२. अभिधम्मभाजनीयवण्णना
१८३. आवेणिकत्थो अतिसयत्थो च विसेससद्दो होतीति तदुभयं दस्सेतुं ‘‘पुग्गलन्तरासाधारणं, नीलादिसब्बरूपसाधारणञ्चा’’ति वुत्तं. असाधारणकारणेनापि हि निद्देसो होति यथा ‘‘भेरिसद्दो, यवङ्कुरो’’ति. अतिसयकारणेनपि यथा ‘‘अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाती’’ति (कथा. ३५५; पटि. म. २.४४). धातुअत्थो एवाति ‘‘धातु’’इति इमस्स धातुसद्दस्सेव अत्थो. धातुवचनीयो हि अत्थो उपसग्गेन जोतीयति.
पुरिमेन असदिसो विधानधारणत्थानं पाकटो भेदोति. विसभागलक्खणा विसदिससभावा अवयवा भागा, तेसु.
यथासम्भवन्ति किरियामनोधातु उपनिस्सयकोटिया, विपाकमनोधातु विपाकमनोविञ्ञाणस्स अनन्तरादिनापि, इतरस्स सब्बापि उपनिस्सयकोटियाव. धम्मधातु पन वेदनादिका सहजाता सहजातादिना, असहजाता अनन्तरादिना, उपनिस्सयेन आरम्मणादिना च मनोविञ्ञाणस्स पच्चयोति एवं मनोधातुधम्मधातूनं मनोविञ्ञाणस्स हेतुभावो यथासम्भवं योजेतब्बो. द्वारभूतमनोपि सुत्ते ‘‘मनोधातू’’ति वुच्चतीति आह ‘‘द्वारभूतमनोवसेन वा’’ति. तस्सा मनोधातुया मनोविञ्ञाणस्स हेतुभावो यथासम्भवं योजेतब्बोति सम्बन्धो.
पुरिमनयेनाति विसेसनं दुतियनयस्स हीनत्तिकवसेनेव विभत्तत्ता. नानाधातूनञ्च चक्खुधातुआदीनन्ति सम्बन्धो.
न हि द्वे मनोविञ्ञाणधातुयो सन्ति अट्ठारसधातुविभागदस्सनेति अधिप्पायो. खन्धायतनधातिन्द्रियानंयेव वसेन सङ्खेपादिविभागदस्सनं तेसं बहुलं परिञ्ञेय्यधम्मसङ्गण्हनतो. सच्चदेसना पन अतिसंखित्तभावतोयेवेत्थ बहिकता.
निज्जीवस्सातिआदि विसेसतो सत्तसुञ्ञतादीपनत्था धातुदेसनाति कत्वा वुत्तं. पुरिमनयो अञ्ञेसम्पि कमवुत्तीनं धातूनं सम्भवतीति अधिप्पायेन वुत्तोति ‘‘मनोधातुयेव वा’’तिआदिना दुतियनयो वुत्तो. तत्थ अविज्जमानेपि पुरेचरानुचरभावेति पुरेचरानुचराभिसन्धिया अभावेपि केवलं अनन्तरपुब्बकालअनन्तरापरकालताय मनोधातु पुरेचरानुचरा विय दट्ठब्बाति वुत्ता.
‘‘अञ्ञं अग्गहेत्वा पवत्तितुं असमत्थताया’’ति एतेन विञ्ञाणस्स एकन्तसारम्मणतादस्सनेन ‘‘आरम्मणेन विना सयमेव नीलादिआभासं चित्तं पवत्तती’’ति एवं पवत्तितं विञ्ञाणवादं पटिसेधेति.
१८४. एकनानासन्तानगतानन्ति एकसन्तानगतानं अभिन्नसन्तानगतानं द्वारानं, नानासन्तानगतानं भिन्नसन्तानगतानं आरम्मणानन्ति योजना. एकनानाजातिकत्ताति चक्खादिएकेकजातिकत्ता द्वारानं, नीलादिअनेकजातिकत्ता आरम्मणानं.
