१. मूलयमकं
उद्देसवारवण्णना
१. यमकानं वसेन देसितत्ताति इमिना दससु एकेकस्स यमकसमूहस्स तंसमूहस्स च सकलस्स पकरणस्स यमकानं वसेन लद्धवोहारतं दस्सेति.
कुसलाकुसलमूलसङ्खातानं द्विन्नं अत्थानं वसेन अत्थयमकन्ति एतेन ‘‘ये केचि कुसला धम्मा, सब्बे ते कुसलमूला’’ति एतस्सेव यमकभावो आपज्जतीति चे? नापज्जति ञातुं इच्छितानं दुतियपठमपुच्छासु वुत्तानं कुसलकुसलमूलविसेसानं, कुसलमूलकुसलविसेसेहि वा ञातुं इच्छितानं पठमदुतियपुच्छासु सन्निट्ठानपदसङ्गहितानं कुसलकुसलमूलानं वसेन अत्थयमकभावस्स वुत्तत्ता. ञातुं इच्छितानञ्हि विसेसानं विसेसवन्तापेक्खानं, तंविसेसवतं वा धम्मानञ्च विसेसापेक्खानं एत्थ पधानभावोति एकेकाय पुच्छाय एकेको एव अत्थो सङ्गहितो होतीति. अत्थसद्दो चेत्थ न धम्मवाचको हेतुफलादिवाचको वा, अथ खो पाळिअत्थवाचको. तेनेवाह ‘‘तेसञ्ञेव अत्थान’’न्तिआदि.
तीणिपि पदानि एकतो कत्वाति इदं नामपदस्स कुसलादीनं सङ्गाहकत्तमत्तमेव सन्धाय वुत्तं, न निरवसेससङ्गाहकत्तं. सब्बकुसलादिसङ्गण्हनत्थमेव च नामपदस्स वुत्तत्ता ‘‘कुसलत्तिकमातिकाय चतूसु पदेसू’’ति वुत्तं.
उद्देसवारवण्णना निट्ठिता.
निद्देसवारवण्णना
५२. अञ्ञमञ्ञयमके ये केचि कुसलाति अपुच्छित्वाति एत्थ यथा दुतिययमके ‘‘ये केचि कुसलमूला’’ति अपुच्छित्वा ‘‘ये केचि कुसला’’ति पुच्छा कता, एवमिधापि ‘‘ये केचि कुसला’’ति पुच्छा कातब्बा सिया पुरिमयमकविसिट्ठं अपुब्बं गहेत्वा पच्छिमयमकस्स अप्पवत्तत्ताति अधिप्पायो. ‘‘पटिलोमपुच्छानुरूपभावतो’’ति केचि. पुरिमपुच्छाय पन अत्थवसेन कताय तदनुरूपाय पच्छिमपुच्छाय भवितब्बं अनुलोमे विगतसंसयस्स पटिलोमे संसयुप्पत्तितो. तेन न च पच्छिमपुच्छानुरूपाय पुरिमपुच्छाय भवितब्बन्ति पुरिमोवेत्थ अधिप्पायो युत्तो. इमिनापि ब्यञ्जनेन तस्सेवत्थस्स सम्भवतोति इदमेवं न सक्का वत्तुं. न हि कुसलब्यञ्जनत्थो एव कुसलमूलेन एकमूलब्यञ्जनत्थो, तेनेव विस्सज्जनम्पि असमानं होति. कुसलब्यञ्जनेन हि पुच्छाय कताय ‘‘अवसेसा’’ति इमस्मिं ठाने ‘‘अवसेसा कुसला धम्मा’’ति वत्तब्बं होति, इतरथा अवसेसा कुसलमूलसहजाता धम्माति, न च तानि वचनानि समानत्थानि कुसलकुसलाब्याकतदीपनतोति. अयं पनेत्थ अधिप्पायो सिया – ‘‘ये केचि कुसला’’ति इमिनापि ब्यञ्जनेन ‘‘ये केचि कुसलमूलेन एकमूला’’ति वुत्तब्यञ्जनत्थस्सेव सम्भवतो दुतिययमके विय अपुच्छित्वा ‘‘ये केचि कुसलमूलेन एकमूला’’ति पुच्छा कता. न हि कुसलमूलेहि विय कुसलमूलेन एकमूलेहि अञ्ञे कुसला सन्ति, कुसलेहि पन अञ्ञेपि ते सन्तीति.
