२. अब्भन्तरमातिकावण्णना

२. ‘‘पञ्चक्खन्धा’’तिआदीहि रूपक्खन्धादिपदानि दस्सितानि, पटिच्चसमुप्पादवचनेन च येसु द्वादससु अङ्गेसु पच्चेकं पटिच्चसमुप्पादसद्दो वत्तति, तदत्थानि द्वादस पदानि दस्सितानीति तेसं तथादस्सितानं सरूपेनेव दस्सितानं फस्सादीनञ्च पदानं वसेन आह ‘‘पञ्चवीसाधिकेन पदसतेना’’ति. तत्थ कम्मुपपत्तिकामभवादीनं इध विभत्तानं भावनभवनभावेन भवे विय सोकादीनं जरामरणस्स विय अनिट्ठत्ता तन्निदानदुक्खभावेन च जरामरणे अन्तोगधताय पटिच्चसमुप्पादस्स द्वादसपदता दट्ठब्बा. एत्थ च पाळियं भिन्दित्वा अविस्सज्जितानम्पि सतिपट्ठानादीनं भिन्दित्वा गहणं करोन्तो तेसं भिन्दित्वापि विस्सज्जितब्बतं दस्सेतीति वेदितब्बं.

नयमातिकादिका लक्खणमातिकन्ता मातिका पकरणन्तरासाधारणताय धातुकथाय मातिका नाम, तस्सा अब्भन्तरे वुत्तो विभजितब्बानं उद्देसो अब्भन्तरमातिका नामाति इममत्थं पकासेन्तो ‘‘अयञ्ही’’तिआदिमाह. तत्थ एवं अवत्वाति यथा ‘‘सब्बापि…पे… मातिका’’ति अयं धातुकथामातिकतो बहिद्धा वुत्ता, एवं अवत्वाति अत्थो. धातुकथाय अब्भन्तरेयेवाति च धातुकथामातिकाय अब्भन्तरेयेवाति अत्थो दट्ठब्बो. तदावेणिकमातिकाअब्भन्तरे हि ठपिता तस्सायेव अब्भन्तरे ठपिताति वुत्ता. अथ वा एवं अवत्वाति यथा ‘‘सब्बापि…पे… मातिका’’ति एतेन वचनेन धातुकथातो बहिभूता कुसलादिअरणन्ता मातिका पकरणन्तरगता वुत्ता, एवं अवत्वाति अत्थो. धातुकथाय अब्भन्तरेयेवाति च इमस्स पकरणस्स अब्भन्तरे एव सरूपतो दस्सेत्वा ठपितत्ताति अत्थो. सब्बस्स अभिधम्मस्स मातिकाय असङ्गहितत्ता विकिण्णभावेन पकिण्णकता वेदितब्बा.