१. एककनिद्देसवण्णना

१. झानङ्गानेव विमोक्खोति इमिना अधिप्पायेनाह ‘‘विमोक्खसहजातेन नामकायेना’’ति. येन हि सद्धिन्तिआदिना पठमं समङ्गिभावत्थं विवरति. फस्सेनपि फुट्ठायेव नामाति एतेन ‘‘अपिचेसा’’तिआदिना वुत्तं दुतियं सम्फस्सेन फुसनत्थं, इतरेहि इतरे कारणत्थे. समङ्गिभावफुसनकारणभावा हि फुसनाति वुत्ताति. पुनपि पठमत्थमेव दुब्बिञ्ञेय्यत्ता विवरन्तो ‘‘तत्रास्सा’’तिआदिमाह. ठपेत्वा तानि अङ्गानि सेसा अतिरेकपण्णासधम्माति एत्थ वेदनासोमनस्सिन्द्रियानि सङ्गहितानीति आह ‘‘चत्तारो खन्धा होन्ती’’ति. एवं सति वेदनासोमनस्सिन्द्रियेहि सुखस्स फुसितब्बत्ता तिण्णञ्च तेसं अनञ्ञत्ता तेनेव तस्स फुसना आपज्जतीति? नापज्जति, वेदयिताधिपतियट्ठेहि उपनिज्झायनभावपटिलाभस्स वुत्तत्ता. अथ वा ठपेत्वा तानि अङ्गानीति अङ्गानं बहुत्ता बहुवचनं. तेसु पन पच्चेकम्पि योजना कातब्बा ‘‘वितक्कं ठपेत्वा’’तिआदिना. तत्थ ‘‘सुखं ठपेत्वा’’ति इमिस्सा योजनाय सेसा तयो खन्धा होन्ति, इतरासु चत्तारोति. सब्बयोजनासु च तयो अन्तो कत्वा ‘‘चत्तारो खन्धा होन्ती’’ति वुत्तं.

२. यो असमयविमोक्खेन एकच्चेहि आसवेहि विमुत्तो असमयविमोक्खूपनिस्सयलाभेन च सातिसयेन समयविमोक्खेन, सो एव समयविमुत्तो. सो हि तेन विमुत्तो झानलाभी सेक्खो रूपारूपभवतो अपुनरावट्टको कामरागादीहि तथाविमुत्तोव होतीति समयविमुत्तपञ्ञत्तिं लद्धुं अरहति. पुथुज्जनो पन झानलाभी पुनरावट्टकधम्मो पुन कामरागादिसमुदाचारभावतो विमुत्तो नाम न होतीति समयविमुत्तपञ्ञत्तिं नारहति, तेन सो ‘‘समयविमुत्तो’’ति न वुत्तो. अरहतो पन अपरिक्खीणा आसवा नत्थि, यतो विमुच्चेय्य. दिट्ठधम्मसुखविहारमत्ता हि तस्स अट्ठ विमोक्खाति. तस्मा तस्स न अट्ठ विमोक्खा समयविमुत्तपञ्ञत्तिभावस्स असमयविमुत्तपञ्ञत्तिभावस्स वा कारणं. तदकारणभावमेव दस्सेतुं ‘‘न हेव खो…पे… विहरती’’ति वुत्तं, न सुक्खविपस्सकस्सेव असमयविमुत्तभावं दस्सेतुन्ति दट्ठब्बं. सब्बोपि हि अरहा असमयविमुत्तोति. बाहिरानन्ति लोकुत्तरतो बहिभूतानं, लोकियानन्ति अत्थो.

३. अरूपक्खन्धनिब्बानमत्तवाचको अरूपसद्दो न होतीति दस्सनत्थं ‘‘रूपतो अञ्ञ’’न्तिआदि वुत्तं. चित्तमञ्जूसन्ति समाधिं. अभिञ्ञादीनञ्हि धम्मानं पादकभावेन समाधि मञ्जूसासदिसो होति. अद्धानं फरितुन्ति दीघकालं ब्यापेतुं, पवत्तेतुन्ति अत्थो. ‘‘सम्मज्जितब्ब’’न्ति चिन्तेत्वा तत्थ आदरस्स अकतत्ता वत्तभेदोति वेदितब्बो. एवं वत्तभेदमत्तेन नट्ठा पन समापत्ति कामच्छन्दादीहि नट्ठा विय न किञ्चेन पच्चाहरितब्बा होति मन्दपारिपन्थकत्ता, तस्मा वत्तसमितकरणमत्तेनेव पच्चाहरितब्बत्ता ‘‘अप्पेन्तोव निसीदी’’ति आह.

