२. अभिधम्मभाजनीयवण्णना
२४३. तं पटिच्चसमुप्पादं. एकेकचित्तावरुद्धन्ति अभिधम्मभाजनीये विय एकेकस्मिं चित्ते अवरुद्धं अन्तोगधं अकत्वा. असहजातानञ्च ‘‘असहजातानं, सहजातानञ्चा’’ति एवं पठमपदे एकसेसनिद्देसो दट्ठब्बो. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति असहजातायेव पच्चयपच्चयुप्पन्ना दस्सिता विपाकविञ्ञाणस्सेव अधिप्पेतत्ता. ‘‘अविज्जापच्चया सङ्खारा, विञ्ञाणपच्चया नामरूप’’न्ति (विभ. २२५) च एवमादीसु असहजाता, सहजाता च. ‘‘एकेकेन नयेना’’ति पुरातनो पाठो, एतरहि पन ‘‘एकेकेन चतुक्केन’’ इच्चेव बहूसु पोत्थकेसु पाठो. नयचतुक्कवाराति नयेसु चतुक्कानं वारा, अविज्जामूलकादीसु नवसु नयेसु पच्चेकं पच्चयचतुक्कादीनं चतुन्नं चतुक्कानं ‘‘नामपच्चया छट्ठायतन’’न्तिआदिविसेसभिन्ना चत्तारो वाराति अत्थो. ववत्थिताति यथावुत्तविसेसेन असंकिण्णा. चतुक्कानन्ति वारचतुक्कानं वारसोळसकस्स नयभावतोति अधिप्पायो.
१. पच्चयचतुक्कवण्णना
पच्चयसहितपच्चयुप्पन्नानि अङ्गभावेन वुत्तानि, न केवलं पच्चया. तस्मा ‘‘छट्ठायतनपच्चया फस्सो’’ति एत्थ न छट्ठायतनस्स अङ्गता. तेन वुत्तं ‘‘न, तस्स अनङ्गत्ता’’ति. एवञ्च कत्वाति पच्चयसहितस्स पच्चयुप्पन्नस्स अङ्गभावतो. तीसु पकारेसूति ‘‘पठमो सब्बसङ्गाहिकट्ठेना’’तिआदिना (विभ. अट्ठ. २४३) अट्ठकथायं वुत्तेसु तीसुपि पकारेसु. पच्चयविसेसादीति एत्थ नामं, छट्ठायतनञ्च पच्चयविसेसो. आदि-सद्देन योनिविसेसो, आयतनानं अपारिपूरिपारिपूरिभवविसेसो च गहितो. ते हि दुतियवारादीनं नानत्तकरा. अत्थविसेसेनाति यदिपि अञ्ञत्थ ‘‘सळायतनपच्चया फस्सो’’ति सळायतनपच्चयो वुत्तो, तथापि सहजातादिनामसन्निस्सयेन पवत्तनतो नाममत्तपच्चयापि सो होतीति पटिच्चसमुप्पादस्स नानानयविचित्ततानुमितस्स गम्भीरभावस्स विभावनसङ्खातेन, अनवसेसनामपच्चयदस्सनसङ्खातेन च अत्थविसेसेन. तथा हि ‘‘येहि, आनन्द, आकारेहि येहि लिङ्गेहि येहि निमित्तेहि येहि उद्देसेहि नामकायस्स पञ्ञत्ति होति, तेसु आकारेसु…पे… उद्देसेसु असति अपि नु खो रूपकाये अधिवचनसम्फस्सो पञ्ञायेथा’’ति (दी. नि. २.११४) फस्सस्स नामपच्चयताविभावनवसेन महानिदानदेसना पवत्ता. तथा ‘‘नामरूपपच्चया फस्सोति इच्चस्स वचनीय’’न्ति (दी. नि. २.९७) ‘‘नामरूपपच्चया’’ति वदन्तेन ‘‘नामपच्चया’’तिपि वुत्तमेव होतीति.
वारचतुक्के ‘‘सङ्खारो’’ति वुत्तं, सोकादयो न वुत्ता, पुरिमस्मिं वारद्वये रूपं न वुत्तं, वारत्तये सळायतनं न वुत्तन्ति योजेतब्बं.
