ठायतनवज्जं आयतनं समानक्खणे पवत्तमानं पच्चयभूतं अत्थि, आरम्मणपच्चयो चेत्थ पवत्तको न होतीति न गय्हति, तस्मा ‘‘सळायतनपच्चया फस्सो’’ति न सक्का वत्तुन्ति दस्सनत्थं ‘‘यस्मा पनेसो’’तिआदिमाह.

पुरिमयोनिद्वये सम्भवन्तम्पि केसञ्चि सळायतनं कललादिकाले न सम्भवतीति ‘‘सदा असम्भवतो’’ति आह. पच्छिमयोनिद्वये पन येसं सम्भवति, तेसं सदा सम्भवतीति. इतोति इमस्मा चतुक्कतो, नयतो वा, यो विसेसो.

पच्चयचतुक्कवण्णना निट्ठिता.

२. हेतुचतुक्कवण्णना

२४४. जातिक्खणमत्ते एव अभावतोति ततो उद्धं भावतोति अत्थो. अविगतपच्चयनियमाभावतो भवे उपादानहेतुकग्गहणं न कतं, अभावतो अविगतपच्चयस्स जातिआदीसु भवहेतुकादिग्गहणं न कतन्ति योजेतब्बं. यथा पन याव वत्थु, ताव अनुपलब्भमानस्स विञ्ञाणस्स वत्थु अविगतपच्चयो होति विञ्ञाणतो उद्धं पवत्तनकम्पि, एवं उपादानं भवसङ्गहितानं जातिआदीनं, भवो च जातिया अविगतपच्चयो सिया. अथ न सिया, सङ्खारक्खन्धे जातिआदीनं सङ्गहितत्ता विञ्ञाणं नामस्स, नामञ्च अतक्खणिकसम्भवा छट्ठायतनस्स अविगतपच्चयो न सियाति इध विय तत्थापि हेतुकग्गहणं न कत्तब्बं सिया, तस्मा याव उपादानं, ताव जातिआदीनं अनुपलब्भो, जातिक्खणमत्ते एव भवस्स अभावो च कारणन्ति न सक्का कातुं. सङ्खतलक्खणानं पन जातिआदीनं असभावधम्मानं भवेन सङ्गहितत्ता असभावधम्मस्स च परमत्थतो भवन्तरस्स अभावतो हेतुआदिपच्चया न सन्तीति भवस्स उपादानं न नियमेन अविगतपच्चयो, भवो पन जातिया, जाति जरामरणस्स नेव अविगतपच्चयोति अविगतपच्चयनियमाभावतो अभावतो च अविगतपच्चयस्स भवादीसु हेतुकग्गहणं न कतन्ति युत्तं.

ननु एवं ‘‘नामं विञ्ञाणहेतुकं छट्ठायतनं नामहेतुक’’न्ति वचनं न वत्तब्बं. न हि नामसङ्गहितानं जातिआदीनं अविगतपच्चयो अञ्ञस्स अविगतपच्चयभावो च अत्थि असभावधम्मत्ताति? न, तेसं नामेन असङ्गहितत्ता. नमनकिच्चपरिच्छिन्नञ्हि नामं, तञ्च किच्चं सभावधम्मानमेव होतीति सभावधम्मभूता एव तयो खन्धा ‘‘नाम’’न्ति वुत्ता, तस्मा तत्थ हेतुकग्गहणं युत्तं, इध पन भवतीति भवो, न च जातिआदीनि न भवन्ति ‘‘भवपच्चया जाति सम्भवति, जातिपच्चया जरामरणं सम्भवती’’ति योजनतो, तस्मा सङ्खरणतो सङ्खारे विय भवनतो भवे जातिआदीनि सङ्गहितानीति नियमाभावाभावेहि यथावुत्तेहि हेतुकग्गहणं न कतन्ति.

केचि पनातिआदिना रेवतत्थेरमतं वदति. अरूपक्खन्धा हि इध भवोति आगता. वुत्तञ्हि ‘‘तत्थ कतमो उपादानपच्चया भवो, ठपेत्वा उपादानं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति (विभ. २४९).

