(१०.) दसकनिद्देसो

पठमबलनिद्देसवण्णना

८०९. अविज्जमानं ठानं अट्ठानं, नत्थि ठानन्ति वा अट्ठानं. एस ‘‘अनवकासो’’ति एत्थापि नयो. तदत्थनिगमनमत्तमेव हि ‘‘नेतं ठानं विज्जती’’ति वचनन्ति. असुखे सुखन्ति दिट्ठिविपल्लासोव इध सुखतो उपगमनस्स ठानन्ति अधिप्पेतन्ति दस्सेन्तो ‘‘एकन्त…पे… अत्तदिट्ठिवसेना’’ति पधानदिट्ठिमाह. भेदानुरूपस्स सावनं अनुस्सावनं, भेदानुरूपेन वा वचनेन विञ्ञापनं.

लिङ्गे परिवत्ते च सो एव एककम्मनिब्बत्तितो भवङ्गप्पबन्धो जीवितिन्द्रियप्पबन्धो च, नाञ्ञोति आह ‘‘अपि परिवत्तलिङ्ग’’न्ति. अयं पञ्होति ञापनिच्छानिब्बत्ता कथा.

सङ्गामचतुक्कं सपत्तवसेन योजेतब्बं. सब्बत्थ च पुरिमं अभिसन्धिचित्तं अप्पमाणं, वधकचित्तं पन तदारम्मणञ्च जीवितिन्द्रियं आनन्तरियानानन्तरियभावे पमाणन्ति दट्ठब्बं. पुथुज्जनस्सेव तं दिन्नं होति. कस्मा? यथा वधकचित्तं पच्चुप्पन्नारम्मणम्पि जीवितिन्द्रियप्पबन्धविच्छेदनवसेन आरम्मणं कत्वा पवत्तति, न एवं चागचेतना. सा हि चजितब्बं आरम्मणं कत्वा चजनमत्तमेव होति, अञ्ञसककरणञ्च तस्स चजनं, तस्मा यस्स तं सकं कतं, तस्सेव दिन्नं होतीति.

सण्ठ…पे… कप्पविनासेयेव मुच्चतीति इदं कप्पट्ठकथाय न समेति. तत्थ हि अट्ठकथायं (कथा. अट्ठ. ६५४-६५७) वुत्तं ‘‘आपायिकोति इदं सुत्तं यं सो एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं कालं तिट्ठेय्य, तं आयुकप्पं सन्धाय वुत्त’’न्ति. कप्पविनासेयेवाति पन आयुकप्पविनासेयेवाति अत्थे सति नत्थि विरोधो. एत्थ च सण्ठहन्तेति इदं स्वे विनस्सिस्सतीति विय अभूतपरिकप्पवसेन वुत्तं. एकदिवसमेव पच्चति ततो परं कप्पाभावेन आयुकप्पस्सपि अभावतोति अविरोधतो अत्थयोजना दट्ठब्बा.

पकतत्तोति अनुक्खित्तो. समानसंवासकोति अपाराजिको.

किं पन तन्ति यो सो ‘‘नियतो’’ति वुत्तो, तं किं नियमेतीति अत्थो. तस्सेव पन यथापुच्छितस्स नियतस्स मिच्छत्तसम्मत्तनियतधम्मानं विय सभावतो विज्जमानतं यथापुच्छितञ्च नियामकहेतुं पटिसेधेत्वा येन ‘‘नियतो’’ति ‘‘सत्तक्खत्तुपरमादिको’’ति च वुच्चति, तं यथाधिप्पेतकारणं दस्सेतुं ‘‘सम्मासम्बुद्धेन ही’’तिआदिमाह. जातस्स कुमारस्स विय अरियाय जातिया जातस्स नाममत्तमेतं नियतसत्तक्खत्तुपरमादिकं, नियतानियतभेदं नामन्ति अत्थो. यदि पुब्बहेतु नियामको, सोतापन्नो च नियतोति सोतापत्तिमग्गतो उद्धं तिण्णं मग्गानं उपनिस्सयभावतो पुब्बहेतुकिच्चं, ततो पुब्बे पन पुब्बहेतुकिच्चं नत्थीति सोतापत्तिमग्गस्स उपनिस्सयाभावो आपज्जति. यदि हि तस्सपि पुब्बहेतु उपनिस्सयो सिया, सो च नियामकोति सोतापत्तिमग्गुप्पत्तितो पुब्बे एव नियतो सिया, तञ्च अनिट्ठं, तस्मास्स पुब्बहेतुना अहेतुकता आपन्नाति इममत्थं सन्धायाह ‘‘इच्चस्स अहेतु अप्पच्चया निब्बत्तिं पापुणाती’’ति.