४. अत्तनो अनुरूपेन पमादेन वीतिनामेन्तानम्पि समापत्ति न कुप्पतीति परिहीनो नाम न होति, तस्मिं तस्मिं ब्यासङ्गे पटिसंहटमत्ते समापज्जितुं समत्थतायाति अधिप्पायो. ‘‘किस्स पन, भन्ते, खीणासवस्स भिक्खुनो लाभसक्कारसिलोको अन्तरायायाति? या हिस्स सा, आनन्द, अकुप्पा चेतोविमुत्ति, नाहं तस्सा लाभसक्कारसिलोकं अन्तरायाय वदामि. ये च ख्वस्स, आनन्द, अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो दिट्ठधम्मसुखविहारा अधिगता, तेसाहमस्स लाभसक्कारसिलोकं अन्तरायाय वदामी’’ति सुत्ते (सं. नि. २.१७९) पन समयेन समयं आपज्जनेन परिहरितब्बानं समापत्तिसुखविहारानं तस्मिं तस्मिं ब्यासङ्गकाले अनिप्फत्तितो लाभसक्कारसिलोको अन्तरायोति वुत्तोति अधिप्पायेनस्स तेन अविरोधो वेदितब्बो.

५. धम्मानं…पे… पीति एत्थ ‘‘धम्मेही’’ति वत्तब्बं. इध हि ताहि समापत्तीहि परिहायेय्याति धम्मेहि पुग्गलस्स परिहानम्पि अपरिहानम्पि वुत्तं. तत्थ च पुग्गलस्स पमादमागम्म ता समापत्तियो कुप्पेय्युन्ति धम्मानं कुप्पनं अकुप्पनञ्च वुत्तं, पुग्गलस्स पन परिहानधम्मानमेव विनासोति वचननानत्तमत्तेन वचनत्थनानत्तमत्तेन वा परियायन्तरता वुत्ताति दट्ठब्बा.

७-८. चेतना समापत्तिचेतना तदायूहना च. अनुरक्खणा समापत्तिउपकारानुपकारपरिग्गाहिका पञ्ञासहिता सति. ताहि चेतियमानअनुरक्खियमानसमापत्तीनं भब्बा चेतनाभब्बा अनुरक्खणाभब्बा.

१०. पुथुज्जनगोत्तन्ति पुथुज्जनसिक्खं, पुथुज्जनगता तिस्सो सिक्खा अतिक्कन्ताति अत्थो. ता हि संयोजनत्तयानुपच्छेदेन ‘‘पुथुज्जनसिक्खा’’ति वुच्चन्तीति.

११. अरहत्तमग्गट्ठो च वट्टभयतो पञ्ञुब्बेगेन उब्बिज्जन्तो उद्धम्भागियसंयोजनेहि उपरतोति भयूपरतो नामाति आह ‘‘सत्त सेक्खा भयूपरता’’ति.

१२. भवङ्गपञ्ञाविरहिता ‘‘विपाकावरणेन समन्नागता’’ति इमिना गहिताति तिहेतुकपटिसन्धिका केचि ‘‘दुप्पञ्ञा’’ति इमिना गय्हन्तीति दस्सेन्तो आह ‘‘अप्पटिलद्धमग्गफलूपनिस्सया’’ति. पञ्ञाय हि विना न तदुपनिस्सयो अत्थीति.

१४. यत्थ नियतानियतवोमिस्सा पवत्ति अत्थि, तत्थेव नियतधम्मा होन्तीति उत्तरकुरूसु तदभावा नियतो नाम नत्थीति दस्सेन्तो ‘‘या पन उत्तरकुरुकान’’न्तिआदिमाह.