‘‘वत्तब्बपदेसाभावतो’’ति वुत्तं, सतिपि पन पदेसे उपादानं विय सभावानि जातिआदीनि न होन्तीति ठपेतब्बस्स भावन्तरस्स अभावतो एव ठपनं न कातब्बन्ति युत्तं. जायमानानं पन जाति, जातानञ्च जरामरणन्ति ‘‘भवपच्चया जाति, जातिपच्चया जरामरण’’न्ति (विभ. २२५) वुत्तं. यथा पन ‘‘नामपच्चया फस्सोति तत्थ कतमं नामं? ठपेत्वा फस्सं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो. इदं वुच्चति नाम’’न्ति (विभ. २५९), ‘‘नामरूपपच्चया सळायतनन्ति अत्थि नामं अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो. इदं वुच्चति नामं. तत्थ कतमं रूपं? चत्तारो महाभूता यञ्च रूपं निस्साय मनोधातु मनोविञ्ञाणधातु वत्तति, इदं वुच्चति रूप’’न्ति (विभ. २६१) च यं नामरूपञ्च फस्सस्स सळायतनस्स पच्चयो, तस्स वत्तब्बपदेसो निद्दिट्ठो, एवं यो भवो जातिया पच्चयो, तस्सपि ठपेतब्बगहेतब्बविसेसे सति न सक्का वत्तब्बपदेसो नत्थीति वत्तुन्ति.

हेतुचतुक्कवण्णना निट्ठिता.

४. अञ्ञमञ्ञचतुक्कवण्णना

२४६. निप्पदेसत्ता भवेन उपादानं सङ्गहितन्ति पच्चयुप्पन्नस्स उपादानस्स विसुं ठितस्स अभावा ‘‘भवपच्चयापि उपादान’’न्ति न सक्का वत्तुन्ति दस्सेतुं ‘‘यस्मा पन भवो निप्पदेसो’’तिआदिमाह. एवं सति ‘‘नामपच्चयापि विञ्ञाण’’न्ति न वत्तब्बं सिया, नामं पन पच्चयुप्पन्नभूतं पच्चयभूतञ्च सप्पदेसमेव गहितन्ति अधिप्पायो. यथा पन ‘‘नामपच्चया छट्ठायतनं, नामपच्चया फस्सो’’तिआदीसु (विभ. १५०-१५४) पच्चयुप्पन्नं ठपेत्वा नामं गहितं, एवं ‘‘भवपच्चयापि उपादान’’न्ति इधापि पच्चयुप्पन्नं ठपेत्वा भवस्स गहणं न न सक्का कातुं, तस्मा उपादानस्स अविगतपच्चयनियमाभावो विय अञ्ञमञ्ञपच्चयनियमाभावो भवे पुब्बे वुत्तनयेन अत्थीति ‘‘भवपच्चयापि उपादान’’न्ति न वुत्तन्ति वेदितब्बं.

अञ्ञमञ्ञपच्चयोति चेत्थ सम्पयुत्तविप्पयुत्तअत्थिपच्चयो अधिप्पेतो सिया. ‘‘नामरूपपच्चयापि विञ्ञाण’’न्ति हि वुत्तं, न च वत्थु अकुसलविञ्ञाणस्स अञ्ञमञ्ञपच्चयो होति, पुरेजातविप्पयुत्तो पन होतीति. तथा ‘‘छट्ठायतनपच्चयापि नामरूप’’न्ति वुत्तं, न च छट्ठायतनं चक्खायतनुपचयादीनं चित्तसमुट्ठानरूपस्स च अञ्ञमञ्ञपच्चयो होति, पच्छाजातविप्पयुत्तो पन होतीति.

अञ्ञमञ्ञचतुक्कवण्णना निट्ठिता.

सङ्खारादिमूलकनयमातिकावण्णना

२४७. ‘‘अपुब्बस्स अञ्ञस्स अविज्जापच्चयस्स वत्तब्बस्स अभावतो भवमूलकनयो न वुत्तो’’ति वुत्तं, एवं सति ‘‘छट्ठायतनपच्चया अविज्जा’’तिआदिका छट्ठायतनादिमूलका च न वत्तब्बा सियुं. ‘‘नामपच्चया अविज्जा’’ति एत्थ हि अविज्जापच्चया सब्बे चत्तारो खन्धा नामन्ति वुत्ताति. तत्थायं अधिप्पायो सिया – नामविसेसानं छट्ठायतनादीनं अविज्जाय पच्चयभावो वत्तब्बोति छट्ठायतनादिमूलका वुत्ता. यदेव पन नामं अविज्जाय पच्चयो, तदेव भवपच्चया अविज्जाति एत्थापि वुच्चेय्य, न वत्तब्बविसेसो कोचि, तस्मा अपुब्बाभावतो न वुत्तोति. भवग्गहणेन च इध अविज्जाय पच्चयभूता सभावधम्मा गण्हेय्यंउ, न जातिआदीनीति अपुब्बाभावतो न वुत्तोति दट्ठब्बो. ‘‘अविज्जापच्चया अविज्जातिपि वुत्तं सिया’’ति वुत्तं, यथा पन ‘‘नामपच्चया फस्सो’’ति वुत्ते ‘‘फस्सपच्चया फस्सो’’ति वुत्तं न होति पच्चयुप्पन्नं ठपेत्वा पच्चयस्स गहणतो, एवमिधापि न सिया, तस्मा भवनवसेन सभावधम्मासभावधम्मेसु सामञ्ञेन पवत्तो भव-सद्दोति न सो अविज्जाय पच्चयोति सक्का वत्तुं. तेन भवमूलकनयो न वुत्तोति वेदितब्बो.