पटिलद्धमग्गो सोतापत्तिमग्गो, तेनेव सत्तक्खत्तुपरमादिनियमे सति सत्तमभवादितो उद्धं पवत्तनकस्स दुक्खस्स मूलभूता किलेसा तेनेव खीणाति उपरि तयो मग्गा अकिच्चका होन्तीति अत्थो. यदि उपरि तयो मग्गा सत्तक्खत्तुपरमादिकं नियमेन्ति, ततो च अञ्ञो सोतापन्नो नत्थीति सोतापत्तिमग्गस्स अकिच्चकता निप्पयोजनता आपज्जतीति अत्थो. अथ सक्कायदिट्ठादिप्पहानं दस्सनकिच्चं, तेसं पहानेन सत्तक्खत्तुपरमादिताय भवितब्बं. सा चुपरिमग्गेहि एव होतीति सत्तमभवादितो उद्धं पवत्तितो तेन विना वुट्ठाने सक्कायदिट्ठादिप्पहानेन च तेन विना भवितब्बन्ति आह ‘‘पठममग्गेन च अनुप्पज्जित्वाव किलेसा खेपेतब्बा होन्ती’’ति. न अञ्ञो कोचि नियमेतीति नामकरणनिमित्ततो विपस्सनातो अञ्ञो कोचि नियामको नाम नत्थीति अत्थो. विपस्सनाव नियमेतीति च नामकरणनिमित्ततंयेव सन्धाय वुत्तं. तेनेवाह ‘‘इति सम्मासम्बुद्धेन गहितनाममत्तमेव त’’न्ति.

न उप्पज्जन्तीति पन अत्थीति ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जती’’तिआदिं (म. नि. १.२८५; २.३४१; महाव. ११; कथा. ४०५) इमिस्सा लोकधातुया ठत्वा वदन्तेन भगवता ‘‘किं पनावुसो सारिपुत्त, अत्थेतरहि अञ्ञे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधियन्ति एवं पुट्ठाहं, भन्ते, नोति वदेय्य’’न्ति (दी. नि. ३.१६१) वत्वा तस्स कारणं दस्सेतुं ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति (म. नि. ३.१२९) इमं सुत्तं दस्सेन्तेन धम्मसेनापतिना च बुद्धक्खेत्तभूतं इमं लोकधातुं ठपेत्वा अञ्ञत्थ अनुप्पत्ति वुत्ता होतीति अधिप्पायो.

‘‘यो पन भिक्खू’’तिआदिना वुत्तानि सिक्खापदानि मातिका, ताय अन्तरहिताय निदानुद्देससङ्खाते पातिमोक्खे पब्बज्जूपसम्पदाकम्मेसु च सासनं तिट्ठतीति अत्थो. पातिमोक्खे वा अन्तोगधा पब्बज्जा उपसम्पदा च तदुभयाभावे पातिमोक्खाभावतो, तस्मा पातिमोक्खे, तासु च सासनं तिट्ठतीति वुत्तं. ओसक्कितं नामाति पच्छिमपटिवेधसीलभेदद्वयं एकतो कत्वा ततो परं विनट्ठं नाम होतीति अत्थो.