१६. तेरससु सीसेसु पलिबोधसीसादीनि पवत्तसीसञ्च परियादियितब्बानि, अधिमोक्खसीसादीनि परियादकानि, परियादकफलं गोचरसीसं. तञ्हि विसयज्झत्तफलविमोक्खोति. परियादकस्स मग्गस्स फलस्स च आरम्मणं सङ्खारसीसं सङ्खारविवेकभूतो निरोधोति परियादियितब्बानं परियादकफलारम्मणानं सह विय संसिद्धिदस्सनेन समसीसिभावं दस्सेतुं पटिसम्भिदायं (पटि. म. १.८७) तेरस सीसानि वुत्तानि. इध पन ‘‘अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्चा’’ति वचनतो तेसु किलेसपवत्तसीसानमेव वसेन योजनं करोन्तो ‘‘तत्थ किलेससीस’’न्तिआदिमाह. तत्थ पवत्तसीसम्पि वट्टतो वुट्ठहन्तो मग्गो चुतितो उद्धं अप्पवत्तिकरणवसेन यदिपि परियादियति, याव पन चुति, ताव पवत्तिसब्भावतो ‘‘पवत्तसीसं जीवितिन्द्रियं चुतिचित्तं परियादियती’’ति आह. किलेसपरियादानेन पन अत्तनो अनन्तरं विय निप्फादेतब्बा पच्चवेक्खणवारा च किलेसपरियादानस्सेव वाराति वत्तब्बतं अरहन्ति. ‘‘विमुत्तस्मिं विमुत्तमिति ञाणं होती’’ति (म. नि. १.७८; सं. नि. ३.१२, १४) वचनतो हि पच्चवेक्खणपरिसमापनेन किलेसपरियादानं समापितं नाम होति. तं पन परिसमापनं यदि चुतिचित्तेन होति, तेनेव जीवितपरिसमापनञ्च होतीति इमाय वारचुतिसमताय किलेसपरियादानजीवितपरियादानानं अपुब्बाचरिमता होतीति आह ‘‘वारसमताया’’ति. भवङ्गं ओतरित्वा परिनिब्बायतीति एत्थ परिनिब्बानचित्तमेव भवङ्गोतरणभावेन वुत्तन्ति दट्ठब्बं.

१७. महापयोगोति महाकिरियो विपत्तिकरणमहामेघुट्ठानाकारविनासो. तिट्ठेय्याति विनासो नप्पवत्तेय्याति अत्थो.

१८. अरणीयत्ताति पयिरुपासितब्बत्ता.

२०. याय कतकिच्चता होति, ताय अग्गविज्जाय अधिगताय तेविज्जताभावो निप्परियायता, सा च आगमनवसेन सिद्धा सातिसया तेविज्जताति आह ‘‘आगमनीयमेव धुर’’न्ति.

२२. तत्थ चाति निमित्तत्थे भुम्मं, सब्बञ्ञुतञ्ञाणप्पत्तिया आधारभावे वा. तत्थेव हि सब्बञ्ञुतं पत्तो नाम होतीति.

२३. अननुस्सुतेसु धम्मेसूति च अननुस्सुतेसु सच्चेसूति अत्थो.

२४. ‘‘रूपी रूपानि पस्सती’’तिआदिके (म. नि. २.२४८; ३.३१२; पटि. म. १.२०९; ध. स. २४८) निरोधसमापत्तिअन्ते अट्ठ विमोक्खे वत्वा ‘‘यतो खो, आनन्द, भिक्खु इमे अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, आनन्द, भिक्खु उभतोभागविमुत्तो’’ति यदिपि महानिदानसुत्ते वुत्तं, तं पन उभतोभागविमुत्तसेट्ठवसेन वुत्तन्ति इध कीटागिरिसुत्तवसेन सब्बउभतोभागविमुत्तसङ्गहत्थं ‘‘अट्ठ समापत्तियो सहजातनामकायेन पटिलभित्वा विहरती’’ति आह. कीटागिरिसुत्ते हि ‘‘इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा, ते कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, पुग्गलो उभतोभागविमुत्तो’’ति (म. नि. २.१८२) अरूपसमापत्तिवसेन चत्तारो उभतोभागविमुत्ता वुत्ता, उभतोभागविमुत्तसेट्ठो च वुत्तलक्खणोपपत्तितोति. कायसक्खिम्हिपि एसेव नयो.

पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति न आसवा पञ्ञाय पस्सन्ति, दस्सनकारणा पन परिक्खीणा दिस्वा परिक्खीणाति वुत्ता. दस्सनायत्तपरिक्खयत्ता एव हि दस्सनं पुरिमकिरिया होतीति. नामनिस्सितको एसोति एसो उभतोभागविमुत्तो रूपतो मुच्चित्वा नामं निस्साय ठितो पुन ततो मुच्चनतो ‘‘नामनिस्सितको’’ति वत्वा तस्स च साधकं सुत्तं वत्वा ‘‘कायद्वयतो सुविमुत्तत्ता उभतोभागविमुत्तो’’ति आहाति अत्थो. सुत्ते हि आकिञ्चञ्ञायतनलाभिनो उपसीवब्राह्मणस्स भगवता नामकाया विमुत्तोति उभतोभागविमुत्तोति मुनि अक्खातोति.