पटिलोमपुच्छावण्णनायं ‘‘कुसलमूलेन एकमूला’’ति हि पुच्छाय कताय ‘‘मूलानि यानि एकतो उप्पज्जन्ती’’ति हेट्ठा वुत्तनयेनेव विस्सज्जनं कातब्बं भवेय्याति वुत्तं, तम्पि तथा न सक्का वत्तुं. ‘‘ये वा पन कुसलमूलेन अञ्ञमञ्ञमूला, सब्बे ते धम्मा कुसलमूलेन एकमूला’’ति च पुच्छिते ‘‘आमन्ता’’ इच्चेव विस्सज्जनेन भवितब्बं. न हि कुसलमूलेन अञ्ञमञ्ञमूलेसु किञ्चि एकमूलं न होति, येन अनुलोमपुच्छाय विय विभागो कातब्बो भवेय्य. यत्थ तीणि कुसलमूलानि उप्पज्जन्ति, तत्थ तानि अञ्ञमञ्ञमूलानि एकमूलानि च द्विन्नं द्विन्नं एकेकेन अञ्ञमञ्ञेकमूलत्ता. यत्थ पन द्वे उप्पज्जन्ति, तत्थ तानि अञ्ञमञ्ञमूलानेव, न एकमूलानीति एतस्स गहणस्स निवारणत्थं ‘‘मूलानि यानि एकतो उप्पज्जन्ती’’तिआदिना विस्सज्जनं कातब्बन्ति चे? न, ‘‘आमन्ता’’ति इमिनाव विस्सज्जनेन तंगहणनिवारणतो अनुलोमपुच्छाविस्सज्जनेन च एकतो उप्पज्जमानानं द्विन्नं तिण्णञ्च मूलानं अञ्ञमञ्ञेकमूलभावस्स निच्छितत्ता. अञ्ञमञ्ञमूलानञ्हि समानमूलता एव एकमूलवचनेन पुच्छीयति, न अञ्ञमञ्ञसमानमूलता, अत्थि च द्विन्नं मूलानं समानमूलता. तेसु हि एकेकं इतरेन मूलेन तंमूलेहि अञ्ञेहि समानमूलन्ति.
अञ्ञमञ्ञमूलत्ते पन निच्छिते एकमूलत्तसंसयाभावतो ‘‘सब्बे ते धम्मा कुसलमूलेन एकमूला’’ति पुच्छा न कताति दट्ठब्बा. ‘‘अञ्ञमञ्ञस्स मूला एतेसन्तिपि अञ्ञमञ्ञमूला, समानत्थेन एकं मूलं एतेसन्ति एकमूला’’ति उभयम्पि वचनं मूलयुत्ततमेव वदति, तेनेव च उभयत्थापि ‘‘कुसलमूलेना’’ति वुत्तं. तत्थ मूलयोगसामञ्ञे एकमूलत्ते निच्छिते तब्बिसेसो अञ्ञमञ्ञमूलभावो न निच्छितो होतीति अनुलोमपुच्छा पवत्ता, मूलयोगविसेसे पन अञ्ञमञ्ञमूलत्ते निच्छिते न विना एकमूलत्तेन अञ्ञमञ्ञमूलत्तं अत्थीति मूलयोगसामञ्ञं एकमूलत्तं निच्छितमेव होति, तस्मा ‘‘एकमूला’’ति पुच्छं अकत्वा यथा कुसलमूलवचनं एकमूलवचनञ्च कुसलभावदीपकं न होतीति कुसलभावे संसयसब्भावा पठमदुतिययमकेसु ‘‘सब्बे ते धम्मा कुसला’’ति पटिलोमपुच्छा कता, एवं अञ्ञमञ्ञमूलवचनं कुसलभावदीपकं न होतीति कुसलभावे संसयसब्भावा कुसलाधिकारस्स च अनुवत्तमानत्ता ‘‘सब्बे ते धम्मा कुसला’’ति पटिलोमपुच्छा कताति.
५३-६१. मूलनये वुत्ते एव अत्थे कुसलमूलभावेन मूलस्स विसेसनेन समानेन मूलेन अञ्ञमञ्ञस्स च मूलेन मूलयोगदीपनेन चाति इमिना परियायन्तरेन पकासेतुं मूलमूलनयो वुत्तो. अञ्ञपदत्थसमासन्तेन क-कारेन तीसुपि यमकेसु मूलयोगमेव दीपेतुं मूलकनयो वुत्तो. मूलमूलकनयवचनपरियायो वुत्तप्पकारोव.
७४-८५. अब्बोहारिकं कत्वाति न एकमूलभावं लभमानेहि एकतो लब्भमानत्ता सहेतुकवोहाररहितं कत्वा. न वा सहेतुकदुके विय एत्थ हेतुपच्चययोगायोगवसेन अब्बोहारिकं कतं, अथ खो सहेतुकवोहारमेव लभति, न अहेतुकवोहारन्ति अब्बोहारिकं कतं. एकतो लब्भमानकवसेनाति अहेतुकचित्तुप्पादनिब्बानेहि हेतुपच्चयरहितेहि सह लब्भमानकरूपवसेनाति अत्थो.
८६-९७. यस्सं पाळियं ‘‘अहेतुकं नाममूलेन न एकमूलं, सहेतुकं नाममूलेन एकमूल’’न्ति (यम. १.मूलयमक.८७) पाठो आगतो, तत्थ ‘‘ये केचि नामा धम्मा’’ति नामानं निद्धारितत्ता ‘‘अहेतुकं सहेतुक’’न्ति च वुत्ते ‘‘नाम’’न्ति च इदं विञ्ञायमानमेवाति न वुत्तन्ति वेदितब्बं. यत्थ पन ‘‘अहेतुकं नामं, सहेतुकं नाम’’न्ति (यम. १.मूलयमक.८७) च पाठो, तत्थ सुपाकटभावत्थं ‘‘नाम’’न्ति वुत्तन्ति.
निद्देसवारवण्णना निट्ठिता.
मूलयमकवण्णना निट्ठिता.