ताति रस्मियो. कारुञ्ञन्ति परिदेवनकारुञ्ञं.

अनच्छरियत्ताति द्वीसु उप्पज्जमानेसु अच्छरियत्ताभावदोसतोति अत्थो. विवादभावतोति विवादाभावत्थं द्वे न उप्पज्जन्तीति अत्थो.

एकं बुद्धं धारेतीति एकबुद्धधारणी. एतेन एवंसभावा एते बुद्धगुणा, येन दुतियबुद्धगुणे धारेतुं असमत्था अयं लोकधातूति दस्सेति. पच्चयविसेसनिप्फन्नानञ्हि धम्मानं सभावविसेसो न सक्का धारेतुन्ति. समं उद्धं पज्जतीति समुपादिका, उदकस्सोपरि समं गामिनीति अत्थो. द्विन्नम्पीति द्वेपि, द्विन्नम्पि वा सरीरभारं. छादेन्तन्ति रोचयमानं. सकिं भुत्तोवाति एकम्पि आलोपं अज्झोहरित्वाव मरेय्याति अत्थो.

अतिधम्मभारेनाति धम्मेन नाम पथवी तिट्ठेय्य, सा किं तेनेव चलतीति अधिप्पायो. पुन थेरो ‘‘रतनं नाम लोके कुटुम्बं सन्धारेन्तं अभिमतञ्च लोकेन अत्तनो गरुसभावताय सकटभङ्गस्स कारणं अतिभारभूतं दिट्ठं. एवं धम्मो च हितसुखविसेसेहि तंसमङ्गिनं धारेन्तो अभिमतो च विञ्ञूहि गम्भीराप्पमेय्यभावेन गरुसभावत्ता अतिभारभूतो पथवीचलनस्स कारणं होती’’ति दस्सेन्तो ‘‘इध, महाराज, द्वे सकटा’’तिआदिमाह. एकस्साति एकस्मा, एकस्स वा सकटस्स रतनं, तस्मा सकटतो गहेत्वाति अत्थो. ओसारितन्ति पवेसितं आहटं वुत्तन्ति अत्थो.

सभावपकतिकाति अकित्तिमपकतिकाति अत्थो. कारणमहन्तत्ताति महन्तेहि पारमिताकारणेहि बुद्धगुणानं निब्बत्तितोति वुत्तं होति. पथवीआदयो महन्ता अत्तनो अत्तनो विसये एकेकाव, एवं सम्मासम्बुद्धोपि महन्तो अत्तनो विसये एको एव. को च तस्स विसयो? यावतकं ञेय्यं, एवं आकासो विय अनन्तविसयो भगवा एको एव होतीति वदन्तो लोकधात्वन्तरेसुपि दुतियस्स अभावं दस्सेति.

पुब्बभागे आयूहनवसेन आयूहनसमङ्गिता सन्निट्ठानचेतनावसेन चेतनासमङ्गिता च वेदितब्बा, सन्ततिखणवसेन वा. विपाकारहन्ति दुतियभवादीसु विपच्चनपकतितं सन्धाय वदति. चलतीति परिवत्तति. सुनखेहि वजनसीलो सुनखवाजिको.

पठमबलनिद्देसवण्णना निट्ठिता.

दुतियबलनिद्देसवण्णना

८१०. गतितो अञ्ञा गतिसम्पत्ति नाम नत्थीति दस्सेन्तो ‘‘सम्पन्ना गती’’ति आह. महासुदस्सनादिसुराजकालो पठमकप्पिकादिसुमनुस्सकालो च कालसम्पत्ति.