पठमत्थेरवादे द्वीहि भागेहि विमुत्तो उभतोभागविमुत्तो, दुतियत्थेरवादे उभतो भागतो विमुत्तोति उभतोभागविमुत्तोति, ततियत्थेरवादे द्वीहि भागेहि द्वे वारे विमुत्तोति अयमेतेसं विसेसो. तत्थ विमुत्तोति किलेसेहि विमुत्तो, किलेसविक्खम्भनसमुच्छेदनेहि वा कायद्वयतो विमुत्तोति अत्थो दट्ठब्बो. अरूपावचरं पन नामकायतो च विमुत्तन्ति नीवरणसङ्खातनामकायतो विमुत्तन्ति वुत्तं होति. तञ्हि नीवरणदूरीभावेन नामकायतो रूपतण्हाविक्खम्भनेन रूपकायतो च विमुत्तत्ता एकदेसेन उभतोभागविमुत्तं नाम होतीति अरहत्तमग्गस्स पादकभूतं उभतोभागविमुत्तनामलाभस्स कारणं भवितुं युत्तन्ति अधिप्पायो.

२५. एतेसु हि एकोपि अट्ठविमोक्खलाभी न होतीति उभतोभागविमुत्तभावस्स कारणभूतं रूपकायतो विमुत्तं एकम्पि विमोक्खं अनधिगतोति अधिप्पायो. अरूपावचरेसु हि एकम्पि अधिगतो उभतोभागविमुत्तभावकारणपटिलाभतो अट्ठविमोक्खेकदेसेन तेन तंनामदाने समत्थेन ‘‘अट्ठविमोक्खलाभी’’त्वेव वुच्चति. तेनाह ‘‘अरूपावचरज्झानेसु पना’’तिआदि.

२६. फुट्ठन्तं सच्छिकरोतीति फुट्ठानं अन्तो फुट्ठन्तो, फुट्ठानं अरूपावचरज्झानानं अनन्तरो कालोति अधिप्पायो. अच्चन्तसंयोगे चेत्थ उपयोगवचनं दट्ठब्बं. फुट्ठानन्तरकालमेव सच्छिकरोति सच्छिकातब्बोपायेनाति वुत्तं होति. ‘‘एकमन्तं निसीदी’’तिआदीसु (दी. नि. १.१६५) विय भावनपुंसकं वा एतं. यो हि अरूपज्झानेन रूपकायतो नामकायेकदेसतो च विक्खम्भनविमोक्खेन विमुत्तो, तेन निरोधसङ्खातो विमोक्खो आलोचितो पकासितो विय होति, न पन कायेन सच्छिकतो. निरोधं पन आरम्मणं कत्वा एकच्चेसु आसवेसु खेपितेसु तेन सो सच्छिकतो होति, तस्मा सो सच्छिकातब्बं निरोधं यथाआलोचितं नामकायेन सच्छिकरोतीति कायसक्खीति वुच्चति, न तु विमुत्तोति एकच्चानं आसवानं अपरिक्खीणत्ता.

२७. दिट्ठत्ता पत्तोति एतेन चतुसच्चदस्सनसङ्खाताय दिट्ठिया निरोधस्स पत्ततं दीपेति. ‘‘दिट्ठन्तं पत्तो’’ति वा पाठो, दस्सनसङ्खातस्स सोतापत्तिमग्गञाणस्स अनन्तरं पत्तोति वुत्तं होति. पठमफलतो पट्ठाय हि याव अग्गमग्गा दिट्ठिप्पत्तोति.

२८. इमं पन नयं ‘‘नो’’ति पटिक्खिपित्वाति एत्थ दिट्ठिप्पत्तसद्धाविमुत्तभावप्पत्तानं पञ्ञानानत्तं वुत्तं, न पन येन विसेसेन सो विसेसो पत्तो, सो वुत्तोति इमं दोसं दिस्वा पटिक्खेपो कतोति दट्ठब्बो. आगमट्ठकथासूति च वचनेन आगमनीयनानत्तसन्निट्ठानमेव थिरं करोतीति वेदितब्बं. सद्दहन्तो विमुत्तोति एतेन सब्बथा अविमुत्तस्सपि सद्धामत्तेन विमुत्तभावं दस्सेति. सद्धाविमुत्तोति वा सद्धाय अधिमुत्तोति अत्थो.

