१. उप्पादवारवण्णना
१८-२१. पवत्तिवारे चक्खायतनमूलकानि एकादसाति पटिसन्धिचुतिवसेन उपादिन्नपवत्तस्स उप्पादनिरोधवचने एतस्मिं अलब्भमानविस्सज्जनम्पि सद्दायतनेन सद्धिं यमकं पुच्छामत्तलाभेन सङ्गण्हित्वा वदतीति दट्ठब्बं. छसट्ठि यमकानीति एत्थ चक्खुसोतघानजिव्हाकायरूपायतनमूलकेसु एकेकं सद्दायतनमूलकानि पञ्चाति एकादस यमकानि विस्सज्जनवसेन हापेतब्बानि. वक्खति हि ‘‘सद्दायतनस्स पटिसन्धिक्खणे अनुप्पत्तितो तेन सद्धिं यमकस्स विस्सज्जनमेव नत्थी’’ति (यम. अट्ठ. आयतनयमक १८-२१).
दुतियं किञ्चापि पठमेन सदिसविस्सज्जनन्तिआदि पुग्गलवारमेव सन्धाय वुत्तन्ति दट्ठब्बं. ओकासवारे पन असदिसविस्सज्जनत्ता वुत्तं, न तं सब्बत्थ सदिसविस्सज्जनन्ति ञापेतुं पुग्गलवारेपि विस्सज्जितन्ति. गन्धरसफोट्ठब्बायतनेहि सद्धिं तीणि यमकानि सदिसविस्सज्जनानीति रूपावचरसत्ते सन्धाय ‘‘सचक्खुकानं अगन्धकान’’न्तिआदिना विस्सज्जितब्बत्ता वुत्तं. तेसञ्हि विरत्तकामकम्मनिब्बत्तस्स पटिसन्धिबीजस्स एवंसभावत्ता घानादीनि गन्धादयो च न सन्तीति. घानायतनयमकेन सदिसविस्सज्जनत्ताति चक्खायतनमूलकेसु घानायतनयमकेन सद्धिं सदिसविस्सज्जनत्ताति अत्थो. ननु तत्थ ‘‘सचक्खुकानं अघानकानं उपपज्जन्तान’’न्तिआदिना विस्सज्जनं पवत्तं, इध पन घानायतनमूलकेसु ‘‘यस्स घानायतनं उप्पज्जति, तस्स जिव्हायतनं उप्पज्जतीति? आमन्ता’’ति विस्सज्जनेन भवितब्बन्ति नत्थि सदिसविस्सज्जनताति? सच्चं, यथा पन तत्थ घानायतनयमकेन जिव्हाकायायतनयमकानि सदिसविस्सज्जनानि, एवमिधापि जिव्हाकआयायतनयमकानि सदिसविस्सज्जनानि, तस्मा तत्थ तत्थेव सदिसविस्सज्जनता पाळियं अनारुळ्हताय कारणन्ति. निदस्सनभावेन पन गहितं चक्खायतनमूलकानं सदिसविस्सज्जनकानं सदिसविस्सज्जनं निदस्सनभावेनेव कारणन्ति दस्सेन्तो ‘‘घानायतनयमकेन सदिसविस्सज्जनत्ता’’ति आह. सदिसविस्सज्जनता चेत्थ घानायतनमूलकेसु येभुय्यताय दट्ठब्बा. तेसु हि जिव्हाकायायतनयमकेसु तिण्णं पुच्छानं ‘‘आमन्ता’’ति विस्सज्जनेन भवितब्बं, पच्छिमपुच्छाय ‘‘सकायकानं अघानकानं उपपज्जन्तान’’न्तिआदिनाति.