एकन्तं कुसलस्सेव ओकासोति इदं यदिपि कोचि कायसुचरितादिपयोगसम्पत्तियं ठितं बाधेय्य, तं पन बाधनं बाधकस्सेव इस्सादिनिमित्तेन विपरीतग्गाहेन जातं. सा पयोगसम्पत्ति सभावतो सुखविपाकस्सेव पच्चयो, न दुक्खविपाकस्साति इममत्थं सन्धाय वुत्तं. मक्कटो भत्तपुटं बन्धट्ठाने मुञ्चित्वा भुञ्जितुं न जानाति, यत्थ वा तत्थ वा भिन्दित्वा विनासेति, एवं अनुपायञ्ञूपि भोगे. सुसाने छड्डेत्वातिआदिना घातेत्वा छड्डितस्स वुट्ठानाभावो विय अपायतो वुट्ठानाभावोति दस्सेति.

‘‘पच्चरी’’तिपि उळुम्पस्स नामं, तेन एत्थ कता ‘‘महापच्चरी’’ति वुच्चति. उदके मरणं थले मरणञ्च एकमेवाति कस्मा वुत्तं, ननु सक्केन ‘‘समुद्दारक्खं करिस्सामी’’ति वुत्तन्ति? सच्चं वुत्तं, जीवितस्स लहुपरिवत्तितं पकासेन्तेहि थेरेहि एवं वुत्तं, लहुपरिवत्तिताय जीवितहेतु न गमिस्सामाति अधिप्पायो. अथ वा उदकेति नागदीपं सन्धाय वुत्तं, थलेति जम्बुदीपं.

थेरो न देतीति कथमहं एतेन ञातो, केनचि किञ्चि आचिक्खितं सियाति सञ्ञाय न अदासि. तेनेव ‘‘मयम्पि न जानामा’’ति वुत्तं. अपरस्साति अपरस्स भिक्खुनो पत्तं आदाय…पे… थेरस्स हत्थे ठपेसीति योजना. अनायतनेति निक्कारणे, अयुत्ते वा नस्सनट्ठाने. तुवं अत्तानं रक्खेय्यासि, मयं पन महल्लकत्ता किं रक्खित्वा करिस्साम, महल्लकत्ता एव च रक्खितुं न सक्खिस्सामाति अधिप्पायो. अनागामित्ता वा थेरो अत्तना वत्तब्बं जानित्वा ओवदति.

सम्मापयोगस्स गतमग्गोति सम्मापयोगेन निप्फादितत्ता तस्स सञ्जाननकारणन्ति अत्थो.

भूतमत्थं कत्वा अभूतोपमं कथयिस्सतीति अधिप्पायो. मनुस्साति भण्डागारिकादिनियुत्ता मनुस्सा महन्तत्ता सम्पटिच्छितुं नासक्खिंसु.

दुतियबलनिद्देसवण्णना निट्ठिता.

ततियबलनिद्देसवण्णना

८११. अञ्चिताति गता. पेच्चाति पुन, मरित्वाति वा अत्थो. उस्सन्नत्ताति वितक्कबहुलताय उस्सन्नत्ताति वदन्ति, सूरतादीहि वा उस्सन्नत्ता. दिब्बन्तीति कीळन्ति.

सञ्जीवकाळसुत्तसङ्घातरोरुवमहारोरुवतापनमहातापनअवीचियो अट्ठ महानिरया. एकेकस्स चत्तारि द्वारानि, एकेकस्मिं द्वारे चत्तारो चत्तारो गूथनिरयादयोति एवं सोळस उस्सदनिरये वण्णयन्ति.

सक्कसुयामादयो विय जेट्ठकदेवराजा. पजापतिवरुणईसानादयो विय दुतियादिट्ठानन्तरकारको परिचारको हुत्वा.

ततियबलनिद्देसवण्णना निट्ठिता.

चतुत्थबलनिद्देसवण्णना

८१२. कप्पोति द्वेधाभूतग्गो. एत्थ च बीजादिधातुनानत्तवसेन खन्धादिधातुनानत्तं वेदितब्बं.

चतुत्थबलनिद्देसवण्णना निट्ठिता.