‘‘उपादानपच्चया भवो’’ति एत्थ विय भवेकदेसे विसुं पुब्बे अग्गहिते भव-सद्दो पच्चयसोधनत्थं आदितो वुच्चमानो निरवसेसबोधको होति, न नाम-सद्दो. एवंसभावा हि एता निरुत्तियोति इमिनावा अधिप्पायेन ‘‘अविज्जापच्चया अविज्जातिपि वुत्तं सिया’’ति आहाति दट्ठब्बं, इमिनाव अधिप्पायेन ‘‘भवस्स निप्पदेसत्ता भवपच्चयापि उपादानन्ति न वुत्त’’न्ति अयमत्थो अञ्ञमञ्ञपच्चयवारे वुत्तोति दट्ठब्बो. तत्थ पच्छिन्नत्ताति एतेन जातिजरामरणानं अविज्जाय पच्चयभावो अनुञ्ञातो विय होति. जायमानानं पन जाति, न जातिया जायमाना, जीयमानमीयमानञ्च जरामरणं, न जरामरणस्स जीयमानमीयमानाति जातिआदीनि एकचित्तक्खणे न अविज्जाय पच्चयो होन्ति, तस्मा असम्भवतो एव तम्मूलका नया न गहिता, पच्छेदोपि पन अत्थीति ‘‘तत्थ पच्छिन्नत्ता’’ति वुत्तन्ति दट्ठब्बं. तेनेव ‘‘अपिचा’’तिआदिमाह.

मातिकावण्णना निट्ठिता.

अकुसलनिद्देसवण्णना

२४८-२४९. उपादानस्स उपादानपच्चयत्तं आपज्जेय्याति ननु नायं दोसो. कामुपादानञ्हि दिट्ठुपादानस्स, तञ्च इतरस्स पच्चयो होतीति? सच्चं, कामुपादानस्स पन तण्हागहणेन गहितत्ता नामे विय विसेसपच्चयत्ताभावा च उपादानग्गहणेन तण्हापच्चया भवस्स च पच्चयभूता दिट्ठि एव गहिताति अयं दोसो वुत्तोति दट्ठब्बो. यस्मा च उपादानट्ठाने पच्चयुप्पन्नं पच्चयो च एकमेव, तस्मा ‘‘नामपच्चया फस्सो, नामरूपपच्चया सळायतन’’न्ति एतेसं निद्देसेसु विय ‘‘उपादानपच्चया भवो’’ति एतस्स निद्देसे पच्चयो विसुं न विभत्तो. सतिपि वा भवस्स पच्चयभावेन कामुपादानस्सपि गहणे ‘‘ठपेत्वा उपादान’’न्ति अवुच्चमाने कामुपादानं कामुपादानस्स, दिट्ठि च दिट्ठिया पच्चयोति आपज्जेय्याति पच्चयपच्चयुप्पन्नतानिवारणत्थं ‘‘ठपेत्वा उपादान’’न्ति वुत्तन्ति दस्सेति.

२५२. चक्खायतनादिउपत्थम्भकस्स चित्तसमुट्ठानरूपस्स जनकं विञ्ञाणं चक्खायतनुपचयादीनं पच्चयोति वुत्तं तदजनकम्पीति अधिप्पायेन ‘‘यस्स चित्तसमुट्ठानरूपस्सा’’तिआदिमाह. तासम्पि हीति उतुआहारजसन्ततीनम्पि हि उपत्थम्भकसमुट्ठापनपच्छाजातपच्चयवसेन विञ्ञाणं पच्चयो होति एवाति अत्थो.