२९. पञ्ञं वाहेतीति पञ्ञं सातिसयं पवत्तेतीति अत्थो. पञ्ञा इमं पुग्गलं वहतीति निब्बानाभिमुखं गमेतीति अत्थो.

३१. एवं मग्गक्खणेपीति अयं अपि-सद्दो कस्मा वुत्तो, ननु अरियेन अट्ठङ्गिकेन मग्गेन समन्नागतो मग्गक्खणे एव होतीति तदा एव सोतापन्नो नामाति आपन्नन्ति? नापन्नं. मग्गेन हि अत्तना सदिसस्स अट्ठङ्गिकस्स वा सत्तङ्गिकस्स वा फलस्स सोतोति नामं दिन्नन्ति तेनपि समन्नागतस्स सोतापन्नभावतो, सोतेन वा मग्गेन पवत्तेतुं अपरिहीनेन फलट्ठोपि समन्नागतो एव नाम, न च तेन पठममग्गक्खणे विय सोतो समापज्जियमानो, तस्मा समापन्नसोतत्ता पठमफलतो पट्ठाय ‘‘सोतापन्नो’’ति वत्तुं युत्तो. वुत्तञ्हि ‘‘ये केचि, भिक्खवे, मयि अवेच्चप्पसन्ना, सब्बे ते सोतापन्ना. तेसं सोतापन्नानं पञ्चन्नं इध निट्ठा, पञ्चन्नं इध विहाय निट्ठा’’ति (अ. नि. १०.६४). तत्थ दुतियफलट्ठादीनं विसुं नामं अत्थीति पठमफलट्ठो एव इतरेहि विसेसियमानो ‘‘सोतापन्नो’’ति वत्तुं युत्तोति सो एव इधाधिप्पेतो. पटिलद्धमग्गेन बुज्झतीति एतेन पटिलद्धमग्गस्स चतुसच्चपच्चवेक्खणादीनं उपनिस्सयभावं दस्सेति. सम्बोधि परं अयनं निस्सयो एतस्साति हि सम्बोधिपरायणोति. दुतियेनत्थेन सम्बोधि परं अयनं गति एतस्साति सम्बोधिपरायणो.

३२. केवलेन कुलसद्देन महाकुलमेव वुच्चतीति आह ‘‘महाभोगकुलेसुयेव निब्बत्ततीति अत्थो’’ति.

३३. खन्धबीजं नाम पटिसन्धिविञ्ञाणं. इहट्ठकनिज्झानिकवसेनेव इमस्मिं ठाने कथिताति सज्झानको अज्झत्तसंयोजनसमुच्छेदे अकतेपि अनागामिसभागो अनावत्तिधम्मो इध गणनूपगो न होति, हेट्ठा उपरि च संसरणको कामभवगतो हीनज्झानको इध गणनूपगोति अधिप्पायो.

३४. यं वत्तब्बन्ति ‘‘द्वीहि कारणेहि तनुभावो वेदितब्बो’’तिआदि यं वत्तब्बं सियाति अत्थो.

३६. उपपन्नं वा समनन्तराति उपपन्नं वा एतेन पुग्गलेन होति, अथ समनन्तरा अरियमग्गं सञ्जनेति. अप्पत्तं वा वेमज्झं आयुप्पमाणन्ति आयुप्पमाणं तस्स पुग्गलस्स वेमज्झं अप्पत्तं होति, एत्थन्तरे अरियमग्गं सञ्जनेतीति अयमेत्थ पाळिअत्थो. अट्ठकथायं पन ‘‘अप्पत्वा पब्बतं नदी’’ति विय आयुप्पमाणं वेमज्झं अप्पत्तं वा हुत्वाति परसद्दयोगे परतो भूतो हुत्वा सद्दो वचनसेसभूतो पयुत्तोति वेदितब्बो.

३७. उपहच्चाति एतस्स उपगन्त्वाति अत्थो, तेन वेमज्झातिक्कमो कालकिरियोपगमनञ्च सङ्गहितं होति. तेन वुत्तं ‘‘अतिक्कमित्वा वेमज्झ’’न्तिआदि.

