३. पञ्हपुच्छकवण्णना
७४७. पच्चयसमुप्पन्नञ्च अत्थं पच्चयधम्मञ्चाति वचनेहि हेतादिपच्चयसमुप्पन्नानं कुसलाकुसलरूपानम्पि अत्थपरियायं, हेतादिपच्चयभूतानं विपाककिरियरूपानम्पि धम्मपरियायञ्च दस्सेति. पटिभानपटिसम्भिदाय कामावचरविपाकारम्मणता महग्गतारम्मणता च पटिसम्भिदाञाणारम्मणत्ते न युज्जति पटिसम्भिदाञाणानं कामावचरलोकुत्तरकुसलेसु कामावचरकिरियालोकुत्तरविपाकेसु च उप्पत्तितो. सब्बञाणारम्मणताय सति युज्जेय्य, ‘‘येन ञाणेन तानि ञाणानि जानाती’’ति (विभ. ७२६) वचनतो पन न सब्बञाणारम्मणताति कथयन्ति. सुत्तन्तभाजनीये पन ‘‘ञाणेसु ञाणं पटिभानपटिसम्भिदा’’ति अविसेसेन वुत्तत्ता सब्बञाणारम्मणता सिया. अभिधम्मभाजनीयेपि चित्तुप्पादवसेन कथनं निरवसेसकथनन्ति यथादस्सितविसयवचनवसेन ‘‘येन ञाणेन तानि ञाणानि जानाती’’ति यं वुत्तं, तं अञ्ञारम्मणतं न पटिसेधेतीति. यथा च अत्थपटिसम्भिदाविसयानं न निरवसेसेन कथनं अभिधम्मभाजनीये, एवं पटिभानपटिसम्भिदाविसयस्सपीति. एवं पटिभानपटिसम्भिदाय सब्बञाणविसयत्ता ‘‘तिस्सो पटिसम्भिदा सिया परित्तारम्मणा सिया महग्गतारम्मणा सिया अप्पमाणारम्मणा’’ति (विभ. ७४९) वुत्ता.
यदिपि ‘‘सिया अत्थपटिसम्भिदा न मग्गारम्मणा’’ति (विभ. ७४९) वचनतो अभिधम्मभाजनीये वुत्तपटिसम्भिदास्वेव पञ्हपुच्छकनयो पवत्तो. न हि मग्गो पच्चयुप्पन्नो न होति, अभिधम्मभाजनीये च पटिसम्भिदाञाणविसया एव पटिभानपटिसम्भिदा वुत्ताति न तस्सा महग्गतारम्मणताति. एवमपि द्वेपि एता पाळियो विरुज्झन्ति, तासु बलवतराय ठत्वा इतराय अधिप्पायो मग्गितब्बो. कुसलाकुसलानं पन पच्चयुप्पन्नत्तपटिवेधोपि कुसलाकुसलभावपटिवेधविनिमुत्तो नत्थीति निप्परियाया तत्थ धम्मपटिसम्भिदा एकन्तधम्मविसयत्ता, तथा विपाककिरियानं पच्चयभावपटिवेधोपि विपाककिरियभावपटिवेधविनिमुत्तो नत्थीति निप्परियाया तत्थ अत्थपटिसम्भिदा एकन्तिकअत्थविसयत्ता. किञ्चि पन ञाणं अप्पटिभानभूतं नत्थि ञेय्यप्पकासनतोति सब्बस्मिम्पि ञाणे निप्परियाया पटिभानपटिसम्भिदा भवितुं अरहति. निप्परियायपटिसम्भिदासु पञ्हपुच्छकस्स पवत्तियं द्वेपि पाळियो न विरुज्झन्ति.
सद्दारम्मणत्ता बहिद्धारम्मणाति एत्थ परस्स अभिलापसद्दारम्मणत्ताति भवितब्बं. न हि सद्दारम्मणता बहिद्धारम्मणताय कारणं सद्दस्स अज्झत्तस्स च सब्भावाति. अनुवत्तमानो च सो एव सद्दोति विसेसनं न कतन्ति दट्ठब्बं.
पञ्हपुच्छकवण्णना निट्ठिता.
पटिसम्भिदाविभङ्गवण्णना निट्ठिता.