सब्ब…पे… रणतोति सब्बस्स विञ्ञाणस्स पवत्तिट्ठानभूतसब्बभवसाधारणतो, विञ्ञाणस्स वा पवत्तिट्ठानभूतसब्बभवसाधारणतो. समानं फलं समानो पच्चयो सहजातादिपच्चयेहि उपकत्तब्बतो, उपकारकतो च. तस्स विञ्ञाणस्स. विञ्ञाणाहरणन्ति विपाकविञ्ञाणनिब्बत्तनं. अस्स विञ्ञाणस्स.
गतिसूचकोति हि-सद्दं लोके गतिअत्थं वदन्तीति कत्वा वुत्तं. ‘‘विगत’’न्ति एत्थ वि-सद्दो पटिसेधदीपकोति द्वे पटिसेधा पकतिं ञापेन्तीति आह ‘‘विगततानिवारणवसेन गति एव होती’’ति.
तिधा चतुधा पञ्चधा वाति एत्थ सञ्ञामनसिकारादयो सहजातनिस्सयअत्थिपच्चयवसेन तिधा, फस्सचेतनादयो तेसञ्चेव आहारादीनञ्च वसेन चतुधा, वेदनावितक्कादयो तेसञ्चेव झानिन्द्रियादीनञ्च वसेन पञ्चधा. यथा समाधि, एवं वीरियम्पि दट्ठब्बं. तम्पि हि अधिपतिन्द्रियमग्गपच्चयेहि छधा पच्चयो होति.
‘‘वचनवसेना’’ति इमिना इमस्मिं चतुक्के सहजातपच्चयं धुरं कत्वा देसना पवत्ताति तेसं अधिप्पायोति दस्सेति. अत्थोति पच्चयधम्मो. कत्थचीति किस्मिञ्चि वारे अत्तनो पच्चयुप्पन्नस्स यथासकेहि पच्चयो न न होति. ‘‘अत्थतो’’ति च पाठो. ‘‘भवपच्चया जाती’’तिआदि न वत्तब्बं सिया, वुत्तञ्च तं. तस्मा सहजातपच्चयवसेनेव पठमचतुक्को वुत्तोति न गहेतब्बन्ति दस्सेति. तेनाह ‘‘न च तं न वुत्त’’न्तिआदि. इमस्स च ‘‘भवपच्चया जातीतिआदि न वत्तब्बं सिया’’ति इमिना सम्बन्धो वेदितब्बो. पच्चयवचनमेवाति ‘‘अविज्जापच्चया’’तिआदीसु वुत्तपच्चयवचनमेव च. तेसन्ति तेसं आचरियानं. अयोजेत्वा वुत्तन्ति सम्बन्धो. कथं पन वुत्तन्ति आह ‘‘सामञ्ञेन…पे… सन्धाय वुत्त’’न्ति. एत्थ च ‘‘सहजातसूचक’’न्तिआदिना यथाधिप्पेतस्स अत्थस्स वचनतो असिद्धिमाह, ‘‘सहजाततो’’तिआदिना पन अत्थापत्तितो. असम्भवे हि अञ्ञस्स अत्थतो सिज्झेय्य वचनतो वा अत्थतो वा अधिप्पेतत्थसाधनाति.
अञ्ञत्थाति अञ्ञस्मिं सुत्ते. अतीतद्धं निद्धारेत्वा पच्चुप्पन्नानागतेहि सद्धिं अद्धत्तयदस्सनत्थं. तंदेसनापरिग्गहत्थन्ति महानिदानदेसनापरिग्गहत्थं. सो च उभिन्नं देसनानं अञ्ञमञ्ञं संसन्दनभावदस्सनत्थं. एवं सब्बञ्ञुबुद्धभासिता देसना अञ्ञदत्थु संसन्दतीति.
इमस्साति इमस्स ततियवारस्स.