२५४. यथानुरूपन्ति महाभूतसङ्खातं पञ्चन्नं सहजातादिपच्चयो, वत्थुसङ्खातं छट्ठस्स पुरेजातादिपच्चयो, नामं पञ्चन्नं पच्छाजातादिपच्चयो, छट्ठस्स सहजातादिपच्चयोति एसा यथानुरूपता.

२६४. यस्साति यस्स पच्चयुप्पन्नस्स नामस्स विञ्ञाणस्स सम्पयुत्तपच्चयभावो होतीति योजेतब्बं.

२७२. ‘‘फस्सपच्चयापि नाम’’न्ति फस्सपच्चयभावेन वत्तब्बस्सेव नामस्स अत्तनो पच्चयुप्पन्नेन पवत्ति दस्सिताति ‘‘ठपेत्वा फस्स’’न्ति पुन वचने कोचि अत्थो अत्थीति न वुत्तन्ति दस्सेन्तो ‘‘तथापी’’तिआदिमाह.

२८०. यस्मा अधिमोक्खोपि नत्थि, तस्मा उपादानट्ठानं परिहीनमेवाति सम्बन्धो. बलवकिलेसेन पन पदपूरणस्स कारणं तण्हाय अभावो दोमनस्ससहगतेसु वुत्तो एवाति तस्स तेन सम्बन्धो योजेतब्बो. सब्बत्थाति ततियचित्तादीसु ‘‘तण्हापच्चया अधिमोक्खो’’तिआदिम्हि विस्सज्जनमेव विसेसं दस्सेत्वा पाळि संखित्ता. हेट्ठाति चित्तुप्पादकण्डादीसु.

अकुसलनिद्देसवण्णना निट्ठिता.

कुसलाब्याकतनिद्देसवण्णना

२९२. पसादोति सद्धा.

३०६. ‘‘अलोभो निदानं कम्मानं समुदयाया’’तिआदिवचनतो (अ. नि. ३.३४) सब्यापारानि कुसलमूलानि सङ्खारानं निदानानि होन्ति, न कम्मवेगक्खित्तेसु विपाकेसु अलोभादिसहगतकम्मपटिबिम्बभूता विय पवत्तमाना अलोभादयोति पञ्चविञ्ञाणेसु विय निदानरहितता सोतपतितताति दट्ठब्बा. किरियधम्मा किरियमत्तत्ता कम्मनिदानरहिताइच्चेव परिहीनाविज्जाट्ठाना वेदितब्बा.

ततियचतुत्थवारा असम्भवतो एवाति कस्मा वुत्तं, किं चक्खुविञ्ञाणादीनि चक्खायतनुपचयादीनं पच्छाजातपच्चया न होन्तीति? होन्ति, तदुपत्थम्भकस्स पन चित्तसमुट्ठानस्स असमुट्ठापनं सन्धाय ‘‘असम्भवतो’’ति वुत्तन्ति दट्ठब्बं. सहजातपच्छाजातविञ्ञाणस्स पन वसेन तदापि विञ्ञाणपच्चया नामरूपं, पच्छाजातसहजातनामस्स सहजातपुरेजातभूतचक्खादिरूपस्स च वसेन नामरूपपच्चया सळायतनञ्च लब्भतीति ततियचतुत्थवारा न न सम्भवन्तीति.

कुसलाब्याकतनिद्देसवण्णना निट्ठिता.

अविज्जामूलककुसलनिद्देसवण्णना

३३४. सम्मोहवसेनाति कुसलफले अनिच्चादिताय सभये सादुरसविसरुक्खबीजसदिसे तंनिब्बत्तककुसले च अनादीनवदस्सितावसेन. समतिक्कमत्थं भावना समतिक्कमभावना, तदङ्गविक्खम्भनवसेन समतिक्कमभूता वा भावना समतिक्कमभावना.

तथा इध न लब्भन्तीति अविज्जाय एव सङ्खारानं अविगतादिपच्चयत्ताभावं सन्धाय वुत्तं, विञ्ञाणादीनं पन सङ्खारादयो अविगतादिपच्चया होन्तीति अविज्जापच्चया सङ्खारो, सङ्खारपच्चया विञ्ञाणं सङ्खारहेतुकन्तिआदिना योजना न न सक्का कातुन्ति अविगतचतुक्कादीनिपि न इध लब्भन्ति. विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामन्तिआदिना हि यथालाभयोजनाय नयो दस्सितोति.

अविज्जामूलककुसलनिद्देसवण्णना निट्ठिता.