अथ वा यथा वेदनाक्खन्धादिमूलकानं सञ्ञाक्खन्धादियमकानं अमिस्सककालभेदेसु तीसु ‘‘आमन्ता’’ति पटिवचनविस्सज्जनेन यथावुत्तवचनस्स विस्सज्जनभावानुजाननं कत्तब्बन्ति अपुब्बस्स वत्तब्बस्स अभावा विस्सज्जनं न कतं, एवमिधापि घानायतनमूलकं जिव्हायतनयमकं अपुब्बस्स वत्तब्बस्स अभावा पाळिं अनारुळ्हन्ति पाकटोयमत्थो. कायायतनयमकं पन दुतियपुच्छाय वसेन विस्सज्जितब्बं सिया, सा च चक्खायतनमूलकेसु घानायतनयमकेन सदिसविस्सज्जना, तस्मा यस्सा पुच्छाय विस्सज्जना कातब्बा, तस्सा घानायतनयमकेन सदिसविस्सज्जनत्ता तंसेसानि पाळिं अनारुळ्हानीति एवमेत्थ अत्थो दट्ठब्बो. तथाति इदं पाळिअनारुळ्हतासामञ्ञेनेव वुत्तं, न कारणसामञ्ञेन. घानजिव्हाकायायतनानं पन अगब्भसेय्यकेसु पवत्तमानानं गब्भसेय्यकेसु च आयतनपारिपूरिकाले सहचारिताय अविसेसत्ता च अप्पविसेसत्ता च एकस्मिं घानायतनयमके विस्सज्जिते इतरानि द्वे, घानायतनमूलकेसु च विस्सज्जितेसु इतरद्वयमूलकानि न विस्सज्जीयन्तीति वेदितब्बानि. रूपायतनमनायतनेहि सद्धिन्ति ‘‘यस्स रूपायतनं उप्पज्जति, तस्स मनायतनं उप्पज्जती’’ति एतिस्सा पुच्छाय वुत्तेहि रूपायतनमनायतनेहि सद्धिन्ति अधिप्पायो. रूपायतनमूलकेसु हि मनायतनयमके आदिपुच्छाय गन्धरसफोट्ठब्बयमकेसु आदिपुच्छानं सदिसविस्सज्जनता यमकानं अविस्सज्जने कारणभावेन वुत्ता. दुतियपुच्छानञ्हि पटिवचनविस्सज्जनेन भवितब्बन्ति पुब्बे वुत्तनयेन विस्सज्जनं न कातब्बं, आदिपुच्छानञ्च न कातब्बन्ति.
हेट्ठिमेहि सदिसविस्सज्जनत्ताति एत्थ गन्धायतनमूलकानं रसफोट्ठब्बयमकानं रसायतनमूलकस्स च फोट्ठब्बयमकस्स पटिवचनविस्सज्जनेनेव भवितब्बन्ति पुब्बे वुत्तनयेनेव विस्सज्जनं न कातब्बन्ति येसं कातब्बं, तेसं गन्धरसफोट्ठब्बमूलकानं मनायतनधम्मायतनयमकानं चक्खादिपञ्चायतनमूलकेहि मनायतनधम्मायतनयमकेहि सदिसविस्सज्जनत्ताति अत्थो. चक्खायतनादिमूलकानि सद्दायतनयमकानि सद्दायतनमूलकानि सब्बानि अविस्सज्जनेनेव अलब्भमानविस्सज्जनतादस्सनेन विस्सज्जितानि नाम होन्तीति आह ‘‘छसट्ठि यमकानि विस्सज्जितानि नाम होन्ती’’ति.
जच्चन्धम्पि जच्चबधिरम्पीति एत्थ च जच्चबधिरग्गहणेन जच्चन्धबधिरो गहितोति वेदितब्बो. सघानकानं सचक्खुकानन्ति परिपुण्णायतनमेव ओपपातिकं सन्धाय वुत्तन्ति एत्थ एव-सद्दं वुत्तन्ति-एतस्स परतो योजेत्वा यथा ‘‘सघानकानं अचक्खुकान’’न्ति इदं अपरिपुण्णायतनं सन्धाय वुत्तं, न एवं ‘‘सघानकानं सचक्खुकान’’न्ति एतं. एतं पन परिपुण्णायतनं सन्धाय वुत्तमेवाति अत्थो दट्ठब्बो. तेन जच्चबधिरम्पि सन्धाय वुत्तता न वारिता होतीति.