अपरापेक्खताय, अपरिकिलिट्ठुपपत्तिताय, असुचिअमक्खितताय कामावचरदेवानं, सब्बेसञ्च ब्रह्मानं तथा उपपज्जनतो च ओपपातिकयोनिया पधानता वेदितब्बा. सङ्गहनिदस्सनवसेनाति ओपपातिकयोनिया एव संसेदजयोनिया सङ्गहस्स निदस्सनवसेन उदाहरणवसेन. आरम्मणपच्चयस्सापि फस्सस्स सतिपि पवत्तिहेतुभावे सो पन सहजातादिपच्चयभूतस्स अज्झत्तिकस्स छट्ठायतनस्स विय न सातिसयोति वुत्तं ‘‘आरम्मणपच्चयो चेत्थ पवत्तको न होती’’ति.
केसञ्चीति परिपुण्णायतनानं गब्भसेय्यकानं. ‘‘पच्छिम…पे… सदा सम्भवती’’ति इदं गब्भसेय्यकानं विय इतरयोनिकानं कमेन आयतनुप्पत्ति नत्थीति वुत्तं. तथा चाह अट्ठकथायं ‘‘सहुप्पत्तिदीपनतो’’ति.
पच्चयचतुक्कवण्णना निट्ठिता.
२. हेतुचतुक्कवण्णना
२४४. अभावतोति भावाभावतो. यञ्हि जातिक्खणमत्तेयेव भवति, न ततो परं, तं जातिया अविगतपच्चयो सिया अविगतपच्चयनियमसब्भावतो. भवो पन यस्मा जातिक्खणतो परम्पि भवति, तस्मा न सो तस्सा अविगतपच्चयो होति. तेन वुत्तं ‘‘ततो उद्धं भावतोति अत्थो’’ति. भवेति भवपदे, भवे वा निप्फादेतब्बे. एस नयो जातिआदीसूति एत्थापि. ‘‘यथा पना’’तिआदिना ‘‘अविगतपच्चयस्स अभावतो, नियमाभावतो चा’’ति वुत्तानं हेतूनं वुत्तनयेन अब्यापिभावविभावनेन अकारणतं दस्सेति अयावभाविनो पच्चयुप्पन्नस्स, पच्चयधम्मस्स च अविगतपच्चयभावदस्सनतो. सङ्खारक्खन्धेतिआदि मग्गसोधनवसेन वुत्तं. तस्स परिहारं सयमेव वदति. सो खणो एतस्स अत्थीति तङ्खणिको, न तङ्खणिको अतङ्खणिको, तस्स सब्भावा, अयावभाविकसब्भावाति अत्थो. यथा पन हेतू होन्ति, तं दस्सेतुं ‘‘सङ्खतलक्खणानं पना’’तिआदिमाह.
एवन्ति एवं यथावुत्तनये सति, एवं सन्तेति अत्थो. ‘‘न हि…पे… अत्थी’’ति इमिना जातिआदीनं अविगतपच्चयवसेन पच्चयुप्पन्नभावो विय पच्चयभावोपि नत्थीति दस्सेति. तत्थ कारणमाह ‘‘असभावधम्मत्ता’’ति.
कथं पन असभावधम्मानं जातिआदीनं पच्चयुप्पन्नता, पच्चयता चाति आह ‘‘जायमानानं पना’’तिआदि. तस्साति जातिजरामरणस्स. वत्तब्बपदेसोति ‘‘ठपेत्वा’’ति वत्तब्बपदेसो. को पन सोति? यथावुत्तं नामं, नामरूपञ्च सङ्खारक्खन्धेन रूपक्खन्धेन च जरामरणानं सङ्गहितत्ता. ‘‘यो भवो जातिया पच्चयो’’ति एतेन भवसङ्गहितानिपि जातिआदीनि जातिया अप्पच्चयत्ता एव ‘‘ठपेत्वा’’ति न वुत्तानीति दस्सेति, पच्चयभावासङ्का एव नेसं तस्सा नत्थीति अधिप्पायो. तेनेव ठपेतब्बगहेतब्बविसेसे सतीति सासङ्कं वदति.
हेतुचतुक्कवण्णना निट्ठिता.