४०. उद्धंवाहिभावेनाति उद्धं वहतीति उद्धंवाही, तण्हासोतं वट्टसोतं वा, तस्स भावो, तेन उद्धंवाहिभावेनाति वुत्तं होति. अविहेसु उद्धंसोतो यदिपि तत्थ परिनिब्बायी न होति, यत्थ वा तत्थ वा गन्त्वा परिनिब्बायतु, परिनिब्बायिनो पन तस्स असङ्खारपरिनिब्बायिता ससङ्खारपरिनिब्बायिता च अत्थीति तत्थ दस अनागामिनो वुत्ता, एवं अतप्पादीसुपि. अनुपहच्चतलाति अप्पत्ततला. असङ्खारससङ्खारपरिनिब्बायीनं लहुसालहुसगतिका एव परित्तविपुलतिणकट्ठझापकपप्पटिकासदिसता वेदितब्बा, न उप्पज्जित्वाव निब्बायनकादीहि अधिमत्तता विय समुद्दं पत्वा निब्बायनकतो अनधिमत्तता विय च अन्तरा उपहच्चपरिनिब्बायीहि उद्धंसोततो च अधिमत्तानधिमत्तता. ते एव हि असङ्खारससङ्खारपरिनिब्बायिनोति. ततो महन्ततरेति वचनं तिणकट्ठझापनसमत्थपप्पटिकादस्सनत्थं, न अधिमत्त नाधिमत्तदस्सनत्थन्ति.

नो चस्स नो च मे सियाति अविज्जासङ्खारादिकं हेतुपञ्चकं नो च अस्स, विञ्ञाणादिकं इदं फलपञ्चकं वत्तमानं नो च मे सियाति अत्थो. तेन अतीतभवसंसिद्धितो दुक्खसमुदयतो इमस्स दुक्खस्स पवत्तिदस्सनतो पच्चयसमुदयट्ठेन खन्धानं उदयदस्सनपटिपत्ति वुत्ता होति. न भविस्सति, न मे भविस्सतीति यदि एतरहि हेतुपञ्चकं न भविस्सति, अनागते फलपञ्चकं न मे भविस्सतीति अत्थो. एतेन पच्चयनिरोधट्ठेन वयदस्सनपटिपत्ति वुत्ता होति, एतरहि अनागते च अत्तत्तनियनिवारणवसेन सुञ्ञतापटिपत्ति वा चतूहिपि वुत्ता. यदत्थीति यं अत्थि. भूतन्ति ससभावं निब्बत्तं वा यथादिट्ठउदयब्बयं यथादिट्ठसुञ्ञतं वा खन्धपञ्चकं परिकप्पितइत्थिपुरिससत्तादिभावरहितं नामरूपमत्तन्ति अत्थो. विवट्टानुपस्सनाय विवट्टमानसो तं भूतं पजहामीति उपेक्खं पटिलभति, सङ्खारुपेक्खाञाणेन उपेक्खको होतीति वुत्तं होति.

भवे न रज्जति, सम्भवे न रज्जतीति अविसिट्ठे विसिट्ठे च भवे न रज्जतीति केचि वदन्ति. पच्चुप्पन्नो पन भवो भवो, अनागतो जातिया गहणेन गहितो सम्भवोति वेदितब्बो. अथ वा भवोति भूतमेव वुच्चति, सम्भवो तदाहारो, तस्मिं द्वये न रज्जतीति सेक्खपटिपत्तिं दस्सेति. भूते हि ससम्भवे च विरागो सेक्खपटिपत्ति. यथाह ‘‘भूतमिदन्ति, भन्ते, यथाभूतं सम्मप्पञ्ञाय पस्सति, भूतमिदन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. तदाहारसम्भवन्ति यथाभूतं…पे… दिस्वा तदाहारसम्भवस्स निब्बिदाय…पे… पटिपन्नो होति. तदाहारनिरोधाय यं भूतं, तं निरोधधम्मन्ति यथाभूतं…पे… दिस्वा निरोधधम्मस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. एवं खो, भन्ते, सेक्खो होती’’ति (सं. नि. २.३१). अथुत्तरीति अथ एवं अरज्जमानो उत्तरि सन्तं पदं निब्बानं अनुक्कमेन मग्गपञ्ञाय सम्मा पस्सति, तञ्च ख्वस्स पदं न सब्बेन सब्बं सच्छिकतं चतुत्थमग्गेनेव सच्छिकातब्बस्स तस्स तेन असच्छिकतत्ता.

एककनिद्देसवण्णना निट्ठिता.