९. नवमनयो सम्पयुत्तेनसम्पयुत्तपदवण्णना
३१९. सम्पयुत्तेनसम्पयुत्तपदवण्णनायं यंखन्धादिवसेनाति समासपदं इदं दट्ठब्बं, यस्स खन्धादिनो वसेनाति अत्थो. तस्सेवाति च तस्सेव खन्धादिनोति अत्थो. इदं वुत्तं होति – यं इध सम्पयुत्तं वुत्तं, तं रूपक्खन्धादीसु अरणन्तेसु येन वेदनाक्खन्धादिना सम्पयुत्तं, पुन तस्सेव वेदनाक्खन्धादिनो खन्धादीहि सम्पयोगं पुच्छित्वा विस्सज्जनं कतं. तञ्हि अत्तना सम्पयुत्तेन सम्पयुत्तत्ता ‘‘सम्पयुत्तेन सम्पयुत्त’’न्ति निद्धारितन्ति. रूपेन वाति एतेन निरोधसच्चअप्पच्चयअसङ्खतेहिपि अयोगो वुत्तो होतीति दट्ठब्बो, तथा रूपमिस्सकेहि वाति एतेन अनुपादिन्नअनुपादानियादीहि निब्बानमिस्सकेहिपि. वक्खति हि ‘‘निब्बानं पन सुखुमरूपगतिकमेवा’’ति. सब्बारूपक्खन्धसङ्गाहकेहीति वत्तमानानमेव सम्पयोगो लब्भतीति वत्तमानेसु एकम्पि धम्मं अनपनेत्वा अविकलचतुक्खन्धसङ्गाहकेहि अरूपभवादीहीति अत्थो. अयं पनेत्थ सङ्खेपो – ये सम्पयोगं न लभन्ति रूपक्खन्धादयो, ते सब्बे न गहिता, इतरे च वेदनाक्खन्धादयो सब्बे गहिताति.
नवमनयसम्पयुत्तेनसम्पयुत्तपदवण्णना निट्ठिता.