१. एककनिद्देसवण्णना

७६१. अयं विसेसोति समानेपि नयद्वयस्स तेसं अहेतुभावादिदीपने एकस्स हेतुभावादिपटिसेधता, इतरस्स रासन्तरासङ्गहोति इदं नानाकरणं. एकाय जातियाति आदाननिक्खेपपरिच्छिन्नस्स एकस्स भवस्स. तदन्तोगधतायाति गतिअन्तोगधताय. तत्थ तत्थाति तंतंगतिचुतिभवेसु.

७६२. तथाति अञ्ञद्वारारम्मणताय. खीरादीनं…पे… विलक्खणताति यथा खीरस्स दधिभावेन, दधिनो तक्कभावेन विलक्खणतापत्ति, न एवं पञ्चविञ्ञाणानं नहेतुभावादितो अञ्ञस्स सभावापत्ति अत्थीति अत्थो.

७६३. महत्तेपीति पुथुत्तेपि. बहुभाववाचको हि अयं महा-सद्दो ‘‘महाजनो’’तिआदीसु विय रूपसङ्घाटस्स अधिप्पेतत्ता. अञ्ञथा सभावधम्मस्स का महन्तता, सुखुमता वा. चक्खुविञ्ञाणस्स वचनं कत्वा वुत्तत्ता आह ‘‘चक्खुपसादे मम वत्थुम्ही’’ति. इस्सरियट्ठानन्ति इस्सरियपवत्तनट्ठानं. तथा हि नं अञ्ञत्थ भावितं विभावेन्तमेव तिट्ठति, अञ्ञविञ्ञाणानि च तेन दिन्ननयानेव तत्थ पवत्तन्ति, अपि दिब्बचक्खुञाणं, यतो तं अन्धस्स न निप्फज्जति.

७६४. ववत्थितानम्पीति अञ्ञमञ्ञं असंकिण्णानम्पि. पटिपाटिनियमो नियतानुपुब्बिकता. तेनाति ‘‘अब्बोकिण्णा’’ति वचनेन.

७६६. आवट्टनभावो आवज्जनकिच्चता.

तेसन्ति रूपादीनं. एतेसञ्हि रूपादीनं पञ्चहि विञ्ञाणेहि समागमो. अभिनिपतितब्बानि आलम्बितब्बानि, विजानितब्बानीति अत्थो. तेनाह ‘‘आरम्मणकरणेन पटिविजानितब्बानी’’ति. कुसलाकुसलचेतनाय, तंसम्पयुत्तानञ्च यथावुत्तानं ‘‘मनोपुब्बङ्गमा…पे… अकुसलं वा’’ति (विभ. अट्ठ. ७६६) एवं वुत्तानं पटिविजानितब्बानं पटिविजाननन्ति सम्बन्धो. कम्मत्थे हि एतं सामिवचनं. सहजपुब्बङ्गमधम्मेनाति दस्सनादीहि सहजातफस्सादिना पुब्बङ्गमेन आवज्जनादिना. किच्चन्तरन्ति दस्सनादिकिच्चतो अञ्ञं सम्पटिच्छनादिकिच्चं.

अविपाकभावेन कारणेन, तेन वा सद्धिं. अञ्ञन्ति रूपभावादिं. भासनकरणकराति विञ्ञत्तिसमुट्ठापनवसेन पवत्तकुसलाकुसलचित्तुप्पादधम्मा. ते एव कायङ्गवाचङ्गं अचोपेत्वा पवत्ता तंसदिसा. पुब्बङ्गमपटिविजाननन्ति पुब्बङ्गमभावेन विजाननं मनोद्वारिकजवनानं पुरेचरभावेन गहणं. तत्थाति पञ्चद्वारे. ‘‘न पटिसिद्ध’’न्ति वत्वा स्वायमप्पटिसेधो सामत्थियलद्धोति दस्सेतुं ‘‘न कायकम्मं…पे… अनुञ्ञातत्ता’’ति वुत्तं. ‘‘तथा’’ति इदं यथा कायवचीकम्मपट्ठपनं, एवं कुसलादिधम्मसमादानम्पि नत्थीति उपसंहरणत्थं वेदितब्बं. यदि न भवतो चवति, कथं पञ्चद्वारे चुति वुत्ताति आह ‘‘न पञ्चद्वारिक…पे… अतंद्वारिकत्ता’’ति. तस्सा पाळिया. आपाथमत्तन्ति आपाथगमनमत्तं आरम्मणपच्चयभावमत्तं. अञ्ञन्ति ‘‘रूपं नील’’न्ति एवमादिधम्मविसेसं. तेनाह ‘‘धम्मसभाव’’न्ति. रूपन्ति च न गण्हातीति रूपारम्मणम्पि समानं ‘‘रूपं नामेत’’न्ति न गण्हाति. तथा चाहु एके ‘‘चक्खुविञ्ञाणसमङ्गी नीलं विजानाति, नो तु नील’’न्ति. रूपनीलादिआकारो रूपारम्मणरूपादानाकारपञ्ञत्ति. तज्जापञ्ञत्ति हेसा यथा अनिच्चतादि. सातिसयं सवितक्कसविचारत्ता. ततो अञ्ञन्ति सद्दारम्मणतो अञ्ञं नामपञ्ञत्तिआरम्मणं, अञ्ञथा सहुप्पत्तिपटिसेधो न सम्भवेय्याति अधिप्पायो.

मनोद्वारेपीति न पञ्चद्वारेयेव दुतिये मोघवारे, अथ खो मनोद्वारेपि. आवज्जनं द्वत्तिक्खत्तुं…पे… दट्ठब्बं एकचित्तक्खणिकस्स आवज्जनस्स उप्पत्तियं तथा असम्भवतो.

तस्साति याथावकवत्थुविभावनाय पञ्ञाय.

एककनिद्देसवण्णना निट्ठिता.