४. अञ्ञमञ्ञचतुक्कवण्णना
२४६. पच्चयुप्पन्नस्साति पच्चयुप्पन्नभाविनो. विसुं ठितस्साति भवेन असङ्गहितस्स. सप्पदेसमेव गहितं इध वेदनादिक्खन्धत्तयस्सेव अधिप्पेतत्ता निरुळ्हत्ता च. पच्चयुप्पन्नं ठपेत्वा पच्चयभूतंयेव नामं गहितं, अविगतपच्चयनियमाभावो विय भवे उपादानस्स अञ्ञमञ्ञपच्चयनियमाभावोति योजना. वुत्तनयेनाति ‘‘सङ्खतलक्खणानं पना’’तिआदिना वुत्तनयेन.
अञ्ञमञ्ञपच्चयो विय अञ्ञमञ्ञपच्चयोति अयमत्थो इधाधिप्पेतोति दस्सेन्तो ‘‘अञ्ञमञ्ञ…पे… अधिप्पेतो सिया’’ति आह. तथा च वदन्ति ‘‘अञ्ञमञ्ञञ्चेत्थ न पट्ठाने आगतअञ्ञमञ्ञवसेन गहेतब्ब’’न्ति. चक्खायतनुपचयादीनन्ति उपरूपरि चितानि विय उप्पन्नचक्खायतनादीनि, चक्खायतनादीनं वा उपत्थम्भकानि चक्खायतनुपचयादीनि.
अञ्ञमञ्ञचतुक्कवण्णना निट्ठिता.
सङ्खारादिमूलकनयमातिकावण्णना
२४७. यदिपि सामञ्ञतो गतविसेसो, तथापि सामञ्ञग्गहणेन नयगतो विसेसो सरूपतो दस्सितो होतीति ‘‘नामपच्चया अविज्जा’’ति वत्वापि नामविसेसानं तस्सा पच्चयभावो दस्सेतब्बोति आह ‘‘नामविसेसानं…पे… वुत्ता’’ति. ‘‘यदेव पन नाम’’न्तिआदि कस्मा वुत्तं, ननु नामग्गहणेन अग्गहितोपि जातिआदि भवग्गहणेन गहितोति दस्सितोवायमत्थोति चोदनं सन्धायाह ‘‘भवग्गहणेन चा’’तिआदि. इधापीति ‘‘भवपच्चया अविज्जा’’ति इधापि. न सियाति ‘‘अविज्जापच्चया अविज्जा’’ति वुत्तं न सिया. तस्माति यस्मा सामञ्ञचोदितं विसेसचोदितमेव न होति, तस्मा. सोति भवो. तेनाति सभावासभावधम्मसङ्गहणेन.
उपादानस्सपि भवेकदेसत्ता वुत्तं ‘‘उपादानपच्चया…पे… अग्गहिते’’ति. ‘‘भवपच्चया जाती’’ति इदं वचनं सन्धायाह ‘‘भवसद्दो…पे… वुच्चमानो’’ति. ‘‘नामपच्चया अविज्जा’’ति एत्थ पच्चयुप्पन्नं ठपेत्वा पच्चयस्स गहणतो अविज्जाविनिमुत्ता एव चत्तारो खन्धा नामसद्देन वुच्चन्तीति आह ‘‘न नामसद्दो निरवसेसबोधको’’ति. न चेत्थ एकंसतो कारणं मग्गितब्बं. येन भव-सद्दो निरवसेसबोधको, न नाम-सद्दोति आह ‘‘एवंसभावा हि एता निरुत्तियो’’ति. इमिना अधिप्पायेनाति भवसद्दो निरवसेसबोधको उपादिन्नचतुक्खन्धविसयत्ताति इमिना अधिप्पायेन. जायमानादिधम्मविकारभावतो जायमानादिक्खन्धपटिबद्धा जातिआदयो वुच्चेय्युं, न पन जातिआदिपटिबद्धा जायमानादिक्खन्धाति न एकचित्तक्खणे जातिआदीनं अविज्जाय पच्चयभावो सम्भवतीति इममत्थमाह ‘‘जायमानानं पना’’तिआदिना. नानाचित्तक्खणे पन जातिआदयो अविज्जाय उपनिस्सयपच्चयो होन्तीति ‘‘एकचित्तक्खणे’’ति विसेसितं. तेनेवाति असम्भवेनेव.