पञ्चमबलनिद्देसवण्णना

८१३. अज्झासयधातूति अज्झासयसभावो. यथा गूथादीनं धातुसभावो एसो, यं गूथादीहेव संसन्दति, एवं पुग्गलानं अज्झासयस्सेवेस सभावो, यं दुस्सीलादयो दुस्सीलादिकेहेव संसन्दन्तीति वुत्तं होति. भिक्खूपि आहंसूति अञ्ञमञ्ञं आहंसु. आवुसो इमे मनुस्सा ‘‘यथासभागेन परिभुञ्जथा’’ति वदन्ता अम्हे सभागासभागे विदित्वा हीनज्झासयपणीतज्झासयतं परिच्छिन्दित्वा धातुसंयुत्तकम्मे उपनेन्ति तस्स पयोगं दट्ठुकामाति अत्थो, एवं सभागवसेनेव अज्झासयधातुपरिच्छिन्दनतो अज्झासयधातुसभागवसेन नियमेतीति अधिप्पायो.

पञ्चमबलनिद्देसवण्णना निट्ठिता.

छट्ठबलनिद्देसवण्णना

चरितन्ति इध दुच्चरितं सुचरितन्ति वुत्तं. अप्परजं अक्खं एतेसन्ति अप्परजक्खाति अत्थो विभावितो, अप्परजं अक्खिम्हि एतेसन्ति अप्परजक्खातिपि सद्दत्थो सम्भवति. एत्थ च आसयजाननादिना येहि इन्द्रियेहि परोपरेहि सत्ता कल्याणपापासयादिका होन्ति, तेसं जाननं विभावेतीति वेदितब्बं. एवञ्च कत्वा इन्द्रियपरोपरियत्तआसयानुसयञाणानं विसुं असाधारणता, इन्द्रियपरोपरियत्तनानाधिमुत्तिकताञाणानं विसुं बलता च सिद्धा होति.

८१५. यदरियाति ये अरिया. आवसिंसूति निस्साय वसिंसु. के पन ते? ‘‘इध, भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति छळङ्गसमन्नागतो एकारक्खो चतुरापस्सेनो पनुण्णपच्चेकसच्चो समवयसट्ठेसनो अनाविलसङ्कप्पो पस्सद्धकायसङ्खारो सुविमुत्तचित्तो सुविमुत्तपञ्ञो’’ति (दी. नि. ३.३४८; अ. नि. १०.१९) एवं वुत्ता. एतेसु पञ्चङ्गविप्पहीनपच्चेकसच्चपनोदनएसनासमवयसज्जनानि ‘‘सङ्खायेकं पटिसेवति अधिवासेति परिवज्जेति विनोदेती’’ति (म. नि. २.१६८) वुत्तेसु अपस्सेनेसु विनोदनञ्च मग्गकिच्चानेव, इतरे च मग्गेनेव समिज्झन्ति. तेनाह ‘‘एतञ्हि सुत्तं…पे… दीपेती’’ति.

८१६. आरम्मणसन्तानानुसयनेसु इट्ठारम्मणे आरम्मणानुसयनेन अनुसेति. आचिण्णसमाचिण्णाति एतेन समन्ततो वेठेत्वा विय ठितभावेन अनुसयिततं दस्सेति. भवस्सपि वत्थुकामत्ता, रागवसेन वा समानत्ता ‘‘भवरागानुसयो…पे… सङ्गहितो’’ति आह.

८१८. ‘‘पणीताधिमुत्तिका तिक्खिन्द्रिया, इतरे मुदिन्द्रिया’’ति एवं इन्द्रियविसेसदस्सनत्थमेव अधिमुत्तिग्गहणन्ति आह ‘‘तिक्खिन्द्रियमुदिन्द्रियभावदस्सनत्थ’’न्ति.