२२-२५४. यत्थ चक्खायतनन्ति रूपीब्रह्मलोकं पुच्छतीति नियमतो तत्थ चक्खुसोतानं सहुप्पत्तिमत्तं पस्सन्तो वदति, ओकासवारे पन तस्मिं पुग्गलस्स अनामट्ठत्ता यत्थ कामधातुयं रूपधातुयञ्च चक्खायतनं उप्पज्जति, तत्थ सोतायतनम्पि एकन्तेन उप्पज्जतीति ‘‘आमन्ता’’ति (यम. १.आयतनयमक.२२) वुत्तं.
‘‘यस्स वा पन रूपायतनं उप्पज्जिस्सति, तस्स चक्खायतनं उप्पज्जिस्सतीति? आमन्ता’’ति कस्मा पटिञ्ञातं, ननु यो गब्भसेय्यकभावं गन्त्वा परिनिब्बायिस्सति, तस्स रूपायतनं पटिसन्धियं उप्पज्जिस्सति, न पन चक्खायतनन्ति? यस्स रूपायतनं उप्पज्जिस्सति, तस्स तदवत्थस्स पुग्गलस्स रूपायतनुप्पादतो उद्धं चक्खायतनसन्तानुप्पादस्स पवत्तियम्पि भविस्सन्तस्स पटिञ्ञातब्बत्ता. अथ कस्मा ‘‘यस्स वा पन रूपायतनं नुप्पज्जिस्सति, तस्स चक्खायतनं नुप्पज्जिस्सतीति? आमन्ता’’ति पटिञ्ञातं, ननु गब्भसेय्यकस्स पच्छिमभविकस्स उपपज्जन्तस्स एकादसमसत्ताहा ओरतो ठितस्स रूपायतनं नुप्पज्जिस्सति नो च चक्खायतनं नुप्पज्जिस्सतीति? तस्मिं भवे भविस्सन्तस्स उप्पादस्स अनागतभावेन अवचनतो. भवन्तरे हि तस्स तस्स आयतनसन्तानस्स यो आदिउप्पादो पटिसन्धियं पवत्ते च भविस्सति, सो अनागतुप्पादो तब्भावेन वुच्चति अद्धापच्चुप्पन्नानन्तोगधत्ता. न पन यो तस्मिंयेव भवे पवत्ते भविस्सति, सो अनागतुप्पादभावेन वुच्चति अद्धापच्चुप्पन्नन्तोगधत्ता. अद्धावसेन हेत्थ कम्मजपवत्तस्स पच्चुप्पन्नादिकालभेदो अधिप्पेतो. एवञ्च कत्वा इन्द्रिययमके (यम. ३.इन्द्रिययमक.३६८) ‘‘यस्स इत्थिन्द्रियं उप्पज्जति, तस्स पुरिसिन्द्रियं उप्पज्जिस्सतीति? पच्छिमभविकानं इत्थीनं उपपज्जन्तीनं, या च इत्थियो रूपावचरं अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, या च इत्थियो एतेनेव भावेन कतिचि भवे दस्सेत्वा परिनिब्बायिस्सन्ति, तासं उपपज्जन्तीनं तासं इत्थिन्द्रियं उप्पज्जति, नो च तासं पुरिसिन्द्रियं उप्पज्जिस्सती’’ति वुत्तं. न हि तासं सब्बासं तस्मिं भवे पवत्ते पुरिसिन्द्रियं न उप्पज्जिस्सति लिङ्गपरिवत्तनसब्भावा, भवन्तरे पन आदिउप्पादस्स अभावं सन्धाय ‘‘नो च तासं पुरिसिन्द्रियं उप्पज्जिस्सती’’ति वुत्तं. भवन्तरे हि आदिउप्पादस्स अनागतत्तं अधिप्पेतन्ति. एवञ्च कत्वा ‘‘कतिचि भवे दस्सेत्वा’’ति भवग्गहणं कतन्ति.