मातिकावण्णना निट्ठिता.
अकुसलनिद्देसवण्णना
२४८-९. तन्ति दिट्ठुपादानं. इतरस्साति कामुपादानस्स. तण्हागहणेनाति ‘‘तण्हापच्चया’’ति एत्थ तण्हागहणेन गहितत्ता. यदि एवं नामग्गहणेन गहिता तण्हा कस्मा पुन वुत्ताति आह ‘‘नामे विय विसेसपच्चयत्ताभावा’’ति. ‘‘नामपच्चया छट्ठायतन’’न्ति एत्थ हि कामतण्हापि नामे सङ्गहिताति नामस्स यथारहं छट्ठायतनस्स पच्चयभावो वुत्तोति अत्थि तत्थ विसेसपच्चयत्तं, उपादानस्स पन भवसङ्गहोपि अत्थीति ‘‘तण्हापच्चया उपादान’’न्ति एतेन ‘‘कामुपादानपच्चया भवो’’ति एतस्स नत्थेव विसेसोति वुत्तं ‘‘नामे विय विसेसपच्चयत्ताभावा’’ति. तण्हा एतिस्सा पच्चयोति तण्हापच्चया, दिट्ठि. भवस्स पच्चयभूताति दुविधस्सपि भवस्स कारणभूता. उभयेनपि उपादानस्स भवनिद्देसे ठपेतब्बतंयेव विभावेति. पच्चयुप्पन्नं पच्चयो च एकमेवाति ‘‘तण्हापच्चया उपादान’’न्ति एत्थ वुत्तपच्चयुप्पन्नं, ‘‘उपादानपच्चया भवो’’ति एत्थ वुत्तपच्चयो च एको एवत्थो, तस्मा पच्चयो विसुं पच्चयुप्पन्नतो भिन्नं कत्वा न विभत्तो.
२५२. उपत्थम्भकसमुट्ठापनपच्छाजातपच्चयवसेनाति उपत्थम्भकस्स चित्तसमुट्ठानरूपस्स समुट्ठापनवसेन, पच्छाजातपच्चयवसेन च.
२५४. पञ्चन्नन्ति चक्खायतनादीनं पञ्चन्नं. सहजातादिपच्चयोति सहजातनिस्सयअत्थिअविगतादिपच्चयो. वत्थुसङ्खातं रूपं. पुरेजातादिपच्चयोति पुरेजातनिस्सयविप्पयुत्तअत्थिअविगतपच्चयो. पच्छाजातादिपच्चयोति पच्छाजातविप्पयुत्तअत्थिअविगतपच्चयो. छट्ठस्स सहजातादीति आदि-सद्देन अञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतादयो गहिता.
२६४. यस्साति ‘‘यस्स च होती’’ति एत्थ वुत्तं ‘‘यस्सा’’ति पदं सन्धाय वुत्तं. तेनाह ‘‘होतीति योजेतब्ब’’न्ति.
२८०. तस्साति ‘‘बलवकिलेसभूताय विचिकिच्छाया’’ति (विभ. अट्ठ. २८०) पदस्स. तेनाति ‘‘तण्हाट्ठाने’’ति पदेन. चित्तुप्पादकण्डादीसूति आदि-सद्देन इमस्मिं पटिच्चसमुप्पादविभङ्गे सुत्तन्तभाजनीयादिं सङ्गण्हाति.
अकुसलनिद्देसवण्णना निट्ठिता.
कुसलाब्याकतनिद्देसवण्णना
३०६. सब्यापारानीति सउस्साहानि, विपाकधम्मानीति अत्थो. परिहीनं अविज्जाट्ठानं एतेसन्ति परिहीनाविज्जाट्ठाना.
