२. पञ्हपुच्छकवण्णना

२२३. इध अनाभट्ठन्ति एकन्तानारम्मणत्तेन भासितं. ‘‘रूपमिस्सकत्ता अनारम्मणेसु रूपधम्मेसु सङ्गहित’’न्ति कस्मा वुत्तं, ननु मिस्सकत्ता एव जीवितिन्द्रियं अनारम्मणेसु असङ्गहितं. न हि अट्ठिन्द्रिया अनारम्मणाति वुत्ताति? सच्चमेतं, जीवितिन्द्रियएकदेसस्स पन अनारम्मणेसु रूपधम्मेसु सङ्गहिततं सन्धायेतं वुत्तं, अरूपकोट्ठासेन परित्तारम्मणादिता अत्थीति सियापक्खे सङ्गहितन्ति अधिप्पायो. अरूपकोट्ठासेन पन परित्तारम्मणादिता, रूपकोट्ठासेन च नवत्तब्बता अत्थीति मिस्सकस्स समुदायस्सेव वसेन सियापक्खे सङ्गहितं, न एकदेसवसेनाति दट्ठब्बं. न हि अनारम्मणं परित्तारम्मणादिभावेन नवत्तब्बं न होतीति. ‘‘रूपञ्च निब्बानञ्च अनारम्मणा, सत्तिन्द्रिया अनारम्मणा’’तिआदिवचनञ्च अविज्जमानारम्मणानारम्मणेसु नवत्तब्बेसु अनारम्मणत्ता नवत्तब्बतं दस्सेति, न सारम्मणस्सेव नवत्तब्बतं, नवत्तब्बस्स वा सारम्मणतं. न हि नवत्तब्ब-सद्दो सारम्मणे निरुळ्हो. यदिपि सिया, ‘‘तिस्सो च वेदना रूपञ्च निब्बानञ्च इमे धम्मा नवत्तब्बा सुखाय वेदनाय सम्पयुत्ता’’तिआदि न वुच्चेय्य, अथापि परित्तारम्मणादिसम्बन्धो नवत्तब्ब-सद्दो सारम्मणेस्वेव वत्तति, ‘‘द्वायतना सिया परित्तारम्मणा’’तिआदिं अवत्वा ‘‘मनायतनं सिया परित्तारम्मणं…पे… अप्पमाणारम्मण’’न्तिपि, ‘‘धम्मायतनं सिया परित्तारम्मणं…पे… अप्पमाणारम्मण’’न्तिपि, ‘‘सिया अनारम्मण’’न्तिपि वत्तब्बं सिया. न हि पञ्हपुच्छके सावसेसा देसना अत्थीति. ‘‘अट्ठिन्द्रिया सिया अज्झत्तारम्मणा’’ति एत्थ च जीवितिन्द्रियस्स आकिञ्चञ्ञायतनकाले अरूपस्स रूपस्स च अनारम्मणत्ता नवत्तब्बता वेदितब्बा.

पञ्हपुच्छकवण्णना निट्ठिता.

इन्द्रियविभङ्गवण्णना निट्ठिता.