कुसलमूलकविपाकनिद्देसवण्णना

३४३. ‘‘नानाक्खणिककम्मपच्चये पन वत्तब्बमेव नत्थी’’ति वुत्तं, किं कुसलमूलं अकुसलमूलञ्च कम्मपच्चयो होतीति? न होति, कम्मपच्चयभूताय पन चेतनाय संसट्ठं कम्मं विय पच्चयो होति. तेन एकीभावमिव गतत्ताति एवं वुत्तन्ति दट्ठब्बं. यथा कुसलाकुसलमूलेहि विना कम्मं विपाकं न जनेतीति तानि विपाकस्स परियायेन उपनिस्सयोति वुत्तानि, एवं कम्मेन एकीभूतानि संसट्ठानि हुत्वा कम्मजानं पच्चया होन्तीति परियायेन तेसं कम्मपच्चयता वुत्ता. एसाति एस कुसलमूलपच्चयो अकुसलमूलपच्चयो चाति योजेतब्बं.

कुसलाकुसलविपाकानं विय किरियानं उप्पादकानि अविज्जाकुसलाकुसलमूलानि च न होन्तीति आह ‘‘उपनिस्सयतं न लभन्ती’’ति. मनसिकारोपि जवनवीथिपटिपादकमत्तत्ता कुसलाकुसलानि विय अविज्जं उपनिस्सयं न करोति, अविज्जूपनिस्सयानं पन पवत्तिअत्थं भवङ्गावट्टनमत्तं होति, पहीनाविज्जानञ्च किरियानं अविज्जा नेवुप्पादिका, आरम्मणमत्तमेव पन होति. एवञ्च कत्वा ‘‘कुसलो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२३), ‘‘विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.३.१०३) च एवमादीसु किरियानं अकुसला उपनिस्सयपच्चयभावेन न उद्धटाति. अपिच ‘‘अविज्जापच्चया सङ्खारा’’ति एतस्स वसेन अविज्जामूलको कुसलनयो वुत्तो, ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति एतस्स वसेन कुसलाकुसलमूलको विपाकनयो, किरियानं पन नेव सङ्खारग्गहणेन, न च विञ्ञाणग्गहणेन गहणं गच्छतीति तंमूलको किरियानयो न लब्भतीति न वुत्तोति दट्ठब्बो.

अनेकभेदतोति अविज्जादीनं मूलपदानं एकचित्तक्खणिकानं किरियन्ते पठमनये सहजातादिअनेकपच्चयभावेन गहितत्ता तेसं पच्चयानं वसेन नवादिमूलपदानं नयानं वसेन, अनेकप्पकारतो चतुन्नं चतुक्कानं वसेनाति वा अधिप्पायो. कुसलाकुसलानं पन विपाके चाति एत्थ कुसलाकुसलेसु कुसलाकुसलानं विपाके चाति वत्तब्बं. पुरिमपच्छिमेसु हि नयेसु यथा पच्चयाकारो वुत्तो, तंदस्सनत्थं ‘‘अनेकभेदतो एकधावा’’ति वुत्तं, न च पच्छिमनये कुसले अनेकभेदतो पच्चयाकारो वुत्तो, अथ खो ‘‘एकधावा’’ति. एकधावाति च मूलपदेकपच्चयतावसेन, एकस्सेव वा नयस्स वसेन एकप्पकारेनाति अत्थो, पठमचतुक्कस्सेव वसेनाति वा अधिप्पायो. धम्मपच्चयभेदेति अविज्जादीनं धम्मानं पच्चयभावभेदे जरामरणादीनं धम्मानं जातिआदिपच्चयभेदे, तंतंचित्तुप्पादसमयपरिच्छिन्नानं वा फस्सादीनं धम्मानं एकक्खणिकाविज्जादिपच्चयभेदे. परियत्तिआदीनं कमो परियत्ति…पे… पटिपत्तिक्कमो. पच्चयाकारे हि पाळिपरियापुणनतदत्थसवनपाळिअत्थचिन्तनानि ‘‘जरामरणं अनिच्चं सङ्खतं…पे… निरोधधम्म’’न्तिआदिना भावनापटिपत्ति च कमेन कातब्बाति कम-ग्गहणं करोति. ततोति ञाणप्पभेदजनकतो कमतो. अञ्ञं करणीयतरं नत्थि. तदायत्ता हि दुक्खन्तकिरियाति.

कुसलमूलकविपाकनिद्देसवण्णना निट्ठिता.

अभिधम्मभाजनीयवण्णना निट्ठिता.

पटिच्चसमुप्पादविभङ्गवण्णना निट्ठिता.