सन्धायाति अधिप्पायं विभावेन्तो विय वदति, सरूपेनेव पन ‘‘न च चक्खुविञ्ञाणादीनि रूपं समुट्ठापेन्ती’’ति (विभ. अट्ठ. ३०६) अट्ठकथायं वुत्तं. नामरूपं न न लब्भतीति योजना.
कुसलाब्याकतनिद्देसवण्णना निट्ठिता.
अविज्जामूलककुसलनिद्देसवण्णना
३३४. कुसलफलेति कुसलविपाकपटिसन्धिविञ्ञाणस्स गहितत्ता तस्स सादुरसविसरुक्खबीजसदिसता वुत्ता.
यदिपि ‘‘सङ्खारहेतुक’’न्तिआदिना योजना लब्भति, अविगतचतुक्कादीनि पन न लब्भन्ति यथालाभयोजनाय दस्सितत्ता.
अविज्जामूलककुसलनिद्देसवण्णना निट्ठिता.
कुसलमूलकविपाकनिद्देसवण्णना
३४३. कम्मं विय पच्चयो होति विपाकभावतोति अधिप्पायो. विपाकस्स कम्मं पच्चयो होन्तं सातिसयं होतीति तस्स निप्परियायता, तंसम्पयुत्तानं परियायता सियाति अधिप्पायेन ‘‘परियायेन उपनिस्सयपच्चयोति वुत्तानी’’ति आह. ‘‘कुसलो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (पट्ठा. १.१.४२३), अकुसलो धम्मो अब्याकतस्स धम्मस्स (पट्ठा. १.१.४२३), विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.३.१०३) पन वचनतो निप्परियायेन सब्बेपि कुसलाकुसला धम्मा विपाकस्स उपनिस्सयपच्चयो होतीति अयमत्थो दिस्सति. ‘‘कुसलमूलं अकुसलमूल’’न्ति इमेसं अन्वादेसोपि पच्चयसद्दापेक्खाय ‘‘एसा’’ति पुल्लिङ्गवसेन वुत्तोति दस्सेन्तो आह ‘‘एसाति…पे… योजेतब्ब’’न्ति.
‘‘मनसिकारोपी’’तिआदिना अप्पहीनाविज्जानम्पि किरियाय कुसलाकुसलमूलानि, अविज्जा च उपनिस्सया न होन्तीति दस्सेति. कम्मवट्टविपाकवट्टभूतानियेव सङ्खारविञ्ञाणानि पच्छिमनये अधिप्पेतानीति वुत्तं ‘‘किरियानि पन…पे… गच्छन्ती’’ति. तेसं पच्चयानं वसेन अनेकप्पकारतोति अधिप्पायोति योजना.
नवादिभेदानन्ति नवअट्ठसत्तछाति एवंपभेदानं. चतुन्नं चतुक्कानन्ति पुरिमनये पच्छिमनये च आगतानं यथालाभं चतुन्नं चतुन्नं चतुक्कानं. ‘‘कुसलाकुसलानं पन विपाके चा’’ति च-सद्देन कुसलाकुसले चाति समुच्चेतब्बोति आह ‘‘कुसल…पे… वत्तब्ब’’न्ति. मूलपदेकपच्चयतावसेनाति मूलपदस्स एकपच्चयभाववसेन उपनिस्सयपच्चयतावसेन. एकस्सेव नयस्साति कुसलाकुसलेसु अविज्जामूलकस्स, विपाकेसु कुसलाकुसलमूलकस्साति एवं एकस्सेव नयस्स वसेन. धम्मपच्चयभेदेति धम्मस्स पच्चयभूतस्स, पच्चयुप्पन्नस्स वा पच्चयभावेन भेदेति इममत्थं दस्सेन्तो ‘‘अविज्जादीन’’न्तिआदिं वत्वा पुन तमेव ‘‘तंतंचित्तुप्पादा’’तिआदिना पकारन्तरेन विभावेति.
कुसलमूलकविपाकनिद्देसवण्णना निट्ठिता.
अभिधम्मभाजनीयवण्णना निट्ठिता.
पटिच्चसमुप्पादविभङ्गवण्णना निट्ठिता.