‘‘आयतनानं पटिलाभो जाती’’ति (दी. नि. २.३८८; विभ. २३५) वचनतो तंतंआयतननिब्बत्तककम्मेन गहितपटिसन्धिकस्स अवस्संभावीआयतनस्स याव आयतनपारिपूरि, ताव उप्पज्जतीति पन अत्थे गय्हमाने पुच्छाद्वयविस्सज्जनं सूपपन्नं होति. एवञ्च सति ‘‘यस्स वा पन सोतायतनं नुप्पज्जिस्सति, तस्स चक्खायतनं नुप्पज्जतीति? पच्छिमभविकानं पञ्चवोकारं उपपज्जन्तानं, ये च अरूपं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं उपपज्जन्तानं तेसं सोतायतनं नुप्पज्जिस्सति, नो च तेसं चक्खायतनं नुप्पज्जती’’ति एवमादीसु (यम. १.आयतनयमक.९५) गब्भसेय्यकापि पच्छिमभविकादयो उपपज्जन्ता गहिता होन्ति. एवञ्च कत्वा इन्द्रिययमके (यम. ३.इन्द्रिययमक.१८६) ‘‘यस्स वा पन सोमनस्सिन्द्रियं उप्पज्जति, तस्स चक्खुन्द्रियं उप्पज्जतीति? आमन्ता’’ति इदम्पि उपपन्नं होति. सोमनस्सिन्द्रियुप्पादकस्स कम्मस्स एकन्तेन चक्खुन्द्रियुप्पादनतो गब्भेपि याव चक्खुन्द्रियुप्पत्ति, ताव उप्पज्जमानताय तस्सा अभिनन्दितब्बत्ता.
यं पन ‘‘यस्स वा पन यत्थ रूपायतनं उप्पज्जित्थ, तस्स तत्थ घानायतनं उप्पज्जतीति? कामावचरा चवन्तानं, अघानकानं कामावचरं उपपज्जन्तानं, रूपावचरानं तेसं तत्थ रूपायतनं उप्पज्जित्थ, नो च तेसं तत्थ घानायतनं उप्पज्जती’’ति एत्थ ‘‘अघानकानं कामावचरं उपपज्जन्तान’’न्ति (यम. १.आयतनयमक.७६) वुत्तं, तं ये एकादसमसत्ताहा ओरतो कालं करिस्सन्ति, तेसं घानायतनानिब्बत्तककम्मेन गहितपटिसन्धिकानं वसेन वुत्तन्ति वेदितब्बं. ‘‘यस्स यत्थ घानायतनं न निरुज्झति, तस्स तत्थ रूपायतनं न निरुज्झिस्सतीति? कामावचरं उपपज्जन्तानं, अघानकानं कामावचरा चवन्तानं, रूपावचरानं तेसं तत्थ घानायतनं न निरुज्झति, नो च तेसं तत्थ रूपायतनं न निरुज्झिस्सती’’ति हि एत्थ ‘‘अघानकानं कामावचरा चवन्तान’’न्ति (यम. १.आयतनयमक.१८१) वचनं अनुप्पन्नेयेव घानायतने गब्भसेय्यकानं चुति अत्थीति दीपेति. न हि कामावचरे गब्भसेय्यकतो अञ्ञो अघानको अत्थि धम्महदयविभङ्गे (विभ. ९७८ आदयो) ‘‘कामधातुया उपपत्तिक्खणे कस्सचि अट्ठायतनानि पातुभवन्ती’’ति अवुत्तत्ताति. अथ कस्मा ओपपातिके एव सन्धाय इध, इन्द्रिययमके च यथादस्सितासु पुच्छासु ‘‘आमन्ता’’ति वुत्तन्ति न विञ्ञायतीति? यमके सन्निट्ठानेन गहितत्थस्स एकदेसे संसयत्थसम्भवेन पटिवचनस्स अकरणतो. भिन्दितब्बे हि न पटिवचनविस्सज्जनं होति. यदि सिया, परिपुण्णविस्सज्जनमेव न सियाति. अथ कस्मा ‘‘यस्स वा पन सोमनस्सिन्द्रियं उप्पज्जति, तस्स चक्खुन्द्रियं उप्पज्जतीति? आमन्ता’’ति (यम. ३.इन्द्रिययमक.१८६) इमिना ‘‘गब्भसेय्यकानं सोमनस्सपटिसन्धि नत्थी’’ति न विञ्ञायतीति? ‘‘कामधातुया उपपत्तिक्खणे कस्स दसिन्द्रियानि पातुभवन्ति? गब्भसेय्यकानं सत्तानं सहेतुकानं ञाणसम्पयुत्तानं उपपत्तिक्खणे दसिन्द्रियानि पातुभवन्ति कायिन्द्रियं मनिन्द्रियं इत्थिन्द्रियं वा पुरिसिन्द्रियं वा जीवितिन्द्रियं सोमनस्सिन्द्रियं वा उपेक्खिन्द्रियं वा सद्धिन्द्रिय’’न्तिआदिवचनतो (विभ. १०१२).
