(५.) पञ्चकनिद्देसवण्णना
८०४. पञ्चङ्गिको सम्मासमाधीति समाधिअङ्गभावेन पञ्ञा उद्दिट्ठाति. पीतिफरणतादिवचनेन हि तमेव विभजति, ‘‘सो इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देती’’तिआदिना (दी. नि. १.२२६; म. नि. १.४२७) नयेन पीतिया सुखस्स च फरणं वेदितब्बं. पीतिफरणतासुखफरणताहि आरम्मणे ठत्वा चतुत्थज्झानस्स उप्पादनतो ‘‘पादा विया’’ति ता वुत्ता.
दुतियपञ्चके च ‘‘पञ्चञाणिको’’ति समाधिमुखेन पञ्चञाणानेव उद्दिट्ठानि निद्दिट्ठानि चाति दट्ठब्बानि. लोकियसमाधिस्स पच्चनीकानि नीवरणपठमज्झाननिकन्तिआदीनि निग्गहेतब्बानि. अञ्ञे किलेसा वारेतब्बा, इमस्स पन अरहत्तसमाधिस्स पटिप्पस्सद्धसब्बकिलेसत्ता न निग्गहेतब्बं वारेतब्बञ्च अत्थीति मग्गानन्तरं समापत्तिक्खणे च अप्पयोगेनेव अधिगतत्ता च ठपितत्ता च, अपरिहानिवसेन ठपितत्ता वा न ससङ्खारनिग्गय्हवारितगतो. सतिवेपुल्लप्पत्तत्ताति एतेन अप्पवत्तमानायपि सतिया सतिबहुलताय सतो एव नामाति दस्सेति. यथापरिच्छिन्नकालवसेनाति एतेन परिच्छिन्दनसतिया सतोति.
पञ्चकनिद्देसवण्णना निट्ठिता.