चक्खादि एकम्पि विञ्ञाणस्स पच्चयो होति, रूपादि पन अनेकमेव संहतन्ति इमस्स वा अत्थविसेसस्स दस्सनत्थं चक्खुरूपादीसु वचनभेदो कतो. किं पन कारणं चक्खादि एकम्पि विञ्ञाणस्स पच्चयो होति, रूपादि पन अनेकमेवाति? पच्चयभावविसेसतो. चक्खु हि चक्खुविञ्ञाणस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तपच्चयेहि पच्चयो होन्तं अत्थिभावेनेव होति तस्मिं सति तस्स भावतो, असति अभावतो, यतो तं अत्थिअविगतपच्चयेहिस्स पच्चयो होतीति वुच्चतीति. तंनिस्सयता चस्स न एकदेसेन अल्लीयनवसेन इच्छितब्बा अरूपभावतो, अथ खो गरुराजादीसु सिस्सराजपुरिसादीनं विय तप्पटिबद्धवुत्तिताय. इतरे च पच्चया तेन तेन विसेसेन वेदितब्बा. स्वायं पच्चयभावो न एकस्मिं न सम्भवतीति एकम्पि चक्खु चक्खुविञ्ञाणस्स पच्चयो होतीति दस्सेतुं पाळियं ‘‘चक्खुञ्च पटिच्चा’’ति एकवचननिद्देसो कतो.
रूपं पन यदिपि चक्खु विय पुरेजातअत्थिअविगतपच्चयेहि पच्चयो होति पुरेतरं उप्पन्नं हुत्वा विज्जमानक्खणेयेव उपकारकत्ता, तथापि अनेकमेव संहतं हुत्वा पच्चयो होति आरम्मणभावतो. यञ्हि पच्चयधम्मं सभावभूतं, परिकप्पिताकारमत्तं वा विञ्ञाणं विभावेन्तं पवत्तति, तदञ्ञेसञ्च सतिपि पच्चयभावे सो तस्स सारम्मणसभावतो यं किञ्चि अनालम्बित्वा पवत्तितुं असमत्थस्स ओलुब्भ पवत्तिकारणताय आलम्बनीयतो आरम्मणं नाम. तस्स यस्मा यथा यथा सभावूपलद्धि विञ्ञाणस्स आरम्मणपच्चयलाभो, तस्मा चक्खुविञ्ञाणं रूपं आरब्भ पवत्तमानं तस्स सभावं विभावेन्तमेव पवत्तति. सा चस्स इन्द्रियाधीनवुत्तिकस्स आरम्मणसभावूपलद्धि न एकद्विकलापगतवण्णवसेनेव होति, नापि कतिपयकलापवण्णवसेन, अथ खो आभोगानुरूपं आपाथगतवण्णवसेनाति अनेकमेव रूपं संहच्चकारिताय विञ्ञाणस्स पच्चयो होतीति दस्सेन्तो भगवा ‘‘रूपे चा’’ति बहुवचनेन निद्दिसि.
यं पन ‘‘रूपायतनं चक्खुविञ्ञाणधातुया, तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. १.१.१) वुत्तं, तं कथन्ति? तम्पि यादिसं रूपायतनं चक्खुविञ्ञाणस्स आरम्मणपच्चयो, तादिसमेव सन्धाय वुत्तं. कीदिसं पन तन्ति? समुदितन्ति पाकटोयमत्थो. एवञ्च कत्वा यदेके वदन्ति ‘‘आयतनसल्लक्खणवसेन चक्खुविञ्ञाणादयो सल्लक्खणारम्मणा, न दब्यसल्लक्खणवसेना’’ति, तं युत्तमेव होति. न चेत्थ समुदायारम्मणता आसङ्कितब्बा समुदायाभोगस्सेव अभावतो, समुदिता पन वण्णधम्मा आरम्मणपच्चया होन्ति. कथं पन पच्चेकं असमत्था समुदिता आरम्मणा होन्ति, न हि पच्चेकं दट्ठुं असक्कोन्ता अन्धा समुदिता पस्सन्तीति? नयिदमेकन्तिकं विसुं असमत्थानं सिविकावहनादीसु समत्थताय दस्सनतो. केसादीनञ्च यस्मिं ठाने ठितानं पच्चेकं वण्णं गहेतुं न सक्का, तस्मिंयेव ठाने समुदितानं तं गहेतुं सक्काति भिय्योपि तेसं संहच्चकारिता परिब्यत्ता. एतेन किं चक्खुविञ्ञाणस्स परमाणुरूपं आरम्मणं, उदाहु तंसमुदायोतिआदिका चोदना पटिक्खित्ता वेदितब्बा. ‘‘सोतञ्च पटिच्च सद्दे चा’’तिआदीसुपि अयमेव नयो.