निरोधवारे अनागतकालभेदे यथा तस्सेव चित्तस्स निरोधो अनागतभावेन तस्स उप्पत्तिक्खणे वुत्तो, एवं तस्सेव कम्मजसन्तानस्स निरोधो अनागतभावेन तस्स उप्पादे वत्तब्बोति सब्बत्थ उपपज्जन्तानं एव सो तथा वुत्तो, न उप्पन्नानं. उप्पन्नानं पन अञ्ञस्स अनागतस्स सन्तानस्स निरोधो अनागतभावेन वत्तब्बो, न तस्सेव. तस्स हि उप्पादानन्तरं निरोधो आरद्धो नाम होतीति. तस्मा अरहतं पवत्ते सोतस्स चक्खुस्स च भेदे सतिपि अनागतकालामसनवसेनेव ‘‘यस्स चक्खायतनं निरुज्झिस्सति, तस्स सोतायतनं निरुज्झिस्सतीति? आमन्ता. यस्स वा पन सोतायतनं निरुज्झिस्सति, तस्स चक्खायतनं निरुज्झिस्सतीति? आमन्ता’’ति विस्सज्जनद्वयं उपपन्नमेव होतीति. यस्मा च उपपत्तिअनन्तरं निरोधो आरद्धो नाम होति, तंनिट्ठानभावतो पन चुतिया निरोधवचनं, तस्मा पवत्ते निरुद्धेपि सन्तानेकदेसे अनिरुद्धं उपादाय अनिट्ठितनिरोधोति चुतियाव तस्स निरोधोति वुच्चति. वक्खति हि ‘‘यस्स वा पन सोमनस्सिन्द्रियं निरुज्झति, तस्स चक्खुन्द्रियं निरुज्झतीति? आमन्ता’’ति, तेनेत्थापि चुतिनिरोधे एव च अधिप्पेते यञ्च पवत्ते निरुज्झिस्सति, तञ्च निट्ठानवसेन चुतिया एव निरुज्झिस्सतीति वुत्तन्ति ‘‘आमन्ता’’ति युत्तं पटिवचनं. ‘‘सचक्खुकान’’न्तिआदीसु च ‘‘पटिलद्धचक्खुकान’’न्तिआदिना अत्थो विञ्ञायतीति.
‘‘यस्स चक्खायतनं न निरुज्झति, तस्स सोतायतनं न निरुज्झिस्सतीति? सब्बेसं उपपज्जन्तानं, अचक्खुकानं चवन्तानं तेसं चक्खायतनं न निरुज्झति, नो च तेसं सोतायतनं न निरुज्झिस्सती’’ति एत्थ आरुप्पे पच्छिमभविके ठपेत्वा सब्बे उपपज्जन्ता, अचक्खुका चवन्ता च गहिताति दट्ठब्बा. ते हि दुतियकोट्ठासेन सङ्गय्हन्तीति तदपेक्खत्ता सावसेसमिदं सब्बवचनं अचक्खुकवचनञ्चाति. ‘‘आरुप्पे पच्छिमभविकान’’न्ति एत्थ च अरूपतो पञ्चवोकारं अगच्छन्ता अनञ्ञूपपत्तिकापि ‘‘अरूपे पच्छिमभविका’’इच्चेव सङ्गय्हन्तीति वेदितब्बा. एस नयो अञ्ञेसुपि एवरूपेसूति.
पवत्तिवारवण्णना निट्ठिता.
आयतनयमकवण्णना निट्ठिता.