८१९. पहानक्कमवसेनाति एत्थ पहातब्बपजहनक्कमो पहानक्कमोति दट्ठब्बो, यस्स पहानेन भवितब्बं, तं तेनेव पहानेन पठमं वुच्चति, ततो अप्पहातब्बन्ति अयं वा पहानक्कमो.

८२०. मग्गस्स उपनिस्सयभूतानि इन्द्रियानि उपनिस्सयइन्द्रियानि.

८२६. निब्बुतिछन्दरहितत्ता अच्छन्दिकट्ठानं पविट्ठा. यस्मिं भवङ्गे पवत्तमाने तंसन्ततियं लोकुत्तरं निब्बत्तति, तं तस्स पादकं.

छट्ठबलनिद्देसवण्णना निट्ठिता.

सत्तमबलनिद्देसवण्णना

८२८. निद्दायित्वाति कम्मट्ठानं मनसि करोन्तो निद्दं ओक्कमित्वा पटिबुद्धो समापत्तिं समापन्नोम्हीति अत्थो. नीवरणादीहि विसुद्धचित्तसन्तति एव चित्तमञ्जूसा, समाधि वा, कम्मट्ठानं वा. चित्तं ठपेतुन्ति समापत्तिचित्तं ठपेतुं. सञ्ञावेदयितानं अपगमो एव अपगमविमोक्खो.

सञ्ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि ‘‘हानभागियविसेसभागियधम्मा’’ति दस्सितानि, तेहि पन झानानं तंसभावता धम्म-सद्देन वुत्ता. पगुणभाववोदानं पगुणवोदानं. तदेव पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादिअधिगमस्स पच्चयत्ता ‘‘वुट्ठानं नामा’’ति वुत्तं. ‘‘वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति इमाय वुट्ठानपाळिया असङ्गहितत्ता निरोधसमापत्तिया वुट्ठानं ‘‘पाळिमुत्तकवुट्ठानं नामा’’ति वुत्तं. ये पन ‘‘निरोधतो फलसमापत्तिया वुट्ठान’’न्ति पाळि नत्थीति वदेय्युं, ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) इमाय पाळिया पटिसेधेतब्बा.

सत्तमबलनिद्देसवण्णना निट्ठिता.

दसमबलनिद्देसवण्णना

८३१. रागादीहि चेतसो विमुत्तिभूतो समाधि चेतोविमुत्ति. पञ्ञाव विमुत्ति पञ्ञाविमुत्ति. कम्मन्तरविपाकन्तरमेवाति कम्मन्तरस्स विपाकन्तरमेवाति अत्थो. चेतनाचेतनासम्पयुत्तकधम्मे निरयादिनिब्बानगामिनिपटिपदाभूते कम्मन्ति गहेत्वा आह ‘‘कम्मपरिच्छेदमेवा’’ति. अप्पेतुं न सक्कोति अट्ठमनवमबलानि विय, तंसदिसं इद्धिविधञाणं विय विकुब्बितुं. एतेन दसबलसदिसतञ्च वारेति, झानादिञाणं विय वा अप्पेतुं विकुब्बितुञ्च. यदिपि हि झानादिपच्चवेक्खणञाणं सत्तमबलन्ति तस्स सवितक्कसविचारता वुत्ता, तथापि झानादीहि विना पच्चवेक्खणा नत्थीति झानादिसहगतं ञाणं तदन्तोगधं कत्वा एवं वुत्तन्ति वेदितब्बं. अथ वा सब्बञ्ञुतञ्ञाणं झानादिकिच्चं विय न सब्बं बलकिच्चं कातुं सक्कोतीति दस्सेतुं ‘‘तञ्हि झानं हुत्वा अप्पेतुं इद्धि हुत्वा विकुब्बितुञ्च न सक्कोती’’ति वुत्तं, न पन कस्सचि बलस्स झानइद्धिभावतोति दट्ठब्बं.

दसमबलनिद्देसवण्णना निट्ठिता.

ञाणविभङ्गवण्णना निट्ठिता.