एवम्पि अत्थो लब्भतीति ‘‘मनोधातुयापी’’ति पि-सद्देन न केवलं जवनपरियोसाना मनोविञ्ञाणधातुयेव सम्पिण्डीयति, अथ खो तदारम्मणभवङ्गसङ्खातापि सम्पिण्डीयतीति एवम्पि अत्थो लब्भति, सम्भवतीति अत्थो. एवं सतीति एवं अञ्ञमनोधातुप्पवत्तिया ओरं पवत्तचित्तानं मनोविञ्ञाणधातुतादस्सने सति. सतिपि मनसो सम्भूतभावे मनोधातुया मनोविञ्ञाणधातुभावप्पसङ्गो न होतियेव तंसभावस्सेव मनोविञ्ञाणधातुभावेन निद्दिट्ठत्ता. इदानि तमेवत्थं ‘‘पञ्चविञ्ञाणधातुमनोधातू’’तिआदिना पाकटतरं करोति. तब्बिधुरसभावेनाति पञ्चविञ्ञाणधातूहि विसदिससभावेन. उप्पत्तिट्ठानेन चाति मनोधातुकिरियमनोविञ्ञाणधातुआदीहि परिच्छिन्नेन उप्पज्जनट्ठानेन च. इदानि एकत्तग्गहणं विनापि यथावुत्तस्स अत्थस्स सम्भवं दस्सेतुं ‘‘अनुपनीतेपी’’तिआदि वुत्तं. तत्थ सामञ्ञवसेनाति सदिसतावसेन. तस्साति भवङ्गानन्तरं उप्पन्नचित्तस्स. अमनोविञ्ञाणधातुभावासिद्धितोति मनोधातुभावासिद्धितो. न हि ‘‘मनोविञ्ञाणधातुयापि उप्पज्जित्वा निरुद्धसमनन्तरं उप्पज्जति चित्तं…पे… तज्जा मनोविञ्ञाणधातू’’ति इदं वचनं भवङ्गानन्तरं उप्पन्नचित्तस्स मनोधातुभावं साधेति. सिद्धे हि मनोधातुभावे तं तस्स निवत्तकं सियाति अधिप्पायो. मनोविञ्ञाणधातुया पन उप्पन्नस्स चित्तस्स मनोविञ्ञाणधातुभावदीपकं वचनं तादिसाय मनोधातुयापि मनोविञ्ञाणधातुभावमेव दीपेय्याति कथं तस्सा निवत्तकं सियाति आह ‘‘न हि यं चोदीयति, तदेव परिहाराय होती’’ति.
यदि एवं पञ्चद्वारावज्जनस्स मनोविञ्ञाणधातुभावापत्ति एवाति चोदनं मनसि कत्वा आह ‘‘मनोधातुयापी’’तिआदि. पञ्चविञ्ञाणेहि मनोधातूहि च विसिट्ठो सभावो पञ्चविञ्ञाण…पे… सभावो, तस्स वसेन. चुतिपटिसन्धिभवङ्गानन्ति तदारम्मणम्पि भवङ्गन्तोगधं कत्वा वुत्तं. जवनावसानानीति वा जवनारम्मणत्ता तदारम्मणम्पि गहितं दट्ठब्बं. तेनेवाह ‘‘छद्वारिकचित्तेहि वा’’तिआदि.
विसुं कातुं युत्तन्ति आवज्जनम्पि यदिपि रूपादिविसयं होति, जवनं विय आरम्मणरसानुभवनं पन न होतीति एदिसे ठाने विसुं कातब्बमेव. मनो चाति च-सद्दो ‘‘मनञ्च पटिच्चा’’तिआदीसु विय न सम्पिण्डनत्थो, अथ खो ब्यतिरेकत्थो दट्ठब्बो.
अभिधम्मभाजनीयवण्णना निट्ठिता.