२. अभिधम्मभाजनीयवण्णना
१६७. नामरूपपरिच्छेदकथा अभिधम्मकथाति सुत्तन्ते विय पच्चययुगळवसेन अकथेत्वा अज्झत्तिकबाहिरवसेन अभिञ्ञेय्यानि आयतनानि अब्बोकारतो अभिधम्मभाजनीये कथितानि. आगम्माति सब्बसङ्खारेहि निब्बिन्दस्स विसङ्खारनिन्नस्स गोत्रभुना विवट्टितमानसस्स मग्गेन सच्छिकरणेनाति अत्थो. सच्छिकिरियमानञ्हि तं अधिगन्त्वा आरम्मणपच्चयभूतञ्च पटिच्च अधिपतिपच्चयभूते च तम्हि परमस्सासभावेन विनिमुत्तसङ्खारस्स च गतिभावेन पतिट्ठानभूते पतिट्ठाय खयसङ्खातो मग्गो रागादयो खेपेतीति तंसच्छिकरणाभावे रागादीनं अनुप्पत्तिनिरोधगमनाभावा ‘‘तं आगम्म रागादयो खीयन्ती’’ति वुत्तं. सुत्ततो मुञ्चित्वाति सुत्तपदानि मुञ्चित्वा. अञ्ञो सुत्तस्स अत्थो ‘‘मातरं पितरं हन्त्वा’’तिआदीसु (ध. प. २९४-२९५) विय आहरितब्बो, नत्थि सुत्तपदेहेव नीतो अत्थोति अत्थो.
एकं नानन्ति चुण्णितं खुद्दकं वा करणं, चुण्णीकरणन्ति अबहुमानेन वदति. न त्वं एकं नानं जानासीति किं एत्तकं त्वमेव न जानासीति अत्थो. ननु ञातेति ‘‘यदिपि पुब्बे न ञातं, अधुनापि ञाते ननु साधु होती’’ति अत्तनो जाननं पटिच्छादेत्वा विक्खेपं करोन्तं निबन्धति. विभजित्वाति अक्खरत्थमत्ते अट्ठत्वा लीनं अत्थं विभजित्वा उद्धरित्वा नीहरित्वा कथितन्ति अत्थो. रागादीनं खयो नाम अभावमत्तो, न च अभावस्स बहुभावो अत्थि अत्तनो अभावत्ताति वदन्तस्स वचनपच्छिन्दनत्थं पुच्छति ‘‘रागक्खयो नाम रागस्सेव खयो’’तिआदि. यदि हि रागक्खयो दोसादीनं खयो न होति, दोसक्खयादयो च रागादीनं खया, अञ्ञमञ्ञविसिट्ठा भिन्ना आपन्ना होन्तीति बहुनिब्बानता आपन्ना एव होति, अञ्ञमञ्ञविसेसो च नाम निस्सभावस्स नत्थीति ससभावता च निब्बानस्स. नव तण्हामूलका ‘‘तण्हं पटिच्च परियेसना’’ति (दी. नि. २.१०३; ३.३५९; अ. नि. ९.२३; विभ. ९६३) आदयो, तेसु परियेसनादयो च परियेसनादिकरकिलेसा दट्ठब्बा. दियड्ढकिलेससहस्सं निदानकथायं वुत्तं.
ओळारिकताय कारेतब्बोति अतिसुखुमस्स निब्बानस्स ओळारिकभावदोसापत्तिया बोधेतब्बो, निग्गहेतब्बो वा. वत्थुन्ति उपादिन्नकफोट्ठब्बं मेथुनं. अच्छादीनम्पि निब्बानप्पत्ति कस्मा वुत्ता, ननु ‘‘किलेसानं अच्चन्तं अनुप्पत्तिनिरोधो निब्बान’’न्ति इच्छन्तस्स किलेसानं विनासो कञ्चि कालं अप्पवत्ति निब्बानं न होतीति? न, अभावसामञ्ञतो. अच्चन्तापवत्ति हि कञ्चि कालञ्च अप्पवत्ति अभावोयेवाति नत्थि विसेसो. सविसेसं वा वदन्तस्स अभावता आपज्जतीति. तिरच्छानगतेहिपि पापुणितब्बत्ता तेसम्पि पाकटं पिळन्धनं विय ओळारिकं थूलं. केवलं पन कण्णे पिळन्धितुं न सक्कोति, पिळन्धनतोपि वा थूलत्ता न सक्काति उप्पण्डेन्तो विय निग्गण्हाति.
निब्बानारम्मणकरणेन गोत्रभुक्खणे किलेसक्खयप्पत्ति पनस्स आपन्नाति मञ्ञमानो आह ‘‘त्वं अखीणेसुयेवा’’तिआदि. ननु आरम्मणकरणमत्तेन किलेसक्खयो अनुप्पत्तोति न सक्का वत्तुं. चित्तञ्हि अतीतानागतादिसब्बं आलम्बेति, न निप्फन्नमेवाति गोत्रभुपि मग्गेन किलेसानं या अनुप्पत्तिधम्मता कातब्बा, तं आरब्भ पवत्तिस्सतीति? न, अप्पत्तनिब्बानस्स निब्बानारम्मणञाणाभावतो. न हि अञ्ञधम्मा विय निब्बानं, तं पन अतिगम्भीरत्ता अप्पत्तेन आलम्बितुं न सक्का. तस्मा तेन गोत्रभुना पत्तब्बेन तिकालिकसभावातिक्कन्तगम्भीरभावेन भवितब्बं, किलेसक्खयमत्ततं वा इच्छतो गोत्रभुतो पुरेतरं निप्फन्नेन किलेसक्खयेन. तेनाह ‘‘त्वं अखीणेसुयेव किलेसेसु किलेसक्खयं निब्बानं पञ्ञपेसी’’ति. अप्पत्तकिलेसक्खयारम्मणकरणे हि सति गोत्रभुतो पुरेतरचित्तानिपि आलम्बेय्युन्ति.
मग्गस्स किलेसक्खयं निब्बानन्ति मग्गस्स आरम्मणभूतं निब्बानं कतमन्ति अत्थो. मग्गोतिआदिना पुरिमपुच्छाद्वयमेव विवरति.
न च किञ्चीति रूपादीसु निब्बानं किञ्चि न होति, न च कदाचि होति, अतीतादिभावेन न वत्तब्बन्ति वदन्ति, तं आगम्म अविज्जातण्हानं किञ्चि एकदेसमत्तम्पि न होति, तदेव तं आगम्म कदाचि न च होतीति अत्थो युत्तो.
अभिधम्मभाजनीयवण्णना निट्ठिता.