२. समुदयसच्चनिद्देसवण्णना

२०३. उत्तरपदलोपं कत्वा ‘‘पुनब्भवकरणं पुनोब्भवो’’तिआह. ‘‘मनोसम्फस्सो’’ति एत्थ मनो विय च पुरिमपदस्स ओकारन्तता दट्ठब्बा. अथ वा सीलट्ठेन इक-सद्देन गमियत्थत्ता किरियावाचकस्स सद्दस्स अदस्सनं दट्ठब्बं यथा ‘‘अपूपभक्खनसीलो आपूपिको’’ति. ‘‘तद्धिता’’इति बहुवचननिद्देसा विचित्तत्ता वा तद्धितानं अभिधानलक्खणत्ता वा ‘‘पुनब्भवं देती’’तिआदीसु अत्थेसु पोनोब्भविकसद्दसिद्धि दट्ठब्बा. तत्थ कम्मसहजाता पुनब्भवं देति, कम्मसहायभूता तदसहजाता पुनब्भवाय संवत्तति, दुविधापि पुनप्पुनं भवे निब्बत्तेति. तेनेवाह ‘‘पुनब्भवस्स दायिकापी’’तिआदि. पोनोब्भविकायेवाति नामं लभतीति पुनब्भवं दायिकापि अदायिकापि पुनब्भवं देतिच्चेव पोनोब्भविकाति समानविपाकाति नामं लभति समानसभावत्ता तदानुभावत्ता च. एवं इतरेसु दट्ठब्बं. तत्थ उपधिम्हि यथानिब्बत्ते अत्तभावे विपच्चनकम्मं एतिस्साति उपधिवेपक्का. नन्दनट्ठेन नन्दी, रञ्जनट्ठेन रागो. यो च नन्दिरागो, या च तण्हा, उभयमेतं एकत्थं, ब्यञ्जनमेव नानन्ति तण्हा ‘‘नन्दिरागेन सद्धिं अत्थतो एकत्तं गता’’ति वुत्ता. रागसम्बन्धेन ‘‘उप्पन्नस्सा’’ति वुत्तं. रूपारूपभवरागो विसुं वक्खतीति कामभवे एव भवपत्थनाउप्पत्ति वुत्ताति वेदितब्बा.

तस्मिं तस्मिं पियरूपे पठमुप्पत्तिवसेन ‘‘उप्पज्जती’’ति वुत्ता, पुनप्पुनं पवत्तिवसेन ‘‘निविसती’’ति, परियुट्ठानानुसयवसेन वा उप्पत्तिनिवेसा योजेतब्बा. सम्पत्तियन्ति मनुस्ससोभग्गे देवत्ते च. अत्तनो चक्खुन्ति सवत्थुकं चक्खुमाह, सपसादं वा मंसपिण्डं. विप्पसन्नपञ्चपसादन्ति परिसुद्धनीलपीतलोहितकण्हओदातवण्णपसादं. रजतपनाळिकं विय छिद्दं अब्भन्तरे ओदातत्ता. पामङ्गसुत्तं विय लम्बकण्णबद्धं. तुङ्गा उच्चा दीघा नासिका तुङ्गनासिका, एवं लद्धवोहारं अत्तनो घानं. ‘‘लद्धवोहारा’’ति वा पाठो. तस्मिं सति तुङ्गा नासिका येसं, ते तुङ्गनासिका. एवं लद्धवोहारा सत्ता अत्तनो घानन्ति योजना कातब्बा. जिव्हं…पे… मञ्ञन्ति वण्णा सण्ठानतो किच्चतो च. मनं…पे… उळारं मञ्ञन्ति अतीतादिअत्थविचिननसमत्थं. अत्तना पटिलद्धानीति अज्झत्तञ्च सरीरगन्धादीनि बहिद्धा च विलेपनगन्धादीनि. उप्पज्जमाना उप्पज्जतीति यदा उप्पज्जमाना होति, तदा एत्थ उप्पज्जतीति सामञ्ञेन गहिता उप्पादकिरिया लक्खणभावेन वुत्ता, विसयविसिट्ठा लक्खितब्बभावेन. न हि सामञ्ञविसेसेहि नानत्तवोहारो न होतीति. उप्पज्जमानाति वा अनिच्छितो उप्पादो हेतुभावेन वुत्तो. उप्पज्जतीति निच्छितो फलभावेन ‘‘यदि उप्पज्जमाना होति, एत्थ उप्पज्जती’’ति. सो हि तेन उपयोजितो विय होति.

समुदयसच्चनिद्देसवण्णना निट्ठिता.